← अध्यायः ०९१ पद्मपुराणम्
अध्यायः ०९२
वेदव्यासः
अध्यायः ०९३ →

पृथुरुवाच-
महाफलं त्वया प्रोक्तं मुने कार्त्तिकमाघयोः
तयोः स्नानविधिं सम्यङ्नियमानपि नारद
उद्यापनविधिं चैवं यथावद्वक्तुमर्हसि १
नारद उवाच-
त्वं विष्णोरंशसंजातो नाज्ञातं विद्यते तव
तथापि वदतः सम्यङ्माहात्म्यं शृणु वेनज २
आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत्
कार्तिकव्रतनियमं तस्यां कुर्यादतंद्रितः ३
रात्र्यां तुर्यांशशेषायां मुदो तिष्ठत्सदा व्रती
नैरृत्यां संव्रजेद्वासाद्बहिः सोदकभाजनः ४
दिवासंध्या सुकर्णस्थ ब्रह्मसूत्र उदङ्मुखः
अंतर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा ५
वक्त्रं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ६
गृहीतशिश्नश्चोत्थाय गृहीत्वा शुचिमृत्तिकाम्
गंधलेपक्षयकरं शौचं कुर्यादतंद्रितः ७
एका लिंगे गुदे पंच तथा वामकरे दश
उभयोः सप्त दातव्यास्तथा तिस्रस्तु पादयोः ८
एतद्द्वि त्रिगुणं प्रोक्तं ब्रह्मचारि वनस्थयोः
यतेश्चतुर्गुणं रात्रौ तदर्द्धं शौचमाचरेत् ९
तदर्द्धमपि मार्गस्थः स्त्रीशूद्राणां तदर्द्धकम्
शौचकर्मविहीनस्य सकला निष्फलाः क्रियाः १०
मुखशुद्धिविहीनस्य नो मंत्राः फलदाः स्मृताः
दंत जिह्वा विशुद्धिं च ततः कुर्यात्प्रयत्नतः ११
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च
ब्रह्म प्रज्ञां च मेधां च त्वन्नो देहि वनस्पते १२
इति मंत्रं समुच्चार्य द्वादशांगुलकं सदा
समिधा क्षीरवृक्षास्य क्षयाहोपोषणं विना १३
प्रतिपद्दर्श नवमी षष्ठीश्चार्कदिनं विना
चंद्रसूर्योपरागे च न कुर्याद्दंतधावनम् १४
कंटकीवृक्षकार्पास निर्गुंडी ब्रह्मवृक्षजम्
बिल्वैरंडविगंधाढ्यं वर्जयेद्दंतधावनम् १५
ततो विष्णोः शिवस्यापि गृहं गच्छेत्प्रसन्नधीः
गंधपुष्पसुतांबूलान्गृहीत्वा भक्तितत्परः १६
तत्र देवस्य पाद्यार्घाद्युपचारान्पृथक्पृथक्
कृत्वा स्तुत्वा पुनर्नत्वा कुर्याद्गीतादिमंगलम् १७
तालवेणुमृदंगादि ध्वनियुक्तान्सनृत्तकान्
पुष्पैर्गंधैः सतांबूलैर्गायनानपि चार्चयेत् १८
देवालये गानपरा यतस्ते विष्णुमूर्त्तयः
तपांसि यज्ञदानानि कृतानि च जगद्गुरोः १९
तुष्टिदानि कलौ नित्यं भक्त्या देवस्य सत्पतेः
क्व त्वं वससि देवेश मया पृष्टस्तु पार्थिव २०
विष्णुरेवं तदा प्राह मद्भक्तिपरितोषितः
नाहं वसामि वैकुंठे योगिनां हृदये न च २१
मद्भक्ता यत्र गायंति तत्र तिष्ठामि नारद
सत्पुराणकथां श्रुत्वा मद्भक्तानां च गायनम् २२
नेच्छंति ये नरा मूढा मद्द्वेष्यास्ते भवंति हि
तेषां पूजादिकं गंधपुष्पादि क्रयते नरैः२३
तेन प्रीतिं तथा यामि न तथा मत्प्रपूजनात्
शिरीषोन्मत्तगिरिजा मल्लिका शाल्मलीभवैः २४
अर्कजैः कर्णिकारैश्च विष्णुर्नार्च्यस्तथाक्षतैः
जपा कुंद शिरीषैश्च यूथिका मालती भवैः २५
केतकीभव पुष्पैश्च नैवार्च्यः शंकरस्तथा
गणेशं तुलसीपत्रैर्दुर्गां नैव च दूर्वया २६
मुनिपुष्पैस्तथा सूर्यं लक्ष्मीकामो न चार्चयेत्
सुगंधीनि प्रशस्तानि पूजायां सर्वदैव तु २७
एवं पूजाविधिं कृत्वा देवदेवं क्षमापयेत्
मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर २८
यत्पूजितं मया देव परिपूर्णं तदस्तु मे
ततःप्रदक्षिणंकृत्वादंडवत्प्रणिपत्यच २९
पुनःक्षमापयेद्देवंगायनाद्यंक्षमापयेत्
विष्णोः शिवस्यापि च पूजनादिकं कुर्वंति सम्यङ्निशि कार्तिके ये
निर्धूतपापाः सह पूर्वजैस्ते प्रयांति विष्णोर्भवनं मनुष्याः ३०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनं नाम द्विनवतितमोऽध्यायः ९२