पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९१

← अध्यायः ०९० पद्मपुराणम्
अध्यायः ०९१
वेदव्यासः
अध्यायः ०९२ →

नारद उवाच-
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक् ।
स पपातांजलौ विंध्ये निवासे कश्यपस्य च १।
स तं कमंडलौ क्षिप्रं कृपया क्षिप्तवान्मुनिः ।
तावत्स न ममौ तत्र ततः कूपे न्यवेशयत् २।
तत्रापि न ममौ तावत्कासारे प्राक्षिपत्सताम् ।
एवं स सागरे क्षिप्तस्तत्र सोऽप्यन्ववर्द्धत ३।
ततोऽवधीत्स तं शंखं विष्णुर्वै मत्स्यरूपधृक् ।
अथ तं स्वकरे धृत्वा बदरीवनमागतः ४।
तत्राहूय ऋषीन्सर्वानिदमाज्ञापयद्विभुः ।
श्रीकृष्ण उवाच-
जलांतरे विशीर्णांस्तु यूयं वेदान्प्रमार्जथ ५।
आनयध्वं च त्वरिताः सरहस्यं जलांतरात् ।
तावत्प्रयागे तिष्ठामि देवतागणसंयुतः ६।
नारद उवाच-
ततस्तैः सर्वमुनिभिस्तपोबलसमन्वितैः ।
उद्धारिताः षडंगास्ते वेदा यज्ञसमन्विताः ७।
तेषु यावन्मितं येन लब्धं तावन्मितस्य हि ।
स स एव ऋषिर्जातस्तदाप्रभृति पार्थिव ८।
अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः ।
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ९।
लब्ध्वा वेदान्सयज्ञांस्तु ब्रह्माहर्षसमन्वितः ।
अयजच्चाश्वमेधेन देवर्षिगणसंवृतः १०।
यज्ञा ते देवदेवेश सिद्धपन्नगगुह्यकाः ।
निपत्य दंडवद्भूमौ विज्ञप्तिं तत्र चक्रिरे ११।
देवा ऊचुः।
देवदेवजगन्नाथ विज्ञप्तिं शृणु नः प्रभो ।
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव १२।
स्थानेऽस्मिन्नृषयो वेदान्नष्टान्प्रापुः पुनः स्वयम् ।
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते १३।
स्थानमेतदपि श्रेष्ठं पृथिव्यां पुण्यवर्द्धनम् ।
भुक्तिमुक्तिप्रदं चास्तु प्रसादाद्भवतः सदा १४।
कालोऽप्ययं महापुण्यो ब्रह्मघ्नादिविशुद्धिकृत् ।
दत्ताक्षयकरश्चास्तु वरमेतद्वदस्व नः १५।
श्रीविष्णुरुवाच।
ममाप्येतन्मतं देवा यद्भवद्भिरुदाहृतम् ।
तत्तथास्तु लभत्वेतद्ब्रह्मक्षेत्रमिति प्रथाम् १६।
सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति ।
सा सूर्यकन्यया चात्र कालिंद्या संगमिष्यति १७।
यूयं च सर्वे ब्रह्माद्या निवसध्वं मया सह ।
तीर्थराजेऽति विख्यातं तीर्थमेतद्भविष्यति १८।
दानं तपो व्रतं होमो जपपूजादिकाः क्रियाः ।
अनंतफलदाः संतु मत्सांनिध्यप्रदाः सदा १९।
ब्रह्महत्यादि पापानि बहुजन्मकृतान्यपि ।
दर्शनादस्य तीर्थस्य विनाशं यांतु तत्क्षणात् २०।
देहत्यागं तथा धीराः कुर्वंति मम सन्निधौ ।
मत्तनुं प्रविशंत्येव पुनर्जन्मनि नो नराः २१।
पितॄन्निर्दिश्य ये श्राद्धं कुर्वंत्यत्र समागताः ।
तेषां पितृगणाः सर्वे यांतु ते मत्सलोकताम् २२।
कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम् ।
सूर्य्ये मकरगे प्रातः स्नायिनां पापनाशनम् २३।
मकरस्थरवौ माघे प्रातः स्नानं प्रकुर्वताम् ।
दर्शनादेव पापानि यांति सूर्याद्यथा तमः २४।
सलोकत्वं सरूपत्वं समीपत्वं त्रयं क्रमात् ।
नृणां ददाम्यहं स्नानान्माघे मकरगे रवौ २५।
यूयं मुनीश्वराः सर्वे शृणुध्वं वरदोऽस्मि वः ।
बदरीवनमध्येऽहं सदा तिष्ठामि सर्वगः २६।
अन्यत्र दशभिर्वर्षैस्तपसावाप्यते फलम् ।
तदत्र दिवसैकेन भवद्भिः प्राप्यते सदा २७।
स्थानस्य दर्शनं तस्य ये कुर्वंति नरोत्तमाः ।
जीवन्मुक्तास्तदा तेषु पापं नैवावतिष्ठते २८।
सूत उवाच-
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्द्धानमागात्स वेधाः ।
देवाः सर्वेऽप्यंशकैस्तत्र तस्थुश्चांतर्द्धानं प्रापुरिंद्रादयस्ते २९।
इमां च गाथां शृणुयान्नरोत्तमो यः श्रावयेद्वापि विशुद्धचित्तः ।
स तीर्थराजं बदरीवनं यत्कृत्वा फलं मां समवाप्नुयाच्च ३०।
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्रसंहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शंखासुरवधो वेदागमे प्रयागमाहात्म्यं नामैकनवति-तमोऽध्यायः ९१।