← अध्यायः ००९ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०
अज्ञातलेखकः
अध्यायः ०११ →

ऋषय ऊचुः-
ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराः
युद्धाद्भग्नास्तु किं कुर्युर्व्यवसायं महामते १
विस्तरेणापि नो ब्रूहि तेषां वृत्तमनुत्तमम्
श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विज २
सूत उवाच-
भग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदा
गतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः ३
भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा
दानवा ऊचुः-
भवद्वीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम ४
देवतानां महाभाग दानवानां तथैव च
वयं च दानवाः सर्वे बलवीर्यपराक्रमाः ५
उपायज्ञाः सुधीराश्च उद्यमेन समन्विताः
वयं तु बहवस्तात देवास्त्वल्पास्तथैव च ६
कथं जयंति ते सर्वे वयं भग्ना महाहवात्
तत्किं वै कारणं तात बलतेजः समन्विताः ७
मत्तनागसहस्राणामेकैकस्य महामते
बलमस्ति च दैत्यस्य नास्ति देवेषु तादृशम् ८
जयश्च दृश्यते तात देवेष्वेव महाहवे
तत्सर्वं कथयस्वैव संशयंछेत्तुमर्हसि ९
कश्यप उवाच-
शृणुध्वं पुत्रकाः सर्वे जयस्यापि च कारणम्
यस्माद्धि देवताः सर्वे समरे जयिनोऽभवन् १०
वीर्यनिर्वापकस्तातो माताक्षेत्रमिदं सदा
धारणे पालने चैव पोषणे च यथैव हि ११
किं कुर्याद्विषमार्थे तु पिता पुत्रे च वै तथा
अत्र प्रधानं कर्मैव मामेवं बुद्धिराश्रिता १२
द्वैविध्यं कर्मसंबंधं पापपुण्यसमुद्भवम्
सत्यमेव समाश्रित्य क्रियते धर्म उत्तमः १३
तपोध्यानसमायुक्तं तारणाय हि तं सुताः
पतनाय पातकं प्रोक्तं सर्वदैव न संशयः १४
बलेन परिवारेण आभिजात्येन पुत्रकाः
पुण्यहीनस्य पुंसो वै तद्बलं विकलायते १५
उन्नता गिरिदुर्गेषु वृक्षाः संति सुपुत्रकाः
पतंति वातवेगेन समूलास्तु घनास्तथा १६
सत्यधर्मविहीनास्ते तथायांति यमक्षयम्
साधारणः प्राणिनां च धर्म एष सुपुत्रकाः १७
येन संतरते जंतुरिह चैव परत्र च
तद्युष्माभिः परित्यक्तं सत्यं धर्मसमन्वितम् १८
अधर्ममास्थितं पुत्रा युष्माभिः सत्यवर्जितैः
सत्यधर्मतपोभ्रष्टाः पतिता दुःखसागरे १९
देवाश्च सत्यसंपन्नाः श्रेयसा च समन्विताः
तपः शांतिदमोपेताः सुपुण्या पापवर्जिताः २०
यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च
यत्र विष्णुर्हृषीकेशो जयस्तत्र प्रदृश्यते २१
तेषां सहायः संभूतो वासुदेवः सनातनः
तस्माज्जयंति ते देवाः सत्यधर्मसमन्विताः २२
सहायेन बलेनैव पौरुषेण तथैव च
भवंतः किल वै पुत्रास्तपः सत्यविवर्जिताः २३
यस्य विष्णुः सहायश्च तपश्चैव बलं तथा
तस्यैव च जयो दृष्ट इति धर्मविदो विदुः २४
यूयं धर्मविहीनास्तु तपः सत्यविवर्जिताः
ऐंद्रं पदं बलेनैव प्राप्तवंतश्च पूर्वतः २५
तपो विना महाप्राज्ञा धर्मेण यशसा विना
