प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०६ जैमिनीयाश्वमेधपर्व।
अध्यायः ७
[[लेखकः :|]]
अध्यायः ०८ →

॥ जैमिनिरुवाच ॥
समागतं नृपं श्रुत्वा धर्मो वचनमब्रवीत् ॥
भीमसेनं प्रति तदा हर्षेण महता युतः॥१॥
युधिष्ठिर उवाच ॥
गच्छ त्वं द्रौपदीपार्श्वे कथयैतद्वृकोदर ॥
यथा करोति वै भूषां प्रभावत्याश्च दर्शने ॥२॥
जैमिनिरुवाच ॥
जगाम भीमसेनोऽथ यत्र सा पार्षतात्मजा ॥
विलोक्य भीमं संप्राप्तं पार्षती हर्षपूरिता ॥३॥
तस्थौ भीमं शशिमुखी स्वागतं चेतिवादिनी ॥
ददर्श गात्रसंभिन्नं नानाशस्त्रैश्च मुष्टिभिः ॥ ४॥
ददौ निजासनं देवी पप्रच्छ कुशलं पुनः ।।
वृषकेतुं मेघवर्णं तदा कुशलिनं सती ॥५॥
भीम उवाच ॥
राजा समागतो देवि सभार्यः ससुतः स्वयम् ॥
यौवनाश्वो मुदायुक्तः समृद्धबलवाहनः ॥ ६॥
तस्य भार्या विशालाक्षी स्त्रीसहस्रैः समन्विता ॥
वीक्षितुं त्वां च मानार्हामिह चायाति सुंदरी ॥७॥
तस्माद्भूषां कुरु शुभे स्वनारीगणसंयुता ॥
सहितास्तत्र वै यांतु सर्वे देवि नृपं प्रति ॥८॥
कृष्णो देवि कुतो यातस्तं विना तव मण्डनम् ॥
न पश्यामि तथारूपं संभवेन्मम विस्मयः ॥९॥
यदि द्वारवतीं कृष्णः परित्यज्य नृपं गतः ॥
भवित्री तव का शोभा प्रभावत्या सहाधुना ॥
वित्तेन महता चासौ पूरिता नृपतेः प्रिया ॥7.१०॥
द्रौपद्युवाच ॥
अंतर्गृहे निवसति गोविन्दः किल पांडव ॥
सर्वं सुमंडनं मह्यं निगच्छामो वृकोदर ॥ ११॥
जैमिनिरुवाच ॥
ततः कृष्णः समागत्य सहधर्मात्मजेन वै ॥
यौवनाश्वं भावयितुं सपुत्रं प्रययौ मुदा ॥ १२॥
चंपका यत्र बहुलाः पुष्पितास्तत्र संस्थिताः॥
यौवनाश्वोऽपि तुरगं पुरस्कृत्य तु कर्णजम् ॥ १३॥
संमुखं स्थित एवासौ वीक्षमाणो नृपागमम् ॥
नानावाद्यनिनादेन कंपयन्वसुधातलम् ॥१४॥
एतस्मिन्नेव काले तु धर्मपुत्रः समागतः ॥
ददर्श नृपतिं पार्श्वे सर्वसैन्यसमन्वितम् ॥ १५ ॥
उत्तीर्य वाहनात्तस्मादालिंग्य वसुधाधिपम् ॥
नमस्कृतः स तेनापि यौवनाश्वेन धीमता ॥१६॥
तमुवाच स धर्मात्मा यथा भीमादयो मम ॥
तथा त्वमसि राजेन्द्र नात्र कार्या विचारणा ॥१७॥
पश्य कृष्णं महाबुद्धे सहायं मम भूपते ॥
प्रभावती द्रौपदीं च कुंतीं पश्यतु सत्वरा ॥ १८॥
जैमिनिरुवाच ॥
यौवनाश्वोऽच्युतं कृष्णमनंतं प्रणतोऽब्रवीत् ॥
प्रदृष्टवदनो भूत्वा धर्मपुत्रस्य शृण्वतः ॥१९॥
यौवनाश्व उवाच ॥
धन्योऽस्मि देवतुरगो धन्योऽयं यस्य कारणे ॥
भीमादयस्त्रयो वीराः सम्प्राप्ता मत्पुरं प्रति ॥7.२०॥
वृषकेतुरयं धन्यो ममात्मा येन रक्षितः ॥
कृपाविष्टेन मनसा युद्धभूमिगतेन च ॥२१॥
