पञ्चविंशब्राह्मणम्/अध्यायः २
← अध्यायः १ | पञ्चविंशब्राह्मणम् (ताण्ड्यब्राह्मणम्) अध्यायः ०२ [[लेखकः :|]] |
अध्यायः ३ → |
दशरात्रस्य स्तोमगतोद्यत्यादिविष्टुतिविवरणं |
2.1
तिसृभ्यो हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया तिसृभ्यो हिङ्करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः
ज्येष्ठो ज्यैष्ठिनेय स्तुवीत
अग्रादग्रं रोहत्यभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
पापवसीयसो विधृतिर्विपाप्मना वर्तते य एतया स्तुते नावगतोऽप रुध्यते नापरुद्धोऽव गच्छति । न श्रेयांसं पापीयानभ्या रोहति न जनता जनतामभ्येति नान्योऽन्यस्य प्रजा आ ददते यथाक्षेत्रं कल्पन्ते । अवर्षुकस्तु पर्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण व्येति
एषा वै प्रतिष्ठिता त्रिवृतो विष्टुतिः प्रति तिष्ठति य एतया स्तुते
2.2
तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिः परिवर्तिनी त्रिविष्टुतिः
प्रपरीवर्तमाप्नोति य एतया स्तुते संतता विष्टुतिः प्राणोऽपानो व्यानस्त ऋचस्तान् हिङ्कारेण सं तनोति । सर्वमायुरेति न पुरायुषः प्र मीयते य एतया स्तुते वर्षुकः पर्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण सं दधाति
श्लक्ष्णेव तु वा ईश्वरा पशून्निर्मृजः सैषा च पराचोत श्रेयान् भवत्युत यादृङेव तादृङ्नेत् तु पापीयान्
तामेतां भाल्लवय उपासते तस्मात् ते प्रतिगृणन्तः परीवर्तान्न च्यवन्ते
2.3
तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति या मध्यमा सा प्रथमा योत्तमा सा मध्यमा या प्रथमा सोत्तमा तिसृभ्यो हिङ्करोति योत्तमा सा प्रथमा या प्रथमा सा मध्यमा या मध्यमा सोत्तमा कुलायिनी त्रिवृतो विष्टुतिः
प्रजाकामो वा पशुकामो वा स्तुवीत वै कुलानायपशवः कुलायंकुलायमेव भवति
एतामेवानुजावराय कुर्यादेतासामेवाग्रं परियतीनां प्रजाना[म्] अग्रं पर्येति
एतामेव बहुभ्यो यजमानेभ्यः कुर्यात् यत् सर्वा अग्रिया भवन्ति सर्वा मध्ये सर्वा उत्तमाः सर्वानेवैनान् समावद्भाजः करोति नान्योऽन्यमप घ्नते सर्वे समावदिन्द्रिया भवन्ति
वर्षुकः पर्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण व्यति षजति
पापवसीयसं तु भवति
अधरोत्तरमपावगतो रुध्यतेव गच्छत्यपरुद्धः पापीयान् श्रेयांसमभ्या रोहति जनता जनतामभ्येत्यन्योऽन्यस्य प्रजा आ ददते न यथाक्षेत्रं कल्पन्ते
2.4
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चपञ्चदशस्य विष्टुतिः
पाङ्क्तः पुरुषः पाङ्क्तात् पशवस्तया पुरुषं च पशूंश्चाप्नोति वज्रो वै पन्चपशो यत् पञ्चपञ्च व्यूहति वज्रमेव तद्व्यूहति शान्त्या एषा वै प्रतिष्ठिता पञ्चदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते
2.5
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया तिसृभ्यो हिङ्करोति स पराचीभिः सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिस्