बलदर्पगुणैः पुत्रा न प्राप्यमैन्द्रकं पदम् २६
प्राप्याप्यैंद्रं पदं पुत्रास्ततो भ्रष्टा भवंति हि
तस्माद्यूयं प्रकुर्वंतु तपः पुत्राः समन्विताः २७
अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताः
वैरं चैव न कर्तव्यं केशवेन समं कदा २८
एवंविधा यदा पुत्रा यूयं धन्या भविष्यथ
परां सिद्धिं तदा सर्वे प्रयास्यथ न संशयः २९
एवं संभाषितास्ते तु कश्यपेन महात्मना
समाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः ३०
प्रणम्य कश्यपं भक्त्या समुत्थाय त्वरान्विताः
सुमंत्रं चक्रिरे दैत्याः परस्परसमाहिताः ३१
हिरण्यकशिपू राजा तानुवाचाथ दानवान्
तपश्चैव करिष्यामो दुष्करं सर्वदायकम् ३२
हिरण्याक्षस्तदोवाच करिष्ये दारुणं तपः
ततो बलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः ३३
रणे निर्जित्य गोविंदं तमिमं पापचेतसम्
व्यापाद्य देवताः सर्वाः पदमैंद्रं व्रजाम्यहम् ३४
बलिरुवाच-
एवं न युज्यते कर्तुं युष्माभिर्दितिजेश्वराः
विष्णुना सह यद्वैरं तद्वैरं नाशकारणम् ३५
दानधर्मैस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैः
तमाराध्य हृषीकेशं सुखं गच्छंति मानवाः ३६
हिरण्यकशिपुरुवाच-
अहमेवं न करिष्ये हरेराराधनं कदा
स्वभावं तु परित्यज्य शत्रुसेवा प्रचर्यते ३७
मरणादधिकं तं तु मानयंति हि पंडिताः
विष्णोः सेवा न वै कार्या मया चान्यैश्च दानवैः ३८
तमुवाच महात्मानं बलिः पितामहं पुनः
धर्मशास्त्रेषु यद्दृष्टं मुनिभिस्तत्त्ववेदिभिः ३९
राजनीतियुतं मंत्रं शत्रोश्चैव प्रधानतः
हीनमात्मानमाज्ञाय रिपुं तं बलिनं तथा ४०
तस्य पार्श्वे प्रगत्वैव जयकालं प्रतीक्षयेत्
दीपच्छायां समाश्रित्य तमो वसति सर्वदा ४१
स्नेहं दशागतं प्रेक्ष्य दीपस्यापि महाबलम्
प्रकाशं याति वेगेन तमश्च वर्द्धते पुनः ४२
तथा प्रसादयेच्छन्नः स्नेहं निर्दिश्य तत्त्वतः
स्नेहं कृत्वासुरैः सार्द्धं धर्मभावैः सुरद्विषः ४३
पूर्वमुक्तं सुमंत्रं तु मुनिना कश्यपेन हि
तेन मंत्रेण राजेंद्र कुरु कार्यं स्वमात्मवान् ४४
तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान्
पौत्र नैवं करिष्येहं मानभंगं तथात्मनः ४५
अन्ये च बांधवाः सर्वे तमूचुर्नयपंडितम्
बलिनोक्तं च यत्पुण्यं देवतानां प्रियंकरम् ४६
शक्रमानकरं प्रोक्तं दानवानां भयंकरम्
करिष्यामो वयं सर्वे तप एवमनुत्तमम् ४७
तपसा निर्जित्य देवान्हरिष्यामः स्वकं पदम्
एवमामंत्र्य ते सर्वे निराकृत्य बलिं तदा ४८
विष्णोः सार्द्धं महावैरं हृदि कृत्वा महासुराः
तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु ४९
एवं ते दानवाः सर्वे त्यक्तरागाः सुनिश्चिताः
कामक्रोधविहीनाश्च निराहारा जितक्लमाः ५०
इति श्रीपद्मपुराणे भूमिखंडे दैत्यतपश्चर्यावर्णनंनाम दशमोऽध्यायः १०