नारदपञ्चरात्रम्/प्रथमैकरात्रे/अध्यायः ७
← प्रथमैकरात्रे, अध्यायः ६ | नारदपञ्चरात्रम् अध्यायः ७ [[लेखकः :|]] |
प्रथमैकरात्रे, अध्यायः ८ → |
प्रथमैकरात्रे सप्तमोऽध्यायः
संभाष्य लोमशं तस्माज्जगाम नारदो मुनिः ।
पुष्पभद्रानदीतीरं अतीव सुमनोहरं ।। ७.१ ।।
यत्रास्ते शृङ्गकूटश्च शुद्धस्फटिकसन्निभिः ।
नानावृक्षसमायुक्तैस्त्रिभिरन्यैः सरोवरैः ।। ७.२ ।।
हंसकारण्डवाकीर्णैर्भ्रमरैर्ध्वनिसुन्दरैः ।
पुंस्कोकिलनिनादैश्च सन्ततं सुमनोहरैः ।। ७.३ ।।
शैत्यसौगन्ध्यमान्ध्यैश्च वायुभिः सुरभीकृतैः ।
समाधियुक्तो यत्रास्ते मार्कण्डेयो महामुनिः ।। ७.४ ।।
स मुनिर्नारदं दृष्ट्वा भक्त्या च प्रणनाम च ।
पप्रच्छ कुशलं शान्तं शान्तः सत्त्वगुणाश्रयः ।। ७.५ ।।
मार्कण्डेयो उवाच
अद्य मे सफलं जन्म जीवनं चातिसार्थकं ।
ममाश्रमे पुण्यराशिर्ब्रह्मपुत्रश्च नारदः ।। ७.६ ।।
अहो देवर्षिप्रवरो दीप्तमान्ब्रह्मतेजसा ।
क्व यासि कुत आयासि किं ते मनसि वर्तते ।। ७.७ ।।
मानसं प्राणिनां एव सर्वकर्मैककारणं ।
मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः ।। ७.८ ।।
मुनेश्च वचनं श्रुत्वा वीणापाणि स्वं ईप्सितं ।
उवाच सस्मितं शान्तं वचः सत्यं सुधोपमं ।। ७.९ ।।
नारद उवाच
हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरं ।
द्रष्टुं महादेवं च प्रणामं कर्तुं ईश्वरं ।। ७.१० ।।
पूजां गृहीत्वा चेत्युक्त्वा प्रययौ नारदो मुनिः ।
मार्कण्डेयश्च शोकार्तः सद्विच्छेदः सुदारुणः ।। ७.११ ।।
हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया ।
स्वर्गमन्दाकिनीतीरं कैलासं प्रययौ मुनिः ।। ७.१२ ।।
ददर्श वटवृक्षं च योजनायतं उच्छ्रितं ।
शोभितं शतकैः स्कन्धैः रक्तपक्वफलान्वितैः ।। ७.१३ ।।
सुस्निग्धैः सुन्दरैः रम्यै रम्यपक्षीन्द्रसंकुलैः ।
सिद्धेन्द्रैश्च मुनीन्द्रैश्योगीन्द्रैः परिशोभितं ।। ७.१४ ।।
प्रणतांस्तांश्च संभाष्य पार्वतीकाननं ययौ ।
सुन्दरं वर्तुलाकारं चतुर्योजनं ईप्सितं ।। ७.१५ ।।
शोभितं सुन्दरै रम्यैः सप्तभिश्च सरोवरैः ।
शश्वन्मधुकरासक्तपद्मराजिविराजितैः ।। ७.१६ ।।
नीलरक्तोत्पलदलपटलैः परिशोभितैः ।
पुष्पोद्यानैश्च शतकैः पुष्पितैः सुमनोहरैः ।। ७.१७ ।।
मल्लिकामालतीकुन्दयूथिकामाधवीलता ।
