जैमिनीयाश्वमेधपर्व/अध्यायः ०८
← अध्यायः ०७ | जैमिनीयाश्वमेधपर्व। अध्यायः ८ [[लेखकः :|]] |
अध्यायः ०९ → |
जैमिनिरुवाच ॥
श्रुत्वा व्यासमुखाद्धर्मान्धर्मराजो युधिष्ठिरः॥
पप्रच्छ चापरान् धर्मान्सर्वलोकहितावहान् ॥ १ ॥
भगवन्किं नरैः कार्यं संसारभयभीरुभिः॥
कथमत्र भवेत्कीर्तिः परत्र च कथं सुखम् ॥२॥
वासुदेवः कथं तुष्येत्तत्तद्ब्रूहि यथातथम् ॥
व्यास उवाच ॥
ब्राह्मणो धर्मशास्त्राणि सम्यग्ज्ञात्वा न कुत्सितम् ॥ ३॥
प्रकरोति शुभं कर्म चेह कीर्तिसुखं परे ॥
परापवादाद्भीतश्च परद्रव्यं परस्त्रियम् ॥ ४॥
न कामयेन्न गृह्णाति न शृणोति हि तद्वचः ॥
क्षत्रियः सर्वधर्मज्ञो दाता युद्धपरायणः ॥९॥
आत्मवित्संगरे प्राणान्संमुखस्त्यजते यदि ॥
संप्राप्नोत्यमलां कीर्तिमिह लोके परत्र च ॥६॥
वैश्यो धनसमृद्धस्तु सत्यवादी प्रियातिथिः॥
शुश्रूषणं गवां कुर्यात्तत्परः प्राणिनां हितम् ॥ ७॥
प्राप्नोति विमलां कीर्तिं गतिं कृष्णनिषेवणात् ॥
शूद्रस्तु सेवते विप्राञ्छ्रद्धयानावमन्यते ॥८॥
यशः परमवाप्नोति ध्यात्वा नारायणं विभुम् ॥
विधवा या भवेन्नारी कामासक्ता सुभोगिनी ॥ ९॥
गुरुवादकरी दुष्टा हृष्टा परनरं प्रति॥
धनयुक्ता रागपरा सर्पिणीव सपक्षिणी ॥ 8.१० ॥
आत्मानं पातयेदाशु पत्या सह महीपते ॥
तां यः कामयते मंदो दुष्टात्मा स नराधमः॥ ११॥
सोऽपि वै नारकीं योनिं प्राप्नोतीह न संशयः ॥
सा रंडा दुर्गतिं याति शरीरस्य च विक्रयात् ॥ १२ ॥
शुद्धस्नानं च तांबूलं चंदनं चासनानि च ॥
इच्छाभोज्यं तथा पेयं पतेरिच्छाविहारिणी ॥ १३ ॥
नित्यं धर्मपरा या तु गृहकार्यकरी तथा ॥
श्वश्रू श्वशुरयोश्चैव पादवन्दनतत्परा ॥१४॥
ज्येष्ठदेवरयोश्चापि ह्यनुवृत्तिपरायणा ॥
प्राप्नोति सद्गतिं कीर्तिमिहलोके परत्र च ॥ १५॥
प्राक्कर्मयोगजं चिह्नं बिभ्रती लक्षणं त्विदम् ॥
कृष्णवर्णां तालजिह्वां स्वांगुल्या स्पृशते भुवम् ॥ १६॥
एतैश्च लक्षणैर्युक्ता भर्तृसम्बन्धघातिनी ॥
स्वकर्मवशतस्ते तु तस्या वै संगतिं गताः ॥ १७॥
तया स्थेयं पितुर्गेहे न परेषां गृहं व्रजेत् ॥
जटिला पंकबहुला भोजने लुब्धमानसा ॥ १८॥
अनाचारवती या तु सा सुखं नैव विंदति ॥
बालत्वे रक्षति पिता यौवनत्वे निजः पतिः ॥ १९॥
वार्धके रक्षते पुत्रो न स्वतंत्रा हि योषितः॥
स्वतंत्रता योषितां हि न शुभायोपकल्पते ॥8.२०॥
कृच्छ्रातिकृच्छ्रपाराकैः परं शोषयते तनुम् ॥
विधवा सा सुखं जीवेत्परलोके च मोदते ॥२१॥
न व्रजेत्तीर्थयात्रां हि न कदाचिच्छुभव्रतम् ॥
करोति विधवा नारी सा गच्छेन्नरकं ध्रुवम् ॥२२॥
कर्तव्यं तु तया राजन् शरीरपरिशोषणम् ॥
उपवासादिभिर्नित्यं शमः कार्यों न संशयः ॥२३॥
शीलभंगे तु नारीणां दोषास्तु बहवो नृप ॥
स्त्रीणां नैव तु विश्वासः कर्तव्यस्तु कदाचन ॥ २४ ॥
अन्याश्रितान्यचित्तानां विश्वासो न सुखप्रदः॥
बहुधा हसते या तु बालं च परिचुंबती ॥२५॥
दृष्ट्वा पुमांसं त्वरिता प्रस्खलंत्यनुधावति ॥
गायंती सुस्वरं हृष्टा कर्णं कंडूयते कटिम् ॥२६॥
अचैलं मस्तकं स्वं तु हासं च कुरुते वृथा ॥
ईदृशी या भवेन्नारी विज्ञेया बंधकी नरैः ॥ २७॥
वृथा परगृहं याति वृथा पश्यति तं जनम् ॥
दूतिकां जननीं वेत्ति तत्संगेऽतीवलालसा ॥ २८॥
मालाकारी नापिती च नटी प्रवाजिका तथा ॥
फणिव्रततिपत्राणि विक्रीणाति तु या भुवि ॥ २९ ॥
सैरंध्री चापि दासी च तथा पतिविवर्जिता ॥
सूतिका धवहीना च तथा कापालिनी तु या ॥
ईदृशीनां संगमेन यस्यास्तुष्यति मानसम् ॥8.३० ॥
स्वैरिणीनां तु सा राज्ञी विज्ञेया धर्मनंदन ॥
तस्माद्रक्षेत्स्त्रियं पार्थ दुष्टसंगाद्विशेषतः ॥३१ ॥
असूयकोऽथ पिशुनो नास्तिको धूर्तको नरः ॥
समीपे संस्थितो राज्ञां प्रजानां दुर्लभं सुखम् ॥ ३२ ॥
प्रजाः पालय भद्रं ते तासु नष्टासु नश्यति ॥
नाचरंति तु ये धर्मान्नृपते ब्राह्मणादयः॥ ३३ ॥
न चिन्तयन्ति देवेशं देवकीनंदनं हरिम् ॥
नास्तिकास्ते नरा ज्ञेयाः सर्वधर्मबहिष्कृताः ॥३४॥
एतैः सहासनं स्पर्शं मनसापीह नाचरेत् ॥
आराधयन्ति देवेशं प्राणिनां मुक्तिदं हरिम् ॥
देवतुल्याश्च ते ज्ञेयाश्चाण्डालोऽपि हरेः प्रियः ॥३५॥
इत्याश्वमेधिकेपर्वणि जैमिनीये व्यासवाक्यं नामाष्टमोऽध्यायः ॥ ८॥