← अध्यायः ०५ जैमिनीयाश्वमेधपर्व।
अध्यायः ६
[[लेखकः :|]]
अध्यायः ०७ →

जैमिनिरुवाच॥
ततो बुद्धौ महावीरौ यौवनाश्वेन वारितौ ॥
संस्तूय भीमं तरसा पुरीमावेशयत्स्वकाम् ॥१॥
मेघवर्णस्तु तुरगं गृहीत्वा भीमसन्निधौ ॥
स्थितः प्राह हसन्वीरः किमिदं भाग्यकारितम् ॥२॥
चिंतयन्बहुधा देवमनंतं सर्वतोमुखम् ॥
ततो नृपः प्रसन्नात्मा वचनं चेदमब्रवीत् ॥ ३ ॥
प्रशंसन्पांडवं वीरं वृषकेतुं च मारिष ॥
यौवनाश्व उवाच ॥
भीम पश्य कुमारस्य वृषकेतोर्महद्बलम् ॥ ४॥
संजीवितोऽस्म्यनेनाजौ दयायुक्तेन साधुना ॥
प्राणदेन कथं युद्धं पुनरेव प्रजायते ॥५॥
तस्मान्मां नय भद्रं ते गोविन्दं प्रति पाण्डव ॥
मदीयं मानसं चाद्य त्वरते धर्मदर्शने ॥६॥
यस्य कृष्णे परा भक्तिर्मुक्तेरपि गरीयसी॥
यत्किंचिद्विद्यते वित्तं पुत्रपौत्रादिकं मम ॥७॥
शरीरमपि राज्यं च सर्वं कृष्णवशं कुरु ॥
गजानां मम शुभ्राणामयुतं विधते शुभम् ॥ ८॥
इदं शिरस्तथा वीर धर्मराजार्थमाहवे ॥
पातयिष्यामि यज्ञेऽस्मिंस्तुरगस्यापि रक्षणे ॥ ९॥
शुभ्रे गजे भीमसेन मया सार्धं समारुह ॥
सुवेगकर्णजावेतौ गजे मत्ते सकांचने॥6.१०॥
आरूढौ मत्पुरीं रम्यां प्रविशेतां ममाज्ञया ॥
नगरीं तु जना यांतु किंचिच्छोभयितुं पुरः॥११॥ पताकाभिर्विचित्राभिश्चंदनोदकशीतलाम्॥
प्रभावती भीमसेनं नीराजयतु भामिनी ॥१२॥
लाजाभिश्चैव मालाभिर्भावयन्तु हि कन्यकाः॥
एवमादिश्य नृपतिः प्रविवेश सपाण्डवः॥१३॥
मेघवर्णेन सहितो मुदायुक्तो नराधिपः॥
राजमंदिरमायांतं भीमं देवी ददर्श सा ॥ १४॥
सुवर्णपात्रे दीपं तु कृत्वा पञ्चशिखं शिवम् ॥
कर्पूरपुलकोद्भूतं स्त्रीभिर्युक्ता समाययौ ॥
नीराजयित्वा तान्वीरानिदं वचनमब्रवीत् ॥ १५॥
प्रभावत्युवाच ॥
येन मे कंठसूत्रं हि सुश्लथं परिरक्षितम् ॥
कर्णजेनाद्य तस्याथ कीर्तिः स्थूला भविष्यति ॥१६॥
जैमिनिरुवाच ॥
जाते नीराजने राजन्नुपविष्टा वरासने ॥
ततो नानाकथाः कृत्वा भुक्त्वा च शयनं गताः ॥१७॥
प्रभातसमये जाते कृतकार्यो नराधिपः॥
उपविष्टः सभामध्ये सह भीमेन भारत ॥१८॥
आदिदेश जनं सर्वं पुरस्थं धर्मकोविदः॥
सर्वे गच्छंतु वै तत्र यत्र तौ कृष्णपाण्डवौ ॥ १९॥
यः कश्चिन्मामके राष्ट्रे चातुर्वर्णोऽन्त्यजोपि वा ॥
न गच्छेत्कृष्णसान्निध्यं स वध्यश्चोरवन्मया ॥ 6.२० ॥
इत्याघोष्य तदा तेन भेरीदुन्दुभिनिःस्वनैः॥
सदाराः पुत्रकैः साकं सधनास्तु ममाज्ञया ॥२१॥
निर्यातु द्रौपदीं द्रष्टुं रुक्मिणीं च यशस्विनीम् ॥
प्रभावती च नारीणामयुतेन विभूषिता ॥ २२ ॥