केतकीचम्पकाशोकमन्दारकविराजिका ।। ७.१८ ।।
नागपुन्नागकुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका ।
विष्णुक्रान्ता च तुलसी शोफली सप्तला तथा ।। ७.१९ ।।
एतेषां च समूहैश्च पुष्पवल्लीविराजितैः ।
आम्रैराम्रातकैस्तालनारिकेलैः पियालकैः ।। ७.२० ।।
खर्जूरैश्च गुवाकैश्च पलासैर्जम्बुभिस्तथा ।
दाडिम्बैश्चापि जम्बीरैर्निम्बैश्चैव वटैस्तथा ।। ७.२१ ।।
करञ्जैर्वदरीभिश्च परितः श्रीफलोज्ज्वलैः ।
कदम्बानां कदम्बैश्च तिन्तिण्डीनां कदम्बकैः ।। ७.२२ ।।
अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः ।
वटशाखोटकैः कुन्दैः शंगुभिः सप्तपर्णकैः ।। ७.२३ ।।
पिच्छिलैः पर्णशालैश्च गम्भारिभिश्च वल्गुकैः ।
हिङ्गुलैरञ्जनैर्वल्कैर्भूर्जपत्रैः सपत्रकैः ।। ७.२४ ।।
अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विराजितं ।
कल्पवृक्षैः पारिजातैश्चारुचन्दनपल्लवैः ।। ७.२५ ।।
सुस्निग्धस्थलपद्मैश्च चित्रितैर्भूमिचम्पकैः ।
अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विभूषितं ।। ७.२६ ।।
सिंहेन्द्रैः शरभेन्द्रैश्च गजेन्द्रैर्गण्डकेन्द्रैः ।
शार्दूलेन्द्रैश्च महिषैरश्वैश्च वन्यशूकरैः ।। ७.२७ ।।
शल्लकैर्बल्लकैर्मर्कैः कूटैश्च शशकैः शकैः ।
कृष्णसारैश्च हरिणैश्चमरीचामरोज्ज्वलं ।। ७. ।२८ ।।
पुंस्कोकोलकुलानां च गानैश्च विराजितं ।
मत्तानां पल्लवस्थानां माधवेषु मनोहरं ।। ७.२९ ।।
शुकानां राजहंसानां मयूराणां च पुत्रकैः ।
क्षेमकरीखञ्जनानां राजिभिश्च मनोहरं ।। ७.३० ।।
हरित्पीतरक्तकृष्णसुपक्वफलपत्रकैः ।
सुस्निग्धाक्षतपत्रैश्च नूतनैरभिभूषितं ।। ७.३१ ।।
हिंसाभयादिरहितं सर्वेषां पशुपक्षिणां ।
परस्परं च सुप्रीतं हिंस्राणां क्षुद्रजन्तुभिः ।। ७.३२ ।।
तत्र क्रीडास्थलं रम्यं पार्वतीपरमेशयोः ।
मुनीन्द्रैरिन्द्रनीलैश्च पद्मरागैः परिष्कृतं ।। ७.३३ ।।
क्रोशायतं परिमितं वर्तुलं चन्द्रविम्बवथ् ।
अम्लानरम्भास्तम्भानां लक्षलक्षैश्च वेष्टितं ।। ७.३४ ।।
चित्रितं सूक्ष्मसूत्राक्तैर्नूतनैरभिभूषितं ।
नूतनाक्षतपत्रैश्च ललितैः परिशोभितं ।। ७.३५ ।।
रक्तपीतासितैः स्निग्धैरम्लानैः सुमनोहरैः ।
परितः परितः शश्वन्मालाजालैर्विभूषितं ।। ७.३६ ।।
शय्याभूतं सुतल्पैश्च स्निग्धचम्पकचन्दनैः ।
पुष्पचन्दनयुक्तेन वायुना सुरभीकृतं ।। ७.३७ ।।