क्व पार्थस्ते सखा कृष्ण वैष्णवानां सदाग्रणीः॥
येन त्वं दर्शितो लोके सर्वपापप्रणाशनः ॥ २२ ॥
जितवान्वै कुरुक्षेत्रे यस्त्वयासहितो रणे ॥
जैमिनिरुवाच ॥
प्रभावती च तां कुन्तीं पार्षतीं चैव सात्वतीम् ॥ २३॥
समालिंग्य नमस्कृत्य तस्थौ हर्षपरायणा ॥
तथा ब्रुवंतं नृपतिन्नमस्कृत्यार्जुनोऽब्रवीत् ॥ २४ ॥
अर्जुन उवाच ॥
यथा युधिष्ठिरोऽस्माकं तथा त्वं हि नराधिप ॥
वृद्धो मान्यश्च सततं दृष्टो दैवात्समागतः ॥२५॥
सुवेगोऽपि हि तान्सर्वान्नमस्कृत्य जनार्दनम् ॥
प्रोवाच वचनं तत्र धर्मराजं महामतिम् ॥२६॥
किं वर्णयामि राजेन्द्र वृषकेतो महात्मनः ॥
महिमा न मती वास्य यत्कृष्णो दर्शितोऽमुना ॥ २७ ॥
विना कृष्णं हि यद्राज्यं शरीरं च तथा धनम् ॥
धार्यते मानवैर्भूप तत्सर्वं प्रेतभूसमम् ॥२८॥
अतः परं हृषीकेश न मोक्ष्ये ते पदांबुजम् ॥
विसर्जयाशु तुरगं यज्ञार्थं वै नृपस्य हि ॥ २९ ॥
जैमिनिरुवाच ॥
ततो हरिस्तुष्टमनास्तद्वाक्येन च भारत ॥
सहैव संस्थितं वीरमालिंग्य रविपौत्रकम्॥7.३०॥
प्रविवेश पुरीं कृष्णो धर्मपुत्रेण संयुतः ॥
उषित्वा मासमेकं तु प्रत्युवाच युधिष्ठिरम् ॥ ३१ ॥
श्रीकृष्ण उवाच ॥
चैत्रीगता महाराज पौर्णमासीह पृष्ठतः ॥
यज्ञस्यावसरो दूरे मासि चैकादशे नृप ॥३२॥
तस्माद्गच्छामि नगरीं द्वारकां यादवाश्रयाम् ॥
नान्योऽस्ति रक्षकस्तस्यां मां विना पांडुनंदन ॥३३॥
अतोऽहं त्वरितो यामि पृच्छे त्वां गन्तुमुत्सुकः॥
गते मयि भविष्यन्ति यादवा हर्षनिर्भराः ॥ ३४ ॥
तावत्त्वं यौवनाश्वेन सह पालय वाजिनम् ॥
तव यज्ञे वयं सर्वे ह्यश्वमेधे निमन्त्रिताः ॥
आगमिष्यामहे नूनं तथा कार्यं विधीयताम् ॥३५॥
जैमिनिरुवाच ॥
तच्छ्रुत्वा वासुदेवस्य वचनं धर्मनन्दनः॥
अनुज्ञां दत्तवांस्तस्मै ज्ञात्वा कृष्णस्य मानसम्॥ ३६॥
केशवे तु गते राजा व्यासेन हि समन्वितः ॥
तुरगं पालयामास यौवनाश्वेन चानुजैः ॥ ३७॥
सभां च कारयामास मण्डपं समकारयत् ॥
द्वैपायनं ततोऽपृच्छन्मरुत्तस्य विचेष्टितम् ॥ ३८॥
व्यासश्च कथयामास मरुत्तस्य महाध्वरम् ॥
मरुत्तेन वृतः पूर्वं यज्ञार्थे जीव एव हि ॥ ३९॥
इन्द्रस्तं वारयामास न याज्यो जीवमानवः॥
ततो नृपोऽपि संवर्त्तं नारदादशृणोन्मुनिम् ॥7.४०॥
प्रार्थयित्वा क्रतुं चक्रे संवर्त्ताच्छक्रपावकौ ॥
स्तंभयित्वा वरं प्राप्य क्रतुं कृत्वा च शोभनम् ॥
यथागतं गतो राजा पूतः स्नात्वा दिवं ययौ ॥४१॥
जैमिनिरुवाच ॥
युधिष्ठिरोऽपि पप्रच्छ व्यासं धर्मान्पुनः पुनः ॥
यथामति श्रुतान्सर्वान्कथयामास पावनान् ॥४२॥
इत्याश्वमेधिकेपर्वणि जैमिनीये मरुत्तयज्ञकथनंनाम सप्तमोऽध्यायः ॥७॥