वधूवृंदेन संयुक्ता धर्मराजपुरं प्रति ॥
मदीयो वीणकश्चायमयुतस्तंभमंडितः॥२३॥
पश्चिमाशामुपाश्रित्य दीयतां गमनाय मे ॥
दुंदुभिस्ताड्यतां घोरो मेघरावो गजोपरि ॥२४॥
सुवर्णपूरितायां तु करभाः शकटा वृषाः ॥
बहुनात्र किमुक्तेन मदीयं वसु यद्भवेत् ॥ २५॥
तत्सर्वं कृष्णसान्निध्ये नीयतामात्मकारिणः ॥
यत्र भागीरथी गंगा यज्ञेशो भगवान्हरिः ॥ २६॥
संयोगश्चैव सर्वेषां कस्यचित्तं न तोषयेत् ॥
सुदेवं च समाहूय संदिदेश नराधिपः ॥२७ ॥
वसुवृंदेन संयुक्तो नानासज्जनसंयुतः ॥
त्वमस्माकं पुरे श्रीमान् सन्त्यन्ये सधना जनाः॥
आत्मना सह तान्सर्वान्धर्मराजपुरं नय ॥२८॥
जैमिनिरुवाच ॥
एवं तेन समादिष्टो जनं प्राह पुरःस्थितम् ॥
भवद्भिर्गम्यतां तत्र यत्र तौ कृष्णपाण्डवौ ॥२९॥
युधिष्ठिरस्याश्वमेधो भविष्यति सुशोभनः ॥
एवमुक्ता जनाः सर्वे हृष्टा जाताः सुखान्विताः॥6.३०॥
सुदेवो मातरं प्राह राजामानेतुमिच्छति ॥
यत्र धर्मसुतो राजा यत्र तौ कृष्णपाण्डवौ ॥३१॥
जननी स्वसुतस्येदं वाक्यमाकर्ण्य चाप्रियम् ॥
प्रोवाच वचनं पुत्र न गन्तव्यं कदाचन ॥३२॥
वित्तव्ययो न कर्तव्यो मयि जीवति पुत्रक ॥
वित्तहीना ह्यहं तात न जीवितुमिहोत्सहे ॥३३॥
पुत्र उवाच ॥
तत्र भागीरथी गङ्गा नाना सन्तः समागताः॥
स्वयं स भगवान्यत्र कृष्णस्तिष्ठति साग्रजः॥ ३४ ॥
युधिष्ठिरस्य यज्ञेऽन्ये ऋषयोऽपि समागताः ॥
उत्तिष्ठ जननि त्वं हि गोविन्दं पश्य साग्रजम् ॥ ३५॥
वृद्धोवाच ॥
मैवं वद सुदेव त्वं नागमिष्याम्यहं पुरम् ॥
न देवो न च धर्मोऽपि श्रुतपूर्वः कदाचन ॥३६॥
भर्त्रा नैव कृतो धर्मो मत्पित्रा तु कदाचन ॥
कस्योपदेशात्त्वं पुत्र प्रवृत्तोऽसि धनक्षये॥३७॥
सर्वं प्रतारणं मन्ये यज्ञदानादिकाः क्रियाः ॥
अर्थवादो मतो वेदो ब्राह्मणा लोकवंचकाः॥३८॥
प्राणव्ययेन यल्लब्धं धनं तत्को नु नाशयेत् ॥
अस्माकं च कुले धर्मो न कस्यापि सुखप्रदः ॥३९॥
वृद्धाऽहं सांप्रतं जाता कथं धर्मं समाचरे ॥
अकृतं न करिष्यामि तत्सत्यं वचो मम॥ 6.४० ॥
जैमिनिरुवाच ॥
एतच्छ्रुत्वा वचस्तस्याः सुदेवो नृपतिं ययौ ॥
प्रत्युवाच वचो रम्यं नृपहास्यकरं परम् ॥४१॥
सुदेव उवाच ॥
नायाति जननी देव मया सह महाक्रतुम् ॥
धर्मराजस्य तं द्रष्टुं न गृहं परिमुञ्चति ॥४२॥
राजा तस्य वचः श्रुत्वा समानीय जरद्गवाम् ॥
प्रोवाच वचनं रम्यं हितं तस्या यथा भवेत् ॥४३॥
राजोवाच ॥
सर्वे लोकास्तत्र यांति यत्र तौ धर्ममाधवौ ॥
मयैव सहिता याहि कुरु पुण्यं गजाह्वये ॥४४॥
तत्र तिष्ठति कृष्णोऽपि रुक्मिणी च वधूवृता ॥
