पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६२
← अध्यायः ०६१ | पद्मपुराणम् अध्यायः ०६२ वेदव्यासः |
अध्यायः ०६३ → |
युधिष्ठिर उवाच -
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।
सर्वपापहरं विष्णोः फलदं व्रतिनां च यत् १।
पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन ।
को विधिः किं फलं तस्य को देवस्तत्र पूज्यते २।
अधिमासे च संप्राप्ते व्रतं ब्रूहि जनार्दन ।
कस्य दानस्य किं पुण्यं किं कर्त्तव्यं नृभिः प्रभो ३।
कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतः ।
किं भोज्यमुत्तमं चान्नं मासेऽस्मिन्पुरुषोत्तमे ४।
श्रीकृष्ण उवाच-
कथयिष्यामि राजेंद्र भवतः स्नेहकारणात् ।
पुरुषोत्तममासस्य माहात्म्यं पापनाशनम् ५।
अधिमासे तु संप्राप्ते भवेदेकादशी तु या ।
कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः ६।
तस्या व्रतप्रभावेन कमलाभिमुखी भवेत् ।
ब्राह्मे मुहूर्त्ते चोत्थाय संस्मृत्य पुरुषोत्तमम् ७।
स्नात्वा चैव विधानेन नियमं कारयेद्व्रती ।
गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ८।
गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम् ।
शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ ९।
लक्षं तुलस्याः सांनिध्ये ह्यनंतं विष्णुसन्निधौ ।
अवंत्यामभवत्कश्चिच्छिवशर्मा द्विजोत्तमः १०।
तस्यात्मजास्तु पंचासन्कनिष्ठो दोषवानभूत् ।
तदा पित्रा परित्यक्तस्त्यक्तः स्वजनबांधवैः ११।
कुकर्मणः प्रभावेन गतो दूरतरं वनम् ।
एकदा दैवयोगेन तीर्थराजं समागतः १२।
क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत् ।
मुनीनामाश्रमांस्तत्र विचिन्वन्क्षुधयार्दितः१३।
हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमम् ।
पुरुषोत्तममासे वै जनानां च समागमे १४।
तत्राश्रमे कथयतां कथां कल्मषनाशिनीम् ।
ब्राह्मणानां मुखात्तेन श्रद्धया कमला श्रुता १५।
एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी ।
जयशर्मा विधानेन श्रुत्वेमां कमला तिथिम् १६।
एकादशीपुण्यतमा भुक्तिमुक्तिप्रदायिनी ।
व्रतं कृतं च तैः सार्द्धं स्थित्वा शून्यालये तदा १७।
निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागता ।
वरं ददामि भो विप्र कमलायाः प्रभावतः १८।
जयशर्मोवाच -
का त्वं कस्यासि रंभोरु प्रसन्ना च कथं मम ।
इंद्राणी सुरनाथस्य भवानी शंकरस्य वा १९।
गंधर्वी किन्नरी वाथ वधूर्वा चंद्रसूर्ययोः ।
त्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने २०।
लक्ष्मीरुवाच-
प्रसन्ना सांप्रतं जाता वैकुंठादहमागता ।
प्रेरिता देवदेवेन कमलायाः प्रभावतः २१।
पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत् ।
तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसंनिधौ २२।
व्रतस्यास्य प्रभावेन वशगाहं न संशयः ।
तववंशे भविष्यंति मानवा द्विजसत्तम २३।
मत्प्रसादादवाप्स्यंति सत्यं ते व्याहृतं मया ।
ब्राह्मण उवाच-
प्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद २४।
यत्कथासु प्रवर्तंते साधवो ये जना द्विजाः ।
लक्ष्मीरुवाच-
श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम् २५।
दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः ।
उत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव वा २६।
पठित्वा मुच्यते सद्यो महापातककोटिभिः ।
मासानां परमो मासः पक्षिणां गरुडो यथा २७।
नदीनां च यथा गंगा तिथीनां द्वादशी तिथिः ।
अद्यापि निर्जराः सर्वे भारते जन्मलिप्सवः २८।
तमर्चयंति विविधा नारायणमनामयम् ।
ये यजंति सदा भक्त्या देवं नारायणं प्रभुम् २९।
तानर्चयंति सततं ब्रह्माद्या देवतागणाः ।
येऽपि नामपरा ये च हरिकीर्त्तनतत्पराः ३०।
हरिपूजापरा ये च ते कृतार्थाः कलौ युगेः ।
शुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम् ३१।
गृहस्थानां भवेत्पूर्वा यतीनामुत्तरा स्मृता ।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ३२।
एकादश्यां निराहारः स्थित्वाहमपरेऽहंनि ।
भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाच्युत ३३।
अमुं मंत्रं समुच्चार्य देवदेवस्य चक्रिणः ।
भक्तिभावेन तुष्टात्मा उपवासं समाचरेत् ३४।
कुर्याद्देवस्य पुरतो जागरं नियतो व्रती ।
गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ३५।
ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती ।
स्नात्वा विष्णुं समभ्यर्च्य विधिवत्प्रयतेंद्रियः ३६।
पंचामृतेन संस्नाप्य एकादश्यां जनार्दनः ।
द्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते ३७।
अज्ञानतिमिरांधस्य व्रतेनानेन केशव ।
प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव ३८।
एवं विज्ञाप्य देवेशं देवदेवं गदाधरम् ।
ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ३९।
ततः स्वबंधुभिः सार्द्धं नारायणपरायणः ।
कृत्वा पंचमहायज्ञान्स्वयं भुंजीत वाग्यतः ४०।
एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम् ।
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् ४१।
इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे ।
सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः ४२।
श्रीकृष्ण उवाच-
एवं यः कुरुते राजन्कमलाव्रतमुत्तमम् ।
शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते ४३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशीनाम द्विषष्टिमोऽध्यायः ६२।