पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०३८

← अध्यायः ३७ पद्मपुराणम्
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →

सूत उवाच-
एवं संबोधितो वेनः पापभावं गतः किल ।
पुरुषेण तेन जैनेन महापापेन मोहितः १।
नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः ।
वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियाम् २।
सुयज्ञानां निवृत्तिः स्याद्वेदानां हितथैव च ।
पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्तितः ३।
सर्वपापमयो लोकः संजातस्तस्य शासनात् ।
नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम् ४।
न दानाध्ययनं विप्रास्तस्मिञ्छासति पार्थिवे ।
एवं धर्मप्रलोपोभून्महत्पापं प्रवर्तितम् ५।
अंगेन वार्यमाणस्तु अन्यथा कुरुते भृशम् ।
न ननाम पितुः पादौ मातुश्चैव दुरात्मवान् ६।
सनकस्यापि विप्रस्य अहमेकः प्रतापवान् ।
पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान् ७।
न करोति शुभं पुण्यं तीर्थदानादिकं कदा ।
आत्मभावानुरूपं च बहुकालं महायशाः ८।
पुनः सर्वैर्विचार्यैवं कस्मात्पापी व्यजायत ।
अंगप्रजापतेः पुत्रो वंशलाञ्छनमागतः ९।
पुनः पप्रच्छ धर्मात्मा सुतां मृत्योर्महात्मनः ।
कस्य दोषात्समुत्पन्नो वद सत्यं मम प्रिये १०।
सुनीथोवाच-
पूर्वमेव स्ववृत्तांतमात्मपुण्यं च नंदिनी ।
समाचष्ट च अंगाय मम दोषान्महामते ११।
बाल्ये कृतं मया पापं सुशंखस्य महात्मनः ।
तपसि संस्थितस्यापि नान्यत्किंचित्कृतं मया १२।
शप्ताहं कुप्यता तेन दुष्टा ते संततिर्भवेत् ।
इति जाने महाभाग तेनायं दुष्टतां गतः १३।
समाकर्ण्य महातेजास्तया सह वनं ययौ ।
गते तस्मिन्महाभागे सभार्ये च वने तदा १४।
सप्तैते ऋषयस्तत्र वेनपार्श्वं गतास्तथा ।
समाहूय ततः प्रोचुरंगस्य तनयं प्रति १५।
ऋषय ऊचुः-
मा वेन साहसं कार्षीःप्रजापालो भवानिह ।
त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरम् १६।
धर्मे चैव महाभाग सकलं हि प्रतिष्ठितम् ।
पापकर्मपरित्यज्य पुण्यं कर्म समाचर १७।
एवमुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीत् ।
वेन उवाच-
अहमेव परो धर्मोऽहमेवार्हः सनातनः १८।
अहं धाता अहं गोप्ता अहं वेदार्थ एव च ।
अहं धर्मो महापुण्यो जैनधर्मः सनातनः १९।
मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम् ।
ऋषय उचुः-
ब्राह्मणाः क्षत्त्रिया वैश्यास्त्रयोवर्णा द्विजातयः २०।
सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी ।
वेदाचारेण वर्तंते तेन जीवंति जंतवः २१।
ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च ।
पश्चाद्राजा पृथिव्याश्च संजातः कृतविक्रमः २२।
राजपुण्येन राजेंद्र सुखं जीवंति वै द्विजाः ।
राज्ञः पापेन नश्यंति तस्मात्पुण्यं समाचर २३।
समादृतस्त्वया धर्मः कृतश्चापि नराधिप ।
त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि २४।
कलेश्चैव प्रवेशं तु वर्त्तयिष्यंति मानवाः ।
जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः २५।
वेदाचारं परित्यज्य पापं यास्यंति मानवाः ।
पापस्य मूलमेवं वै जैनधर्मं न संशयः २६।
अनेन मुग्धा राजेंद्र महामोहेन पातिताः ।
मानवाः पापसंघातास्तेषां नाशाय नान्यथा २७।
भविष्यत्येव गोविंदः सर्वपापापहारकः ।
स्वेच्छारूपं समासाद्य संहरिष्यति पातकात् २८।
पापेषु संगतेष्वेवं म्लेच्छनाशाय वै पुनः ।
कल्किरेव स्वयं देवो भविष्यति न संशयः २९।
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय ।
वर्तयस्व हि सत्येन प्रजापालो भवस्व हि ३०।
वेन उवाच-
अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह ।
योऽन्यथा वर्तते चैव स दंड्यो भवति ध्रुवम् ३१।
अत्यर्थं भाषमाणं तं राजानं पापचेतनम् ।
कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः ३२।
कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु ।
ब्रह्मशापभयात्तेषां वल्मीकं प्रविवेश ह ३३।
अथ ते मुनयः क्रुद्धा वेनं पश्यंति सर्वतः ।
ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्थं सुसांप्रतम् ३४।
बलादानिन्युस्तं विप्राः क्रूरं तं पापचेतनम् ।
दृष्ट्वा च पापकर्माणं मुनयः सुसमाहिताः ३५।
सव्यं पाणिं ममंथुस्ते भूपस्य जातमन्यवः ।
तस्माज्जातो महाह्रस्वो नीलवर्णो भयंकरः ३६।
बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्द्धरः ।
सर्वेषामेव पापानां निषादानां बभूव ह ३७।
धाता पालयिता राजा म्लेच्छानां तु विशेषतः ।
तं दृष्ट्वा पापकर्माणमृषयस्तु महामते ३८।
ममंथुर्दक्षिणं पाणिं वेनस्यापि महात्मनः ।
तस्माज्जातो महात्मा स येन दुग्धा वसुंधरा ३९।
पृथुर्नाम महाप्राज्ञो राजराजो महाबलः ।
तस्य पुण्यप्रसादाच्च वेनो धर्मार्थकोविदः ४०।
चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः ।
जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् ४१।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्यानेऽष्टत्रिंशोऽध्यायः ३८।