त्रीन् स्तोमान् प्रतिविहिता ब्रह्मवर्चसकामः स्तुवीत
पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतं सप्तभिः सप्तदशम्
वीर्यं वै स्तोमा वीर्यमेव तदेकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते
2.6
तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिरुद्यती पञ्चदशस्य विष्टुतिः
एतया वै देवाः स्वर्गंल्लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
अभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
2.7
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिः
एतया वै देवा असुरानत्यक्रामन्नति पाप्मानं भ्रातृव्यं क्रामति य एतया स्तुते
अभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
गर्भिणी विष्टुतिः प प्रजया प्र पशुभिर्जायते य एतया स्तुते
विड्वै सप्तदशस्तस्या राजा गर्भो विश एव तद्राजानं गर्भं करोति
नावगतोऽप रुध्यते नापरुद्धोऽव गच्छति
अन्नं वै सप्तदशो यत् सप्त मध्ये भवन्ति पञ्चपञ्चाभितोऽन्नमेव तन्मध्यतो धीयतेऽनशनायुको यजमानो भवत्यनशनायुकाः प्रजाः
वैराजो वै पुरुषः सप्त ग्राम्याः पशवो यद्दशपूर्वा भवन्ति सप्तोत्तमा यजमानमेव तत् पशुषु प्रति ष्ठापयति
एषा वै प्रतिष्ठिता सप्तदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते
2.8
एष एव व्यूहः सप्तैकमध्या
ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् प्रथमा भूयिष्ठा भाजयति ब्रह्मण्येव तदोजो वीर्यं दधाति ब्रह्मण एव तत् क्षत्रं च विशं चानुगे करोति क्षत्रस्यास्य प्रकाशो भवति य एतया स्तुते
तामेतां त्रिखर्वा उपासते तस्मात् ते स्पर्धमाना न व्लीयन्ते
2.9
सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया तिसृभ्यो हिङ्करोति पराचीभिः सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः सप्तास्थिता
भ्रातृव्यं स्तुवीत यथा सप्तास्थितेन मत्येन समी करोत्येवं पाप्मानं भ्रातृव्यं प्र रुजति
एतामेव बहुभ्यो यजमानेभ्यः कुर्याद्यः प्रथमो हिङ्कारः स प्रथमाया यत्तां सप्तभ्यो हिङ्करोति तेन सा सप्त भजते यत् सप्तैव मध्ये सपद्यन्ते तेन सा सप्त भजते य उत्तमो हिङ्कारः स उत्तमया यत्तां सप्तभ्यो हिङ्करोति तेन सा सप्त भजते सर्वानेवैनान् समावद्भाजः करोति नान्योऽन्यमप घ्नते समावदिन्द्रिया भवन्ति
तामेतामभिप्रतारिण उपासते तस्मात् त ओजिष्ठास्वानाम्
2.10
एष एव व्यूह उभयः सप्तैकमध्या निर्मध्या
आनुजावर स्तुवीतालोको वा एष यदानुजावरो यत् सप्तप्रथमाः सप्तोत्तमास्तिस्रो मध्ये त्र्यक्षरः पुरुषो लोकमेवास्मै तन्मध्यतः करोति तस्मिंल्लोके प्रति तिष्ठति
एतामेव प्रजाकामाय कुर्यान्मध्यतो वा एष संरूढो यः प्रजां न विन्दते लोकमेवास्मै तं मध्यतः करोति तं लोकं प्रजया च पशुभिश्चानु प्र जायते
एतामेवापरुद्धराजन्याय कुर्याद्विड्वै सप्तदशस्तस्या राजा गर्भो विश एव तद्राजानं निर्हन्त्यपावगतोऽप रुध्यतेऽव गच्छत्यपरुद्धः
