पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०८९

← अध्यायः ०८८ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ०८९
अज्ञातलेखकः
अध्यायः ०९० →
कुंजलशुकस्य पुत्र समुज्ज्वलेन सह संवादम्

विष्णुरुवाच-
कुंजलस्तु सुतं वाक्यं समुज्ज्वलमथाब्रवीत् ।
भवान्कथय भोः पुत्र किमपूर्वं तु दृष्टवान् १।
तन्मे कथय सुप्रीतः श्रोतुकामोऽस्मि सांप्रतम् ।
एवमादिश्य तं पुत्रं विरराम स कुंजलः २।
पितरं प्रत्युवाचाथ विनयावनतस्सुतः ।
समुज्ज्वल उवाच-
हिमवंतं नगश्रेष्ठं देववृंदसमन्वितम् ३।
आहारार्थं प्रगच्छामि भवतश्चात्मनः पितः ।
पश्यामि कौतुकं तत्र न दृष्टं न श्रुतं पुरा ४।
प्रदेशमृषिगणाकीर्णमप्सरोभिः प्रशोभितम् ।
बहुकौतुकशोभाढ्यं मंगल्यं मंगलैर्युतम् ५।
बहुपुण्यफलोपेतैर्वनैर्नानाविधैस्ततः ।
अनेककौतुकभरैर्मनसः परिमोहनम् ६।
तत्र दृष्टं मया तात अपूर्वं मानसांतिके ।
बहुहंसैः समाकीर्णो हंस एकः समागतः ७।
एवं कृष्णा महाभाग अन्ये तत्र समागताः ।
सितेतरैश्चंचुपादैरन्यतः शुक्लविग्रहाः ८।
तादृशास्ते च नीला वै अन्ये शुभ्रा महामते ।
चतस्रस्तत्र वै नार्यो रौद्राकारा विभीषणाः ९।
दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः ।
पश्चात्तास्तु समायातास्तस्मिन्सरसि मानसे १०।
कृष्णा हंसास्तु संस्नाता मानसे तात मत्पुरः ।
विभ्रांताः परितश्चान्ये न स्नातास्तत्र मानसे ११।
जहसुस्ताः स्त्रियस्तात हास्यैरट्टाट्टदारुणैः ।
तस्मात्सराद्विनिष्क्रांतो हंस एको महातनुः १२।
पश्चात्त्रयो विनिष्क्रांतास्तैश्चाहं समुपेक्षितः ।
याता आकाशमार्गेण विवदंतः परस्परम् १३।
तास्तु स्त्रियो महाभीमाः समंतात्परिबभ्रमुः ।
विंध्यस्य शिखरे पुण्ये वृक्षच्छायासुपक्षिणः १४।
निषण्णास्तत्र ते सर्वे दग्धा दुःखैः सुदारुणैः ।
तेषां सुवीक्षमाणानां भिल्ल एकः समागतः १५।
मृगान्स पीडयित्वा तु बाणपाणिर्धनुर्द्धरः ।
शिलातलं समाश्रित्य निषसाद सुखेन वै १६।
पश्चाद्भिल्ली समायाता अन्नमादाय सोदकम् ।
स्वं प्रियं वीक्षते राज्ञा मुदितैर्लक्षणैर्युतम् १७।
अन्यादृशं समावीक्ष्य स्वकांतं तेजसावृतम् ।
दिव्यतेजः समाक्रांतं यथा सूर्यं दिविस्थितम् १८।
नरमन्यं परिज्ञाय तं परित्यज्य सा ययौ ।
व्याध उवाच-
एह्येहि त्वं प्रिये चात्र कस्मान्मां त्वं न पश्यसि १९।
क्षुधया पीड्यमानोहं त्वामहं चावलोकये ।
तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता २०।
भर्तुः पार्श्वं समासाद्य विस्मिता साभवत्तदा ।
कोयं तेजः समाचारो देवोयं मां समाह्वयेत् २१।
तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम् ।
अत्र किं ते कृतं वीर भवान्को दिव्यलक्षणः २२।
सूत उवाच-
एवमाभाषितो व्याध्या व्याधः प्रियामभाषत ।
अहं ते वल्लभः कांते भवती च मम प्रिया २३।
कस्मात्त्वं मां न जानासि कथं शंका प्रवर्तते ।
क्षुधया पीड्यमानेन पयश्चान्नं प्रतीक्ष्यते २४।
व्याध्युवाच-
बर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकंचुकः ।
