प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← प्रथमैकरात्रे, अध्यायः ५ नारदपञ्चरात्रम्‌
अध्यायः ६
[[लेखकः :|]]
प्रथमैकरात्रे, अध्यायः ७ →

प्रथमैकरात्रे षष्ठोऽध्यायः
श्रीशुक उवाच
सनत्कुमारो वैकुण्ठं ब्रह्मलोकं च ब्रह्मणि ?wहत्? ।
गते ब्रह्मन्किं चकार भगवान्नारदो मुनिः ।। ६.१ ।।

व्यासो उवाच
मुनिस्तयोश्च गतयोः स रुरोद सरित्तटे ।
इतस्ततश्च बभ्राम मद्वियोगशुचास्पद ।। ६.२ ।।

स्वमानसे समालोक्य मुनिश्रेष्ठः स उन्मनाः ।
ध्यायमानो हरिपदं शिवं द्रष्टुं समुत्सुकः ।। ६.३ ।।

प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा ।
जगाम तपसस्थानात्कैलासाभिमुखे मुनिः ।। ६.४ ।।

स्नात्वा च कृतमालायां संपूज्य परमेश्वरं ।
भुक्त्वा फलं जलं पीत्वा प्रययौ गन्धमादनं ।। ६.५ ।।

ददर्श ब्राह्मणं तत्र वटमूले मनोहरे ।
कटमस्तं ध्यायमानं श्रीकृष्णचरणाम्बुजं ।। ६.६ ।।

दीर्गं नग्नं गौराङ्गं दीर्घलोमभिरावृतं ।
निमीलिताक्षं सानन्दं सानन्दाश्रुसमन्वितं ।। ६.७ ।।

पाद्मे पद्मेशशेषादिसुरपूजितवन्दिते ।
श्रीपादपद्मे शोभाढ्ये शश्वत्संन्यस्तमानसं ।। ६.८ ।।

बाह्यज्ञानपरित्यक्तं योगज्ञानविशारदं ।
शिवस्य शिष्यं सद्भक्तं योगीन्द्राणां गुरोर्गुरोः ।। ६.९ ।।

हृत्पद्मे पद्मनाभं च परमात्मानं ईश्वरं ।
प्रदीपकलिकाकारं ब्रह्मज्योतिःसनातनं ।। ६.१० ।।

साक्षिस्वरूपं परमं भगवन्तं अधोक्षजं ।
पश्यन्तं सस्मितं कृष्णं पुलकाङ्कितविग्रहं ।। ६.११ ।।

सद्भावोद्रिक्तचित्तं च सद्भावं पुरुषोत्तमे ।
दृष्ट्वा महर्षिप्रवरं देवर्षिविस्मयं ययौ ।। ६.१२ ।।

इतस्ततश्च बभ्राम ददर्श स्वाश्रमं मुनेः ।
अतीव सुरहःस्थानं रम्यं रम्यं नवं नवं ।। ६.१३ ।।

सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरं ।
श्वेतरक्तोत्पलदलैः कमलैः कमनीयकं ।। ६.१४ ।।

गुञ्जदिन्दिन्दवरैर्?wहत्? मकरन्दोदरैस्तथा ।
व्याकुलैः संकुलैः शश्वद्राजितैश्च विराजितं ।। ६.१५ ।।

वन्यैर्वृक्षैर्बहुविधैः फलशाखासुशोभितैः ।
करञ्जकैश्च करजैर्बिम्बैः शाखोटिकैस्तथा ।। ६.१६ ।।

तिन्तिडीभिः कपित्थैश्च वटशिंशपाचन्दनैः ।
मन्दारैः सिन्धुवारैश्च ताडिपत्रैः सुशोभनैः ।। ६.१७ ।।

गुवाकैर्नारिकेतैश्च खर्जुरैः पनसैस्तथा ।
तालैः शालैः पियालैश्च हिन्तालैर्वकुलैरपि ।। ६.१८ ।।

आम्रैराम्रातकैश्चैव जम्बीरैर्दाडिमैस्तथा ।
श्रीफलैर्वदरीभिश्च जम्बुभिर्नागरङ्गकैः ।। ६.१९ ।।

सुपक्वफलशोभाड्यैः सुस्निग्धैः सुमनोहरैः ।
तरुणैस्तरुराजैस्च नानाजातिभिरीप्सितं ।। ६.२० ।।

मल्लिकामालतीकुन्दकेतकीकुसुमैः शुभैः ।
माधवीनां लताजालैश्चर्चितं चारुचम्पकैः ।। ६.२१ ।।

कदम्बानां कदम्बैश्च स्वच्छैः श्वेतैश्च पुष्पितैः ।
नागेश्वराणां वृन्दैश्च दीप्तं मन्दारकैर्वरैः ।। ६.२२ ।।

हंसकारण्डवकुलैः पुंस्कोकिलकुलैस्तथा ।
सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरं ।। ६.२३ ।।