एतामेवाभिचर्यमाणाय कुर्यात् प्रजापतिर्वै सप्तदशः प्रजापतिमेव मध्यत्तः प्र विशन्त्यस्तृत्यै
2.11
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः
चतुरस्तोमान् प्रतिविहिता ब्रह्मवर्चसकामाः स्तुवीत पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतं नवभिस्त्रिणवं स्वयं सप्तदशः सम्पन्नो वीर्यं वै स्तोमा वीर्यमेव तदेकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते
2.12
तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिरुद्यतीसप्तदशस्य विष्टुतिः
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
2.13
सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिर्भस्त्रावाचीनबिला
यं द्विष्यात् तस्य कुर्याद्यथावाचीनबिलया भस्त्रया प्रधूनुयादेवं यजमानस्य पशून् प्रधूनोत्यपक्रामन्ती विष्टुतिस्तया यजमानस्य पशवोऽपक्रामन्ति पापीयान् भवति य एतया स्तुते
2.14
सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्स्टुतिः
सप्त ग्राम्याः पशवस्तानेतया स्पृणोति सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्येवैतयाप्नोति
एषा वै प्रतिष्थितैकविंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
2.15
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिरुद्यत्येकविंशस्य विष्टुतिः
एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
सैषा त्रिवृत् प्रायणा त्रिवृदुदयना यत् त्रिवृद्बहिष्पवमानं भवति नवैता एकविंशस्योत्तमा भवन्ति प्राणा वै त्रिवृत् प्राणानेव तदुभयतो दधाति तस्मादयमर्धभागवाक्(?) प्राण उत्तरेषां प्राणानां सर्वमायुरेति न पुरायुषः प्रमीयते य एतया स्तुते
तामेतां क्रद्विष उपासते तस्मात् ते सर्वमायुर्यन्ति
2.16
नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः प्रतिष्टुतिः
नवभिस्त्रिवृतं प्रतिष्टौति पञ्चभिः पञ्चभिः पञ्चदशं सप्तभिः सप्तदशं स्वयमेकविंशः संपन्नः
स एव स्तोमा यज्ञं वहन्ति तानुत्तमे स्तोत्रे संतर्पयति यथानडुहो वाश्वान् वाश्वतरान् वोहुषः संतर्पयेदेवमेतदुत्तमे स्तोत्रे स्तोमान् संतर्पयति तृप्यति प्रजया पशुभिर्य एतया स्तुते
एतामेव पुरोधाकामाय कुर्याद्ब्रह्म वै त्रिवृत् क्षत्रमेकविंशो यत् त्रिवृतैकविंशं प्रतिपद्यते ब्रह्म तत् क्षत्रस्य पुरस्तान्निदधाति गच्छति पुरोधां न पुरोधायाश्च्यवते य एतया स्तुते
तामेतां प्रावाहण्य उपासते तस्मात् ते पुरोधाया न च्यवन्त
2.17
नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिस्तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्युभयत आदीप्ता
ब्रह्मवर्चसकामः स्तुवीत तेजो वै त्रिवृत् त्र्यक्षरः पुरुषो यत् त्रिवृतावभितो भवतस्तिस्रो मध्ये यथा हि हिरण्यं निष्टपेदेवमेनं त्रिवृतौ निष्टपतस्तेजसे ब्रह्मवर्चसाय
अपशव्येव तु वा ईश्वरा पशून्निर्दहः किलासत्त्वान्नूभयमति हि निष्टपतः