ईदृशश्चास्ति मे भर्ता सर्वसत्वभयंकरः २५।
भवान्को दिव्यदेहस्तु प्रियेत्युक्त्वा समाह्वयेत् ।
एष मे संशयो जातो वद सत्यं ममाग्रतः २६।
कुलं नाम स्वकं ग्रामं क्रीडां लिगं सुतं सुताम् ।
समाचष्ट प्रियाग्रे तु तस्याः प्रत्यय हेतवे २७।
प्रत्युवाच स्वभर्तारं सा व्याधी हृष्टमानसा ।
कस्मात्ते ईदृशः कायः श्वेतकंचुकधारकः २८।
कथं जातः समाचक्ष्व ममाश्चर्यं प्रवर्तते ।
एवं संपृच्छमानस्तु भार्यया मृगघातकः २९।
सूत उवाच-
प्रत्युवाच ततः श्रुत्वा तां प्रियां प्रश्रयान्विताम् ।
नर्मदा उत्तरे कूले संगमश्चास्ति सुव्रते ३०।
आतपेनाकुलो जीवो मम जातोति सुप्रिये ।
अस्मिन्वै संगमे कांते श्रमश्रांतो हि सत्वरः ३१।
गतः स्नात्वा जलं पीत्वा पश्चाच्चाहं समागतः ।
तदाप्रभृति मे काय ईदृशस्तेजसावृतः ३२।
संजातो वस्त्रसंयुक्तः कंचुकः शुभ्रतां गतः ।
पूर्वोक्तलिंगसंस्थानैः कुलैः स्थानेन वै तथा ३३।
स्वप्रियं लक्षयित्वा तु ज्ञात्वा पुण्यस्य संभवम् ।
प्रत्युवाचाथ भर्तारं संगमं मम दर्शय ३४।
तव पश्चात्प्रदास्यामि भोजनं पानसंयुतम् ।
इत्युक्तः प्रियया व्याधः सत्वरेण जगाम ह ३५।
संगमो दर्शितस्तेन ततोग्रे पापनाशनः ।
समुड्डीना महाभाग पक्षिणो लघुविक्रमाः ३६।
तया सार्द्धं ययुः सर्वे रेवासंगममुत्तमम् ।
तेषां तु वीक्षमाणानां पक्षिणां मम पश्यतः ३७।
तया हि स्नापितो भर्ता पुनः स्नाता हि सा स्वयम् ।
दिव्यदेहधरौ चोभौ दिव्यकांतिसमन्वितौ ३८।
संजातौ पक्षिणां श्रेष्ठ दिव्यवस्त्रानुलेपनौ ।
दिव्यमालांबरधरौ दिव्यगंधानुलेपनौ ३९।
वैष्णवं यानमासाद्य मुनिगंधर्वपूजितौ ।
गतौ तौ वैष्णवं लोकं वैष्णवैः परिपूजितौ ४०।
स्तूयमानौ महात्मानौ दंपती दृष्टवानहम् ।
व्रजंतौ स्वर्गमार्गेण कूजंते पक्षिणस्तथा ४१।
तीर्थराजं परं दृष्ट्वा हर्षव्यक्ताक्षरैस्तदा ।
चत्वारः कृष्णहंसास्ते संगमे पापनाशने ४२।
स्नात्वा वै भावशुद्धास्ते प्राप्ता उज्ज्वलतां पुनः ।
स्नात्वा पीत्वा जलं ते तु पुनर्बहिर्विनिर्गताः ४३।
तावत्यस्ताः स्त्रियः कृष्णा मृतास्तत्स्नानमात्रतः ।
क्रंदमाना विचेष्टंत्यो हाहाकार विकंपिताः ४४।
यमलोकं गतास्तास्तु तात दृष्टा मया तदा ।
उड्डीनास्तु ततो हंसाः स्वस्थानं प्रतिजग्मिरे ४५।
एवं तात मया दृष्टं प्रत्यक्षं कथितं तव ।
कृष्णपक्षा महाकाया धार्तराष्ट्रास्तु ताः स्त्रियः ४६।
कथयस्व प्रसादेन के भविष्यंति वै पितः ।
निर्गतान्मानसान्मध्याद्धार्तराष्ट्रान्वदस्व मे ४७।
के भविष्यंति ते तात कथय त्वं तु सांप्रतम् ।
कस्मात्सुकृष्णतां प्राप्ता हंसाः शुद्धाश्च ते पुनः ४८।
संजातास्तत्क्षणात्तात कस्मान्मृतास्तु ताः स्त्रियः ।
एवं मे संशयस्तात संजातो दारुणो हृदि ४९।
छेत्तुमर्हसि अद्यैव भवाञ्ज्ञानविचक्षणः ।
प्रसादसुमुखो भूत्वा प्रणतस्य सदैव मे ५०।
एवं संभाष्य पितरं विरराम समुज्ज्वलः ।
ततः प्रवक्तुमारेभे स शुकः कुंजलाभिधः ५१।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थवर्णने च्यवनचरित्रे एकोननवतितमोऽध्यायः ८९।