पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९०

← अध्यायः ०८९ पद्मपुराणम्
अध्यायः ०९०
वेदव्यासः
अध्यायः ०९१ →

सत्योवाच-
सर्वेऽपि कालावयवास्तवकालस्वरूपिणः ।
समानास्तु कथं नाथ मासानां कार्तिको वरः १।
एकादशी तिथीनां च मासानां कार्त्तिकः प्रियः ।
कथं ते देवदेवेश कारणं किं च कथ्यताम् २।
श्रीकृष्ण उवाच-
साधु पृष्टं त्वया सत्ये शृणुष्वैकाग्रमानसा ।
पृथोर्वैन्यस्य संवादं देवर्षेर्नारदस्य च ३।
एवमेव पुरा पृष्टो नारदः पृथुना प्रिये ।
उवाच कार्त्तिकाधिक्ये कारणं सर्वविन्मुनिः ४।
नारद उवाच-
शंखनामाभवत्पूर्वमसुरः सागरात्मजः ।
त्रिलोकीमथने शक्तो महाबलपराक्रमः ५।
जित्वा देवान्निराकृत्य स्वर्गलोकान्महासुरः ।
इंद्रादिलोकपालानामधिकारांस्तथाहरत् ६।
तद्भयादथ ते देवाः सुवर्णाद्रिगुहां गताः ।
न्यवसन्बहुवर्षाणि सावरोधाः सवासवाः ७।
सुवर्णाद्रि गुहादुर्गसंस्थितास्त्रिदशा यदा ।
तद्वश्या न बभूवुस्ते तदा दैत्यो व्यचारयत् ८।
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः ।
भवंति बलयुक्तास्ते करणीयं ममात्र किम् ९।
अद्य ज्ञातं मया देवा वेदमंत्रबलान्विताः ।
तान्हरिष्ये ततः सर्वे बलहीना भवंति हि १०।
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम् ।
सत्यलोकाज्जहाराशु वेदानां च गणं प्रभुः ११।
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन् ।
तोये निविविशुस्तेऽत्र यज्ञमंत्रसमन्विताः १२।
तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् ।
न ददर्श ततो दैत्यः क्वचिदेकत्र संस्थितान् १३।
अथ ब्रह्मा सुरैः सार्द्धं विष्णुं शरणमन्वयात् ।
पूजोपकरणं गृह्य वैकुंठभवनं गतः १४।
तत्र तस्य प्रबोधाय गीतवाद्यादिकाः क्रियाः ।
चक्रुर्देवा गंधपुष्पधूपदीपान्मुहुर्मुहुः १५।
अथ प्रबुद्धो भगवांस्तद्भक्तिपरितोषितः ।
ददृशे तैः सुरैस्तत्र सहस्रार्कसमद्युतिः १६।
उपचारैः षोडशभिः संपूज्य त्रिदशास्तदा ।
दंडवत्पतिता भूमौ तानुवाचाथ केशवः १७।
विष्णुरुवाच-
वरदोऽहं सुरगणा गीतवाद्यादि मंगलैः ।
मनोऽभिलषितान्कामान्सर्वानेव ददामि वः १८।
इषस्य शुक्लैकादश्या यावदुद्बोधिनी भवेत् ।
निशातुर्यांशशेषेण गीतवाद्यादि मंगलैः १९।
कुर्वंति मनुजा नित्यं भवद्भिर्यद्यथाकृतम् ।
ते मत्प्रियकरा नित्यं मत्सांनिध्यं व्रजंति हि २०।
पाद्यार्घाचमनीयाद्यैर्भवद्भिर्यद्यथाकृतम् ।
तदद्भुतगुणं यस्माज्जातंवः सुखकारणम् २१।
वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः ।
तानानयाम्यहं देवा हत्वा सागरनंदनम् २२।
अद्यप्रभृति वेदास्तु मंत्रबीजमखान्विताः ।
प्रत्यब्दं कार्तिके मासि विश्रमंत्वप्सु सर्वदा २३।
अद्यप्रभृत्यहमपि भवामि जलमध्यगः ।
भवंतोऽपि मया सार्द्धमायांतु समुनीश्वराः २४।
कालेऽस्मिन्नेव कुर्वंति प्रातःस्नानं द्विजोत्तमाः ।
ते सर्वयज्ञावभृथैः सुस्नाताः स्युर्न संशयः २५।
ये कार्तिके व्रतं सम्यङ्नित्यं कुर्वंति मानवाः ।
ते देहांते त्वया शक्र प्राप्या मद्भवनं सदा २६।
विघ्नेभ्यो रक्षणं तेषां यया कार्यं ममाज्ञया ।
देया त्वया च वरुण पुत्रपौत्रादि संततिः २७।
धनवृद्धिर्धनाध्यक्ष त्वया कार्या ममाज्ञया ।
ममरूपधराः साक्षाज्जीवन्मुक्ताश्च ते नराः २८।
आजन्ममरणाद्यैश्च कृतमेतद्व्रतोत्तमम् ।
यथोक्तविधिना सम्यक्ते मान्या भवतामपि २९।
एकादश्यां यतश्चाहं भवद्भिः प्रतिबोधितः ।
अतश्चैषा तिथिर्मान्या सदैव प्रीतिदा मम ३०।
व्रतद्वयं सम्यगिदं नरैः कृतं कृष्णस्य सान्निध्यदमस्ति नान्यत् ।
दानानि तीर्थानि तपांसि यज्ञाः स्वर्लोकदानेन सदा सुरोत्तमाः ३१।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्र संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शंखासुरवधउद्यमोनाम नवतितमोऽध्यायः ९०।