एतामेवाभिशस्यमानाय कुर्याच्छमलं वा एतमृच्छति यमश्लीला वागृच्छति यैवैनमसावश्लीलं वाग्वदति तामस्य त्रिवृतौ निष्टपतस्तेजस्वी भवति य एतया स्तुते
- २.१.१ उद्यतीविष्टुतिस्वरूपमाह
तिसृभ्यो हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया तिसृभ्यो हिङ्करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः
- २.१.२ तत्राधिकारिनिरूपणं
ज्येष्ठो ज्यैष्ठिनेय स्तुवीत
- २.१.३ तस्य प्रशंसनं ।
अग्रादग्रं रोहत्यभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यं ऋद्ध्या एव
- २.१.४ नानाविधफलसाधनत्वेन तत्प्रशंसनं
पापवसीयसो विधृतिर्विपाप्मना वर्तते य एतया स्तुते नावगतोऽप रुध्यते नापरुद्धोऽव गच्छति । न श्रेयांसं पापीयानभ्या रोहति न जनता जनतां अभ्येति नान्योऽन्यस्य प्रजा आ ददते यथाक्षेत्रं कल्पन्ते । अवर्षुकस्तु पर्जन्यो भवतीमे हि लोकास्तृचस्तान्हिङ्कारेण व्येति
- २.१.५ प्रतिष्ठाफलतया तत्प्रशंसनं
एषा वै प्रतिष्ठिता त्रिवृतो विष्टुतिः प्रति तिष्ठति य एतया स्तुते
- २.२.१ परिवर्त्तिनीं विष्टुतिं दर्शयति
तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिः परिवर्तिनी त्रिविष्टुतिः
- २.२.२ बहुविधफलसाधनत्वेन तस्य प्रशंसा
प्रपरीवर्तं आप्नोति य एतया स्तुते संतता विष्टुतिः प्राणोऽपानो व्यानस्त ऋचस्तान्हिङ्कारेण सं तनोति । सर्वं आयुरेति न पुरायुषः प्र मीयते य एतया स्तुते वर्षुकः पर्जन्यो भवतीमे हि लोकास्तृचस्तान्हिङ्कारेण सं दधाति
- २.२.३ तत्रैको दोषो विद्यत इत्याह
श्लक्ष्णेव तु वा ईश्वरा पशून्निर्मृजः सैषा च पराचोत श्रेयान्भवत्युत यादृङेव तादृङ्नेत्तु पापीयान्
- २.२.४ एषा भाल्लविशाखिनां नित्या
तां एतां भाल्लवय उपासते तस्मात्ते प्रतिगृणन्तः परीवर्तान्न च्यवन्ते
- २.३.१ कुलायिनीविष्टुतिं दर्शयति
तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति या मध्यमा सा प्रथमा योत्तमा सा मध्यमा या प्रथमा सोत्तमा तिसृभ्यो हिङ्करोति योत्तमा सा प्रथमा या प्रथमा सा मध्यमा या मध्यमा सोत्तमा कुलायिनी त्रिवृतो विष्टुतिः
- २.३.२ तत्राधिकारिनिरूपणं
प्रजाकामो वा पशुकामो वा स्तुवीत वै कुलानायपशवः कुलायं-कुलायं एव भवति
- २.३.३ तत्राधिकारिविशेषं दर्शयति
एतां एवानुजावराय कुर्यादेतासां एवाग्रं परियतीनां प्रजाना[म्] अग्रं पर्येति
- २.३.४ अहीनसत्त्रेषु फलसाम्यात् तत्त्र कुलायिनीविधानं
एतां एव बहुभ्यो यजमानेभ्यः कुर्यात्यत्सर्वा अग्रिया भवन्ति सर्वा मध्ये सर्वा उत्तमाः सर्वानेवैनान्समावद्भाजः करोति नान्योऽन्यं अप घ्नते सर्वे समावदिन्द्रिया भवन्ति
- २.३.५ तस्याः फलान्तरमाह
वर्षुकः पर्जन्यो भवतीमे हि लोकास्तृचस्तान्हिङ्कारेण व्यति षजति
- २.३.६ तस्यां बहुदोषसम्भवः
पापवसीयसं तु भवति
- २.३.७ तत्त्र बहुदोषकथनं
अधरोत्तरं अपावगतो रुध्यतेव गच्छत्यपरुद्धः पापीयान्श्रेयांसं अभ्या रोहति जनता जनतां अभ्येत्यन्योऽन्यस्य प्रजा आ ददते न यथाक्षेत्रं कल्पन्ते