कस्तूरीकुङ्कमासक्तसुगन्धिचन्दनैः सितैः ।
मार्जितं चित्रितं चित्रैः परितो रङ्गवस्तुभिः ।। ७.३८ ।।
दृष्ट्वा तदद्भुतं शीघ्रं प्रययौ स्वर्णदीं मुनिः ।
शुद्धस्फटिकसंकासां सर्वपापविनाशिनीं ।। ७.३९ ।।
भवाब्धिघोरतरणे तरणीं नित्यनूतनां ।
कृष्णपादप्रसूतां च जगत्पूज्यां पतिव्रतां ।। ७.४० ।।
स्नाट्वा कृष्णं च संपूज्य परमात्मानं ईश्वरं ।
प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परं ।। ७.४१ ।।
साक्षिणं कर्मणां एव ब्रह्म ज्योतिः सनातनं ।
प्रययौ पुरतो रम्यं राजमार्गं ददर्श सः ।। ७.४२ ।।
मणिभिः स्फटिकाकारैरमलैर्बहुमूल्यकैः ।
परिष्कृतं च सर्वत्र निर्मितं विश्वकर्मणा ।। ७.४३ ।।
सतां पुण्यवतां दृष्टं अदृष्टं कृतपापिनां ।
धनुः शतं परिमितं चित्रराजिविराजितं ।। ७.४४ ।।
दध्यं सर्वाश्रमान्तं च प्रख्यात्कोटिगुणोत्तरं ।
रथं ददर्श पुरतो मनोयायि मनोहरं ।। ७.४५ ।।
अमूल्यरत्ननिर्माणविमाणसारसुन्दरं ।
धनुर्लक्षं परिमितं परितो वर्तुलाकृतं ।। ७.४६ ।।
ऊर्ध्वस्थितं ऊर्ध्वगं च सहस्रचक्रसंयुतं ।
धनुर्लक्षोऽपि सूतं च वह्निशुद्धांशुकान्वितं ।। ७.४७ ।।
हीरासारविनिर्माणं सुचारुकलशोज्ज्वलं ।
रत्नप्रदीपदीप्ताढ्यं रत्नदर्पणभूषितं ।। ७.४८ ।।
मुक्ताशुक्तिनिबद्धैश्च शोभितं श्वेतचामरैः ।
माणिक्यसारहारेण मणिराजैर्विराजितं ।। ७.४९ ।।
पारिजाटप्रसूतानां मायाजालैः परिष्कृतं ।
ग्रीष्ममध्याह्नमार्तण्डं सहस्रसदृशोज्ज्वलं ।। ७.५० ।।
ईश्वरेच्छाविनिर्माणं कामपुरं च कामिनां ।
सर्वभोगसमाविष्टं कल्पवृक्षपरं वरं ।। ७.५१ ।।
ससक्तचित्रितै रम्यै रतिमन्दिरसुन्दरैः ।
गोलोकादागतं पूर्वं क्रीडार्थं शङ्करस्य च ।। ७.५२ ।।
विवाहे परिनिष्पन्ने पार्वतीपरमेशयोः ।
रथं दृष्ट्वा च प्रययौ कियद्दूरं महामुनिः ।। ७.५३ ।।
अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमं ।
रत्नेन्द्रसारनिर्माणं शिविरैः शतकोटिभिः ।। ७.५४ ।।
मितैस्तस्मात्शतगुणैस्तत्र सुन्दरमन्दिरैः ।
युक्तं रत्नकपाटैश्च रत्नधातुविचित्रितैः ।। ७.५५ ।।
परमस्तम्भसोपानैर्वज्रमिश्रैर्विभूषितं ।
ददर्श शिविरं शम्भोः परिखाभिस्त्रिभिर्युतं ।। ७.५६ ।।
दुर्लघ्याभिरामित्राणां सुगम्याभिः सतां अहो ।
प्रकारैश्च त्रिभिर्युक्तं धनुर्लक्षोच्छ्रितं सुत ।। ७.५७ ।।
