पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०५

← अध्यायः १०४ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०५
अज्ञातलेखकः
अध्यायः १०६ →

कुञ्जल उवाच-
गता सा नन्दनवनं सखीभिः सह क्रीडितुम्।
तत्राकर्ण्य महद्वाक्यमप्रियं तु तदा पितुः।१।
चारणानां सुसिद्धानां भाषतां हर्षणेन तु।
आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः।२।
भविष्यति सुतश्रेष्ठो हुण्डस्यांतं करिष्यति ।
एवंविधं महद्वाक्यमप्रियं दुःखदायकम् ।३।
समाकर्ण्य समायाता पितुरग्रे निवेदितम् ।
समासेन तया तस्य पुरतो दुःखदायकम् ।४।
पितुरग्रे जगादाथ पिता श्रुत्वा स विस्मितः ।
शापमशोकसुंदर्याः सस्मार च पुराकृतम् ।५।
एतस्यार्थे तपस्तेपे सेयं चाशोकसुंदरी ।
गर्भस्य नाशनायैव इंदुमत्याः स दानवः ।६।
विचक्रे उद्यमं दुष्टः कालाकृष्टो दुरात्मवान् ।
छिद्रान्वेषी ततो भूत्वा इंदुमत्यास्तु नित्यशः ।७।
यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम् ।
दिव्यतेजः समायुक्तां रक्षितां विष्णुतेजसा ।८।
दिव्येन तेजसा युक्तां सूर्यबिंबोपमां तु ताम् ।
तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा ।९।
दूरात्स दानवो दुष्टस्तस्याश्च बहुदर्शयन् ।
नानाविद्यां महोग्रां च भीषिकां सुविभीषिकाम् ।१०।
गर्भस्य तेजसा युक्ता रक्षिता विष्णुतेजसा ।
भयं न जायते तस्या मनस्येव कदापुनः ।११।
विफलो दानवो जात उद्यमश्च निरर्थकः ।
मनीप्सितं नैव जातं हुंडस्यापि दुरात्मनः ।१२।
एवं वर्षशतं पूर्णं पश्यमानस्य तस्य च ।
प्रसूता सा हि पुत्रं च स्वर्भानोस्तनया तदा ।१३।
रात्रावेव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत ।
तेजसातीव भात्येष यथा सूर्यो नभस्तले ।१४।
सूत उवाच-
अथ दासी महादुष्टा काचित्सूतिगृहागता ।
अशौचाचारसंयुक्ता महामंगलवादिनी।१५।
तस्याः सर्वं समाज्ञाय स हुंडो दानवाधमः ।
दास्या अंगं प्रविश्यैव प्रविष्टश्चायुमन्दिरे ।१६।
महाजने प्रसुप्ते च निद्रयातीवमोहिते ।
तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ।१७।
कांचनाख्यपुरे प्राप्तः स्वकीये दानवाधमः ।
समाहूय प्रियां भार्यां विपुलां वाक्यमब्रवीत् ।१८।
वधस्वैनं महापापं बालरूपं रिपुं मम ।
पश्चात्सूदस्य वै हस्ते भोजनार्थं प्रदीयताम् ।१९।
नानाभेदैर्विभेदैश्च पाचयस्व हि निर्घृणम् ।
सूदहस्तान्महाभागे पश्चाद्भोक्ष्ये न संशयः ।२०।
वाक्यमाकर्ण्य तद्भर्तुर्विपुला विस्मिताभवत् ।
कस्मान्निर्घृणतां याति भर्त्ता मम सुनिष्ठुरः ।२१।
सर्वलक्षणसंपन्नं देवगर्भोपमं सुतम् ।
कस्य कस्मात्प्रभक्ष्येत क्षमाहीनः सुनिर्घृणः ।२२।
इत्येवं चिंतयामास कारुण्येन समन्विता ।
पुनः पप्रच्छ भर्तारं कस्माद्भक्ष्यसि बालकम्।२३।
कस्माद्भवसि संक्रुद्धो अतीव निरपत्रपः ।
सर्वं मे कारणं ब्रूहि तत्त्वेन दनुजेश्वर।२४।
आत्मदोषं च वृत्तांतं समासेन निवेदितम् ।
शापमशोकसुंदर्या हुंडेनापि दुरात्मना।२५।
तया ज्ञातं तु तत्सर्वं कारणं दानवस्य वै ।
वध्योऽयं बालकः सत्यं नो वा भर्त्ता मरिष्यति ।२६।
इत्येवं प्रविचार्यैव विपुला क्रोधमूर्च्छिता ।
मेकलां तु समाहूय सैरंध्रीं वाक्यमब्रवीत्।२७।
जह्येनं बालकं दुष्टं मेकलेऽद्य महानसे ।
सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे।२८।
मेकला बालकं गृह्य सूदमाहूय चाब्रवीत् ।
राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ।२९।
एवमाकर्णितं तेन सूदेनापि महात्मना ।
आदाय बालकं हस्ताच्छस्त्रमुद्यम्य चोद्यतः ।३०।
एष वै देवदेवस्य दत्तात्रेयस्य तेजसा ।
रक्षितस्त्वायुपुत्रश्च स जहास पुनः पुनः ।३१।
हसंतं तं समालोक्य स सूदः कृपयान्वितः ।
सैरंध्री च कृपायुक्ता सूदं तं प्रत्यभाषत ।३२।