- २.४.१ पञ्चपञ्चिनीं विष्टुतिमाह
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चपञ्चदशस्य विष्टुतिः
- २.४.२ पुरुषपश्वादिप्राप्तिसाधनत्वेन तत्प्रशंसा
पाङ्क्तः पुरुषः पाङ्क्तात्पशवस्तया पुरुषं च पशूंश्चाप्नोति वज्रो वै पन्चपशो यत्पञ्च-पञ्च व्यूहति वज्रं एव तद्व्यूहति शान्त्या एषा वै प्रतिष्ठिता पञ्चदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते
- २.५.१ अपरां विष्टुतिं दर्शयति
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया तिसृभ्यो हिङ्करोति स पराचीभिः सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिस्
- २.५.२ तस्या अधिकारिनिरूपणं
त्रीन्स्तोमान्प्रतिविहिता ब्रह्मवर्चसकामः स्तुवीत
- २.५.३ तस्याः स्तोमत्रयप्रतिनिधित्वं
पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतं सप्तभिः सप्तदशम्
- २.५.४ तत्र ज्ञातव्यविषयः
वीर्यं वै स्तोमा वीर्यं एव तदेकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते
- २.६.१ अवरा उद्यती विष्टुतिः
तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिरुद्यती पञ्चदशस्य विष्टुतिः
- २.६.२ तस्याः फलकथनं
एतया वै देवाः स्वर्गंल्लोकं आयन्स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
- २.६.३ तस्याः फलान्तरमाह
अभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यं ऋद्ध्या एव
- २.७.१ दशसप्ताख्या विष्टुतिः
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिः
- २.७.२ तस्याः प्रशंसा
एतया वै देवा असुरानत्यक्रामन्नति पाप्मानं भ्रातृव्यं क्रामति य एतया स्तुते
- २.७.३ प्रकारान्तरेण तत्प्रशंसा
अभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यं ऋद्ध्या एव
- २.७.४ प्रजापशुसाधनत्वेन तत्प्रशंसा
गर्भिणी विष्टुतिः प प्रजया प्र पशुभिर्जायते य एतया स्तुते
- २.७.५ पुनरपि प्रकारान्तरेण तत्प्रशंसा
विड्वै सप्तदशस्तस्या राजा गर्भो विश एव तद्राजानं गर्भं करोति
- २.७.६ तस्याः फलकथनं
नावगतोऽप रुध्यते नापरुद्धोऽव गच्छति
- २.७.७ क्षुन्निवारकत्वेन तत्प्रशंसा
अन्नं वै सप्तदशो यत्सप्त मध्ये भवन्ति पञ्च-पञ्चाभितोऽन्नं एव तन्मध्यतो धीयतेऽनशनायुको यजमानो भवत्यनशनायुकाः प्रजाः
- २.७.८ पशुसाधनत्वेन तत्प्रशंसा
वैराजो वै पुरुषः सप्त ग्राम्याः पशवो यद्दशपूर्वा भवन्ति सप्तोत्तमा यजमानं एव तत्पशुषु प्रति ष्ठापयति
- २.७.९ इयं प्रतिष्ठाहेतुरिति दर्शयति
एषा वै प्रतिष्ठिता सप्तदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते
- २.८.१ उक्ताया विष्टुतेः प्रकारान्तरकथनं
एष एव व्यूहः सप्तैकमध्या
- २.८.२ तस्याः प्रशंसा
ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत्प्रथमा भूयिष्ठा भाजयति ब्रह्मण्येव तदोजो वीर्यं दधाति ब्रह्मण एव तत्क्षत्रं च विशं चानुगे करोति क्षत्रस्यास्य प्रकाशो भवति य एतया स्तुते