सम्मितं सप्तभिर्द्वारैर्नानारक्षकरक्षितैः ।
धनुःशतसहस्रं च चतुरस्रं च सम्मितं ।। ७.५८ ।।
अमूल्यरत्ननिर्माणं चतुःशालाशतैर्युतं ।
अतीव रम्यं पुरतो पुरद्वारं ददर्श सः ।। ७.५९ ।।
पुरतो रत्नभित्तौ च कृत्रिमं च सुशोभितं ।
पुण्यं वृन्दावनं रम्यं तन्मध्ये रासमण्डलं ।। ७.६० ।।
सर्वत्र राधाकृष्णं च प्रत्येकं रतिमन्दिरे ।
रम्यं कुञ्जकुटीराणां सहस्रं सुमनोहरं ।। ७.६१ ।।
सुगन्धि पुष्पशय्यानां सहस्रं चन्दनोक्षितं ।
द्वारपालं च तत्रैव मणिभद्रं भयंकरं ।। ७.६२ ।।
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परं ।
तं संभाष्य विलोक्यैवं द्वितीयद्वारं ईप्सितं ।। ७.६३ ।।
जगाम च मुनिश्रेष्ठो ददर्श चित्रं उत्तमं ।
कदम्बानां समूहं च तन्मूलं च मनोहरं ।। ७.६४ ।।
रत्नभित्तिसमायुक्तं कालिन्दीकूलं उत्तमं ।
स्नातं गोपीसमूहं च नग्नसर्वाङ्गं अद्भुतं ।। ७.६५ ।।
कदम्बाग्रे च श्रीकृष्णं वस्त्रपुञ्जकरं परं ।
तत्रैव शूलहस्तं च महाकालं ददर्श च ।। ७.६६ ।।
कृपालुं द्वारपालं तं संभाष्य नारदो मुनिः ।
प्रययौ शीघ्रगामी स तृतीयद्वारं उत्तमं ।। ७.६७ ।।
ददर्श तत्र पुरतः कृत्रिमं वटमूलकं ।
गोपानां च समूहं च पीतम्बरधरं परं ।। ७.६८ ।।
बालक्रीडां च कुर्वन्तं तन्मध्ये कृष्णं उत्तमं ।
ब्राह्मणीभिः प्रदत्तं च भुक्तवन्तं सुपायसं ।। ७.६९ ।।
कुर्वन्तं च समाधानं मुनेः वामकरेण च ।
गृहीत्वा तदनुज्ञां च चतुर्थं द्वारं ईप्सितं ।। ७.७० ।।
प्रययौ ब्रह्मपुत्रश्च ददर्श चित्रं उत्तमं ।
गोवर्धनं पर्वतं च तत्र कृष्णकरस्थितं ।। ७.७१ ।।
गोकुलं गोकुलस्थानां गोपीनां चैव रक्षणं ।
व्याकुलं गोकुलं भीतं शक्रवृष्टिभयेन च ।। ७.७२ ।।
अभयं दत्तवन्तं च कृष्णं दक्षकरेण च ।
नन्दिनं द्वारपालं च शूलहस्तं च सस्मितं ।। ७.७३ ।।
विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअं उत्तमं ।
नानाकृतिमचित्राढ्यं वीरभद्रान्वितं परं ।। ७.७४ ।।
तत्रैव नीपमूलं च यमुनाकुलं एव च ।
कालीयदमनं तत्र कृतिमं च ददर्श ःअ ।। ७.७५ ।।
तद्दृष्ट्वा सस्मितस्तुष्टः षष्टद्वाऋअं जगाम सः ।
द्वारे नियुक्तं बालं च शूलहस्तं चतुर्भुजं ।। ७.७६ ।।
रत्नसिंहासनस्थं च सस्मितं स्वगणाधिपं ।
ददर्श चित्रं तत्रैव मथुरागमनं हरेः ।। ७.७७ ।।