नैष वध्यस्त्वया सूद शिशुरेव महामते ।
दिव्यलक्षणसंपन्नः कस्य जातः सुसत्कुले ।३३।
सूद उवाच-
सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयान्वितम् ।
राजलक्षणसंपन्नो रूपवान्कस्य बालकः ।३४।
कस्माद्भोक्ष्यति दुष्टात्मा हुंडोऽयं दानवाधमः ।
येन वै रक्षितो वंशः पूर्वमेव सुकर्मणा ।३५।
आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत् ।
सिंधुवेगेन नीतस्तु वह्निमध्ये गतोऽथवा ।३६।
जीवतेनात्र संदेहो यश्च कर्मसहायवान् ।
तस्माद्धि क्रियते कर्म धर्मपुण्यसमन्वितम् ।३७।
आयुष्मंतो नरास्तेन प्रवदंति सुखं ततः ।
तारकं पालकं कर्म रक्षते जाग्रते हि तत् ।३८।
मुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम् ।
दानपुण्यान्वितं कर्म प्रियवाक्यसमन्वितम् ।३९।
उपकारयुतं यश्च करोति शुभकृत्तदा ।
तमेव रक्षते कर्म सर्वदैव न संशयः ।४०।
अन्ययोनिं प्रयाति स्म प्रेरितः स्वेन कर्मणा ।
किं करोति पिता माता अन्ये स्वजनबान्धवाः ।४१।
कर्मणा निहतो यस्तु न स्युस्तस्य च रक्षणे ।
सूत उवाच-
येनैव कर्मणा चैव रक्षितश्चायुनंदनः ।४२।
तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः ।
सैरंध्री च तथा जाता प्रेरिता तस्य कर्मणा ।४३।
द्वाभ्यामेव सुतश्चायो रक्षितश्चारुलक्षणः ।
रात्रावेव प्रणीतोऽसौ तस्माद्गेहान्महाश्रमे ।४४।
वशिष्ठस्याश्रमे पुण्ये सैरंध्र्या पुण्यकर्मणा ।
शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ।४५।
गता सा स्वगृहं पश्चान्निक्षिप्य बालकोत्तमम् ।
एणं निपात्य सूदेन पाचितं मांसमेव हि ।४६।
भोजयित्वा सुदैत्येंद्रो हुंडो हृष्टोभवत्तदा ।
शापमशोकसुंदर्या मोघं मेने तदासुरः ।४७।
हर्षेण महताविष्टः स हुंडो दानवेश्वरः ।
कुंजल उवाच-
प्रभाते विमले जाते वशिष्ठो मुनिसत्तमः ।४८।
बहिर्गतो हि धर्मात्मा कुटीद्वारात्प्रपश्यति ।
संपूर्णं बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् ।४९।
संपूर्णेंदुप्रतीकाशं सुंदरं चारुलोचनम् ।
वशिष्ठ उवाच-
पश्यंतु मुनयः सर्वे यूयमागत्य बालकम् ।५०।
कस्य केन समानीतं रात्रौ द्वारांगणे मम ।
देवगंधर्वगर्भाभं राजलक्षणसंयुतम् ।५१।
कंदर्पकोटिसंकाशं पश्यंतु मुनयोऽमलम् ।
महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः।५२।
समपश्यन्सुतं ते तु आयोश्चैव महात्मनः ।
वशिष्ठः स तु धर्मात्मा ज्ञानेनालोक्य बालकम्।५३।
आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम् ।
वृत्तांतं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः।५४।
कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम् ।
कराभ्यामथ गृह्णाति यावद्द्विजो वरोत्तमः।५५।
तावत्पुष्पसुवृष्टिं च चक्रुर्देवाः सुतोपरि ।
ललितं सुस्वरं गीतं जगुर्गंधर्वकिन्नराः।५६।
ऋषयो वेदमंत्रैस्तु स्तुवंति नृपनंदनम् ।
वशिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा।५७।
नहुषेत्येव ते नाम ख्यातं लोके भविष्यति ।
हुषितो नैव तेनापि बालभावैर्नराधिप ।५८।
तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि।
जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः।५९।
व्रतदानं विसर्गं च गुरुशिष्यादिलक्षणम्।
वेदं चाधीत्य संपूर्णं षडंगं सपदक्रमम्।६०।
सर्वाण्येव च शास्त्राणि अधीत्य द्विजसत्तमात्।
वशिष्ठाच्च धनुर्वेदं सरहस्यं महामतिः।६१।
शस्त्राण्यस्त्राणि दिव्यानि ग्राहमोक्षयुतानि च।
ज्ञानशास्त्रादिकं न्याय राजनीतिगुणादिकान्।६२।
वशिष्ठादायुपुत्रश्च शिष्यरूपेण भक्तिमान्।
एवं स सर्वनिष्पन्नो नाहुषश्चातिसुंदरः।६३।
वशिष्ठस्य प्रसादाच्च चापबाणधरोभवत्।६४।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे पंचोत्तरशततमोऽध्यायः ।१०५।