- २.८.३ उक्ता विष्टुतिः त्रिखर्व्वशाखिनां नित्या
तां एतां त्रिखर्वा उपासते तस्मात्ते स्पर्धमाना न व्लीयन्ते
- २.९.१ सप्तास्थिता विष्टुतिः
सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया तिसृभ्यो हिङ्करोति पराचीभिः सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः सप्तास्थिता
- २.९.२ तस्या अधिकारिणमाह
भ्रातृव्यं स्तुवीत यथा सप्तास्थितेन मत्येन समी करोत्येवं पाप्मानं भ्रातृव्यं प्र रुजति
- २.९.३ बहुयजमानकेष्वपि एषा प्रयोक्तव्या
एतां एव बहुभ्यो यजमानेभ्यः कुर्याद्यः प्रथमो हिङ्कारः स प्रथमाया यत्तां सप्तभ्यो हिङ्करोति तेन सा सप्त भजते यत्सप्तैव मध्ये सपद्यन्ते तेन सा सप्त भजते य उत्तमो हिङ्कारः स उत्तमया यत्तां सप्तभ्यो हिङ्करोति तेन सा सप्त भजते सर्वानेवैनान्समावद्भाजः करोति नान्योऽन्यं अप घ्नते समावदिन्द्रिया भवन्ति
- २.९.४ एषापि केषाञ्चिन्नित्येत्याह
तां एतां अभिप्रतारिण उपासते तस्मात्त ओजिष्ठास्वानाम्
- २.१०.१ सप्तास्थिताया व्यूहनप्रकारः
एष एव व्यूह उभयः सप्तैकमध्या निर्मध्या
- २.१०.२ तस्या अधिकारिनिरूपणं
आनुजावर स्तुवीतालोको वा एष यदानुजावरो यत्सप्तप्रथमाः सप्तोत्तमास्तिस्रो मध्ये त्र्यक्षरः पुरुषो लोकं एवास्मै तन्मध्यतः करोति तस्मिंल्लोके प्रति तिष्ठति
- २.१०.३ अधिकार्य्यन्तरमाह
एतां एव प्रजाकामाय कुर्यान्मध्यतो वा एष संरूढो यः प्रजां न विन्दते लोकं एवास्मै तं मध्यतः करोति तं लोकं प्रजया च पशुभिश्चानु प्र जायते
- २.१०.४ अधिकारिविशेषं दर्शयति
एतां एवापरुद्धराजन्याय कुर्याद्विड्वै सप्तदशस्तस्या राजा गर्भो विश एव तद्राजानं निर्हन्त्यपावगतोऽप रुध्यतेऽव गच्छत्यपरुद्धः
- २.१०.५ अधिकार्य्यन्तरनिरूपणं
एतां एवाभिचर्यमाणाय कुर्यात्प्रजापतिर्वै सप्तदशः प्रजापतिं एव मध्यत्तः प्र विशन्त्यस्तृत्यै
- २.११.१ सप्तदशस्यापरा विष्टुतिः
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः
- २.११.२ स्तोमचतुष्टयरूपेण तां प्रशंसन् सा ब्रह्मवर्च्चसकामस्येत्याह
चतुरस्तोमान्प्रतिविहिता ब्रह्मवर्चसकामाः स्तुवीत पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतं नवभिस्त्रिणवं स्वयं सप्तदशः सम्पन्नो वीर्यं वै स्तोमा वीर्यं एव तदेकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते
- २.१२.१ अपरा उद्यती विष्टुतिः ।
तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिरुद्यतीसप्तदशस्य विष्टुतिः
- २.१२.२ तस्याः स्वर्गादिसाधनतया प्रशंसा
एतया वै देवाः स्वर्गं लोकं आयन्स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यं ऋद्ध्या एव
- २.१३.१ भस्त्राविष्टुतिमाह
सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिर्भस्त्रावाचीनबिला
- २.१३.२ तस्या अधिकारिणमाह
यं द्विष्यात्तस्य कुर्याद्यथावाचीनबिलया भस्त्रया प्रधूनुयादेवं यजमानस्य पशून्प्रधूनोत्यपक्रामन्ती विष्टुतिस्तया यजमानस्य पशवोऽपक्रामन्ति पापीयान्भवति य एतया स्तुते