गोपिकानां विलापं च यशोदानन्दयोस्तथा ।
व्याकुलं गोकुलं चापि रथस्थं शरणं हरिं ।। ७.७८ । ।।
अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलं ।
तद्दृष्ट्वा सप्तमद्वारं द्वारपालं ददर्श सः ।। ७.७९ ।।
चित्रं कौतुकयुक्तं च मथुरायाः प्रवेशनं ।
सबलं गोपसहितं श्रीकृष्णं प्रकृतेः परं ।। ७.८० ।।
मथुरानागरीभिश्च बालकैर्वानिरर्गलैः ।
वीक्षन्तं सादरं सर्वैर्नगरस्थैर्मनोहरं ।। ७.८१ ।।
धनुर्भङ्गं तथा शंभोः कंसादिनिधनादिकं ।
सभार्यं वसुदेवं च निगडान्मुक्तं ईप्सितं ।। ७.८२ ।।
द्वारे नियुक्तं देवेशं गणेशं गणसंयुतं ।
ध्यानस्थं च विभान्तं च शुद्धस्फटिकमालया ।। ७.८३ ।।
जपन्तं परमं शुद्धं ब्रह्मज्योतिः सनातनं ।
निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परं ।। ७.८४ ।।
दृष्ट्वा तं च सुरश्रेष्ठं मुनिश्रेष्ठोऽपि नारदः ।
सामवेदोक्तस्तोत्रेण पुष्टाव परमेश्वरं ।
साश्रुनेत्रः पुलकितो भक्तिनम्रात्मकंधरः ।। ७.८५ ।।
अथ गणपतिस्तोत्रम्
भो गणेश सुरश्रेष्ठ लम्बोदर परात्पर ।
हेरम्ब मङ्गलारम्भ गजवक्त्र त्रिलोचन ।। ७.८६ ।।
मुक्तिद शुभद श्रीद श्रीधरस्मरणे रत ।
परमानन्द परम पार्वतीनन्दन स्वयं ।। ७.८७ ।।
सर्वत्र पूज्य सर्वेश जगत्पूज्य महामते ।
जगद्गुरो जगन्नाथ जगदीश नमोऽस्तु ते ।।७.८८ ।।
यत्पूजा सर्वपरतो यः स्तुतः सर्वयोगिभिः ।
यः पूजितः सुरेन्द्रैश्च मुनीन्द्रैस्तं नमाम्यहं ।। ७.८९ ।।
परमाराधनेनैव कृष्णस्य परमात्मनः ।
पुण्यकेन व्रतेनैव यं प्राप पार्वती सती ।। ७.९० ।।
तं नमामि सुरश्रेष्ठं सर्वश्रेष्ठं गरिष्ठकं ।
ज्ञानिश्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरं ।। ७.९१ ।।
इत्येवं उक्त्वा देवर्षिस्तत्रैवान्तर्दधे विभुः ।
नारदः प्रययौ शीघ्रं ईश्वराभ्यन्तरं मुदा ।। ७.९२ ।।
इदं लम्बोदरस्तोत्रं नारदेन कृतं पुरा ।
पूजाकाले पठेन्नित्यं जयस्तस्य पदे पदे ।। ७.९३ ।।
संकल्पितं पठेद्यो हि वर्षं एकं सुसंयतः ।
विशिष्टपुत्रं लभते परं कृष्णपरायणं ।। ७.९४ ।।
यशस्विनं च विद्वांसं धनिनं चिरजीविनं ।
विघ्ननाशो भवेत्तस्य महैश्वर्यं यशोऽमलं ।
इहैव च सुखं भक्त्यान्ते याति हरेः पदं ।। ७.९५ ।।
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गणपतिस्तोत्रं नाम सप्तमोऽध्यायः