शार्दूलैः शरभैः सिंहैर्गण्डकैर्महिषैः परं ।
मनोहरैः कृष्णसारैश्चमरभिर्भावभूषितं ।। ६.२४ ।।

महामुनिप्रभावेन हिंसादोषविवर्जितं ।
दस्युचौरहिंस्रजन्तुभयशोकविवर्जितं ।। ६.२५ ।।

सुपुण्यदं तीर्थवरं भारते सुप्रशंसितं ।
सिद्धस्थलं सिद्धिदं तं मन्त्रसिद्धिकरं परं ।। ६.२६ ।।

दृष्ट्वाश्रमं मुनिश्रेष्ठो जगाम मुनिसंसदि ।
आसने च समासीनं ध्यानहीनं ददर्श तं ।। ६.२७ ।।

समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षिपुङ्गवं ।
दत्वामलं फलं मूलं संभाषां स चकार ह ।। ६.२८ ।।

प्रश्नं चकार स मुनिवीणापाणिं नारदं ।
सस्मितः सस्मितं शुद्धं शुद्धवंशसमुद्भवं ।। ६.२९ ।।

सद्भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्मतेजसा ।
अतिथिं ब्राह्मणवरं ब्रह्मपुत्रं च पूजितं ।। ६.३० ।।

मुनिरुवाच
किं नाम भवतो विप्र क्व यासीति क्व चागतः ।
क्व ते पिता स को वापि क्व वासः कुत्र संभवः ।। ६.३१ ।।

मां वा ममाश्रमं वापि पूतं कर्तुं इहागतः ।
मूर्तिमद्ब्रह्मतेजो हि मम भाग्यादुपस्थितः ।। ६.३२ ।।

अथ वैष्णवदर्शनफलम्
न ह्यम्मयानि तीर्थानि न देवा मृच्छितामयाः ।
ते पुनन्त्युरुकालेन वैष्णवो दर्शनेन च ।। ६.३३ ।।

सद्यः पूतानि तीर्थानि सद्यः पूता ससागरा ।
सशैलकाननद्वीपा पादस्पर्शाद्वसुन्धरा ।। ६.३४ ।।

धन्योऽहं कृतकृत्योऽहं सफलं मम जीवनं ।
सहसोपस्थितो गेहे ब्राह्मणो वैष्णवोऽतिथिः ।। ६.३५ ।।

पूजितो वैष्णवो येन विश्वं च तेन पूजितं ।
आश्रमं वस्तुसहितं सर्वं तुभ्यं निवेदितं ।। ६.३६ ।।

फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतं ।
सुवासितं पिब स्वादु शीतलं निर्मलं जलं ।। ६.३७ ।।

दुग्धं च सुरभीदत्तं रम्यं मधुरितं मधु ।
परिपक्वं फलरसं पिब स्वादु मुहुर्मुहुः ।। ६.३८ ।।

सुखबीज्ये सुतल्पे च शयनं कुरु सुन्दरे ।
सुशीतवातसौगन्ध्यपूतेन सुरभीकृते ।। ६.३९ ।।

अथातिथिपूजनफलम्
अतिथिर्यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयं ।
हरौ तुष्टे गुरुस्तुष्टो गुरौ तुष्टे जगत्त्रयं ।। ६.४० ।।

अधिष्ठातातिथिर्गेहे सन्ततं सर्वदेवताः ।
तीर्थान्येतानि सर्वाणि पुण्यानि च व्रतानि च ।। ६.४१ ।।

तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च ।
अपूजितैरतिथिभिर्सार्धं सर्वे प्रयान्ति ते ।। ६.४२ ।।

अथातिथिविमुखे दोषाः
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य देवाश्च पुण्यं धर्मव्रताशनाः ।। ६.४३ ।।

यमः प्रतिष्ठा लक्ष्मीश्चाभीष्टदेवो गुरुस्तथा ।
निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषं ।। ६.४४ ।।

स्त्रीघ्नैश्चैव कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।
विश्वासघातिभिर्दुष्टैर्मित्रद्रोहिभिरेव च ।। ६.४५ ।।

सत्यघ्नैश्च कृतघ्नैश्च पापिभिः स्थापिभिस्तथा ।
दानापहारिभिश्चैव कन्याविक्रियिभिस्तथा ।। ६.४६ ।।

सीमापहारिभिश्चैव मिथ्यासाक्षिप्रदातृभिः ।
ब्रह्मस्वहारिभिश्चैव तथा स्थाप्यस्वहारिभिः ।। ६.४७ ।।

वृषवाहैर्देवलैश्च तथैव ग्रामयाजिभिः ।
शूद्रान्नभोजिभिश्चैव शूद्रश्राद्धाहभोजिभिः ।। ६.४८ ।।