- २.१४.१ एकविंशस्तोमस्य चतस्रो विष्टुतयः
सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्स्टुतिः
- २.१४.२ तासां स्तुतिः
सप्त ग्राम्याः पशवस्तानेतया स्पृणोति सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्येवैतयाप्नोति
- २.१४.३ पुनरपि ताः स्तौति
एषा वै प्रतिष्थितैकविंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते
- २.१५.१ अस्या द्वितीया उद्यती विष्टुतिः
पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिरुद्यत्येकविंशस्य विष्टुतिः
- २.१५.२ तस्या विष्टुतेः प्रशंसा
एतया वै देवाः स्वर्गं लोकं आयन्स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यं ऋद्ध्या एव
- २.१५.३ प्रकारान्तरेण तस्याः प्रशंसा
सैषा त्रिवृत्प्रायणा त्रिवृदुदयना यत्त्रिवृद्बहिष्पवमानं भवति नवैता एकविंशस्योत्तमा भवन्ति प्राणा वै त्रिवृत्प्राणानेव तदुभयतो दधाति तस्मादयं अर्धभागवाक्(?) प्राण उत्तरेषां प्राणानां सर्वं आयुरेति न पुरायुषः प्रमीयते य एतया स्तुते
- २.१५.४ एषा केषाञ्चिन्नित्येत्याह
तां एतां क्रद्विष उपासते तस्मात्ते सर्वं आयुर्यन्ति
- २.१६.१ प्रतिष्टुतिर्नाम तृतीया विष्टुतिः ।
नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः प्रतिष्टुतिः
- २.१६.२ तस्याः स्वरूपनिरूपणं
नवभिस्त्रिवृतं प्रतिष्टौति पञ्चभिः पञ्चभिः पञ्चदशं सप्तभिः सप्तदशं स्वयं एकविंशः संपन्नः
- २.१६.३ तस्याः प्रशंसा
स एव स्तोमा यज्ञं वहन्ति तानुत्तमे स्तोत्रे संतर्पयति यथानडुहो वाश्वान्वाश्वतरान्वोहुषः संतर्पयेदेवं एतदुत्तमे स्तोत्रे स्तोमान्संतर्पयति तृप्यति प्रजया पशुभिर्य एतया स्तुते
- २.१६.४ पौरोहित्यकामस्य यजमानस्यैषा प्रयोज्या
एतां एव पुरोधाकामाय कुर्याद्ब्रह्म वै त्रिवृत्क्षत्रं एकविंशो यत्त्रिवृतैकविंशं प्रतिपद्यते ब्रह्म तत्क्षत्रस्य पुरस्तान्निदधाति गच्छति पुरोधां न पुरोधायाश्च्यवते य एतया स्तुते
- २.१६.५ एषापि केषाञ्चिन्नित्येत्याह
तां एतां प्रावाहण्य उपासते तस्मात्ते पुरोधाया न च्यवन्त
- २.१७.१ सूर्म्म्यां विष्टुतिं दर्शयति
नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिस्तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्युभयत आदीप्ता
- २.१७.२ अधिकारिणं निरूपयति
ब्रह्मवर्चसकामः स्तुवीत तेजो वै त्रिवृत्त्र्यक्षरः पुरुषो यत्त्रिवृतावभितो भवतस्तिस्रो मध्ये यथा हि हिरण्यं निष्टपेदेवं एनं त्रिवृतौ निष्टपतस्तेजसे ब्रह्मवर्चसाय
- २.१७.३ अस्यां दोषद्वयमप्यस्ति
अपशव्येव तु वा ईश्वरा पशून्निर्दहः किलासत्त्वान्नूभयमति हि निष्टपतः
- २.१७.४ अस्या अधिकार्य्यन्तरमाह
एतां एवाभिशस्यमानाय कुर्याच्छमलं वा एतं ऋच्छति यं अश्लीला वागृच्छति यैवैनं असावश्लीलं वाग्वदति तां अस्य त्रिवृतौ निष्टपतस्तेजस्वी भवति य एतया स्तुते