अन्याश्च पावना नार्यस्तत्र मातः समागताः ॥४५॥
सतां दर्शनमात्रेण विलयं यांति देहिनाम् ॥
पातकानि समग्राणि नात्र कार्या विचारणा ॥४६॥
वृद्धोवाच ॥
नागमिष्यामि राजेन्द्र द्रव्यं मम गमिष्यति ॥
वधूगणश्च मे दुष्टो नाशयिष्यति मद्गृहम् ॥४७॥
गोधूमाः परिपक्वा मे क्षेत्रे तिष्ठंति सांप्रतम् ॥
नवनीतं च गोपा वै संक्षयिष्यन्ति मामकम् ॥४८॥
दासदासीगणो रौद्रो गमिष्यति यथागतम् ॥
मदाधारं गृहमिदं स्थितं राजन्न संशयः ॥४९॥
मम कृष्णेन किं कार्यं न मे धर्मेण सांप्रतम् ॥
यथा स्वकर्मणि व्यग्राः कृष्णधर्मादयः स्थिताः ॥6.५०॥
तथा स्वगृहकार्येषु सावधानाऽस्मि भूमिप ॥
भवान् राज्यं परित्यज्य वृथा गच्छति तत्पुरम् ॥ ५१ ॥
बालोऽसि द्रव्यहानिस्ते भविष्यति न संशयः ॥
गताः प्राणा वरं मन्ये न धनं भूपते क्वचित् ॥
सर्वलोकस्य संक्लेशो भविष्यति नराधिप ॥५२॥
जैमिनिरुवाच ॥
एवं ब्रुवाणां नृपतिर्गृहीत्वा तां जरद्गवाम् ॥
बद्धा तत्र रुदंतीं च दोलामारोप्य तां ययो ॥५३॥
प्रहसन्विस्मयन्नेव तृष्णां गर्हन् पुनः पुनः॥
भीमाय कथयामास चरितं चित्तविभ्रमम् ॥ ५४ ॥
तस्या जरद्गवायास्तु ततो नागपुरे ययौ ॥
आशा बलवती भीम काचिदाश्चर्यशृङ्खला ॥५५॥
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पंगुवत् ॥
जीर्यंति जीर्यतः केशा दन्ता जीर्यंति जीर्यतः ॥५६॥
चक्षुःश्रोत्रे च जीर्यंते तृष्णैका न तु जीर्यते ॥
तृष्णायाः परमं दुःखं तत्त्यागात्परमं सुखम् ॥ ५७॥
एतावदुक्त्वा वचनं स भीमं परितोषयन् ॥
न्यवसत्पंचरात्रं च पश्चाद्वीरो विनिर्ययौ ॥५८॥
बलेन महता युक्तो धर्मराजपुरं प्रति ॥
योजनानां स्थितो भूमिर्यत्राविंशतिरेव सः ॥५९॥
पप्रच्छ भीमो राजानमहं यास्येऽग्रतो नृपम् ॥
त्वां निवेदयितुं देवं संप्राप्तं बलसंयुतम् ॥ 6.६० ॥
कर्णजस्तव शुश्रूषां करिष्यति गते मयि ॥
एवं निरूप्य तरसा स जगाम युधिष्ठिरम् ॥६१ ॥
ततो ददर्श राजानं भ्रातृभिः परिवारितम् ॥
नमस्कृत्य महाबुद्धिर्धर्मराजं वृकोदरः॥
समालिंग्य जनान्सर्वानिदं वचनमब्रवीत् ॥६२ ॥
भीम उवाच ॥
तव प्रसादान्नृपते वयं कुशलिनः सदा॥
समायातः स तुरगो यौवनाश्वेन संयुतः ॥ ६३॥
कर्णपुत्रेण संग्रामे राजा स परितोषितः ॥
बलेन महता राजा सदारः ससुहृद्वृतः॥ ६४ ॥
प्रभावती तस्य भार्या द्रौपदीं द्रष्टुमागता ॥
महत्या सा श्रियायुक्ता स्त्रीसहस्रैर्विलासिनी ॥६५॥ विष्णुभक्तिर्यथाराजञ्छांतिक्षांतियुता नृप ॥६६॥
इत्याश्वमेधिकपर्वणि जैमिनीये भीमागमोनाम षष्ठोऽध्यायः॥६॥