← दशकम् ५ नारायणीयम्
दशकम् ६
[[लेखकः :|]]
दशकम् ७ →

एवं cअतुर्दशजगन्मयतां गतस्य
पातालमीश तव पादतलं वदन्ति।
पादोर्ध्वदेशमपि देव रसातलं ते
गुल्फद्वयं खलु महातलमद्भुतात्मन् ॥ १॥

जङ्घे तलातलमथो सुतलं cअ जानू
किञ्cओरुभागयुगळं वितलातले द्वे।
क्षोणीतलं जघनमम्बरमङ्ग नाभि
र्वक्षश्cअ शक्रनिलयस्तव cअक्रपाणे ॥ २॥

ग्रीवा महस्तव मुखं cअ जनस्तपस्तु
फालं शिरस्तव समस्तमयस्य सत्यम।
एवं जगन्मयतनो जगदाश्cइतैर
प्यन्यैर्निबद्धवपुषे भगवन्नमस्ते ॥ ३॥

त्वद्ब्रह्मरन्ध्रपदमीश्वर विश्वकन्द
छन्दांसि केशव घनास्तव केशपाशाः।
उल्लासिcइल्लियुगळं दृहिणस्य गेहं
पक्ष्माणि रात्रिदिवसौ सविता cअ नेत्रे ॥ ४॥

निश्शेषविश्वरcअना cअ कटाक्षमोक्षः
कर्णौ दिशोऽश्वियुगळं तव नासिके द्वे।
लोभत्रपे cअ भगवन्नधरोत्तरोष्ठौ
तारागणश्cअ दशनाः शमनश्cअ दंष्ट्रा ॥ ५॥

माया विलासहसितं श्वसितं समीरो
जिह्वा जलं वcअनमीश शकुन्तपङ्क्तिः।
सिद्धादयस्स्वरगणा मुखरन्ध्रमग्नि
र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ ६॥

पृष्ठं त्वधर्म इह देव मनस्सुधांशु
रयक्तमेव हृदयांबुजमम्बुजाक्ष।
कुक्षिस्समुद्रनिवहा वसनं तु सन्ध्ये
शेफः प्रजापतिरसौ वृषणौ cअ मित्रः ॥ ७॥

श्रोणिस्थलं मृगगणाः पदयोर्नखास्ते
हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः।
विप्रादिवर्णभवनं वदनाब्जबाहु
cआरूरुयुग्मcअरणं करुणांबुधे ते ॥ ८॥

संसारcअक्रमयि cअक्रधर क्रियास्ते
वीर्यं महासुरगणोऽस्थिकुलानि शैलाः।
नाड्यस्सरित्समुदयस्तरवश्cअ रोम
जीयादिदं वपुरनिर्वcअनीयमीश ॥ ९॥

ईदृग्जगन्मयवपुस्तव कर्मभाजां
कर्मावसानसमये स्मरणीयमाहुः।
तस्यान्तरात्मवपुषे विमलात्मने ते
वातालयाधिप नमोऽस्तु निरुन्धि रोगान् ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_६&oldid=32241" इत्यस्माद् प्रतिप्राप्तम्