श्रीकृष्णविमुखैर्विप्रैर्हिंस्रैर्नरविघातिभिः ।
गुरावभक्तै रोगार्तैः शश्वन्मिथ्याप्रवादिभिः ।। ६.४९ ।।

विप्रस्त्रीगामिभिः शूद्रैर्मातृगामिभिरेव च ।
अश्वत्थघातिभिश्चैव पत्नीभिः पतिघातिभिः ।। ६.५० ।।

पितृमातृघातिभिश्च शरणागतघातिभिः ।
ब्राह्मणक्षत्रविट्शूद्रैः शिलास्वर्णापहारिभिः ।। ६.५१ ।।

तुल्यो भवति विप्रेन्द्रातिथिरेव त्वनर्चितः ।
इत्य एवं उक्त्वा मुनिः पूजयां आस नारदं ।
मिष्टं च भोजयां आस शाययां आस भक्तितः ।। ६.५२ ।।

श्रीनारद उवाच
नारदोऽहं मुनिश्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः ।
तपःस्थलादागतोऽहं यामि कैलासं ईप्सितं ।। ६.५३ ।।

आत्मानं पावनं कर्तुं त्वां च द्रष्टुं इहागतः ।
पुनन्ति प्राणिनः सर्वे विष्णुभक्तप्रदर्शनाथ् ।। ६.५४ ।।

को भवान्ध्यानपूतश्च नग्नश्च कटमस्तकः ।
किं ध्यायसे महाभाग श्रेष्ठदेवश्च को गुरुह् ।। ६.५५ ।।

मुनिरुवाच
जीवमुक्तो भवानेव पुनासि भुवनत्रयं ।
यस्य तत्र कुले जन्म तस्य तत्तद्वचोमनः ।। ६.५६ ।।

पुत्रे यशसि तोये च कवित्वेन च विद्यया ।
प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणां ।। ६.५७ ।।

विधाता जगतां ब्रह्मा ब्रह्मैकतानमानसः ।
तत्पुत्रोऽसि महाख्यातो देवर्षिप्रवरो महान् ।। ६.५८ ।।

लोमशोऽ हं महाभाग जगत्पावनपावन ।
नग्नोऽल्पायुर्विवेकी च वाससा किं प्रयोजनं ।। ६.५९ ।।

वृक्षमूले निवासे मे छत्रेण किं गृहेण च ।
रौद्रवृष्टिवारणार्थं सांप्रतं कटमस्तकः ।। ६.६० ।।

जलबुद्बुदविद्युद्वत्त्रैलोक्यं कृत्रिमं द्विज ।
ब्रह्मादितृणपर्यन्तं सर्वं मिथ्याइव स्वप्नवथ् ।। ६.६१ ।।

किं कलत्रेण पुत्रेण धनेन संपदा श्रिया ।
किं वित्तेन च रूपेण जीवनाल्पायुषा मुने ।। ६.६२ ।।

इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम ।
मनोश्च पतनं तत्र मायया किं प्रयोजनं ।। ६.६३ ।।

सर्वलोमकोत्पाटनेन केशौघोत्पाटनेन च ।
अल्पायुषो मम मुने मरणं निश्चितं भवेथ् ।। ६.६४ ।।

ध्याये श्रीपादपद्मं तत्पाद्मपद्मेशवन्दितं ।
परस्य प्रकृतेस्तस्य कृष्णस्य परमात्मनः ।। ६.६५ ।।

तस्य मेऽभीष्टदेवस्य सर्वेषां कारणस्य च ।
गुरुर्मे जगतां नाथो योगीन्द्राणां गुरुः शिवः ।। ६.६६ ।।

मत्कण्ठे कवचं यस्य मद्गुरुः कथयिष्यति ।
गुरोर्निषेधो यत्रास्ते तद्वक्तुं कः क्षमो भुवि ।। ६.६७ ।।

गुरोश्च वचनं यो हि पालनं न करोति च ।
गुरूक्तं उक्त्वा पापी स ब्रह्महत्यां लभेद्ध्रुवं ।। ६.६८ ।।

स्वगुरुं शिवरूपं च तद्भिन्नं मन्यते हि यः ।
ब्रह्महत्यां लभेत्सोऽपि विघ्नस्तस्य पदे पदे ।। ६.६९ ।।

अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर्वचः ।
अपालने सर्वविघ्नं लभते नात्र संशयः ।। ६.७० ।।

आशिषा पादरजसा चोच्छिष्टालिङ्गेन च ।
मुच्यते सर्वपापेभ्यो जीवन्मुक्तो भवेन्नरः ।। ६.७१ ।।

स्वगुरुं शङ्करं पश्य गच्छ कैलासं ईप्सितं ।
मुच्यते विघ्नपापेभ्यो गुरोश्चरणदर्शनाथ् ।। ६.७२ ।।

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथ्मैकरात्रे
लोमशनारदसंवादे षष्ठोऽध्यायः