बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५० (चरादिदशाफलाध्यायः)
← अध्यायः ४९ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५१ → |
अथ चरादिदशाफलाध्यायः ||५०|| चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज | शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ||१|| लग्नादिद्वादशान्तानां भावानां फलकीर्तने | तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ||२|| बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् | फलं मध्य्बले मध्यं बलहीने विपर्ययः ||३|| यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके | पापखेटयुते विप्र तद्दशा दुःखदायिका ||४|| तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः | शुभखेटयुते तत्र जायते च पराजयः ||५|| लाभस्थे च शुभे पापे लाभो भवति निश्चितः | यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ||६|| शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् | पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ||७|| पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् | पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ||८|| शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ||९|| पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते | शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ||१०|| द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् | पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ||११|| चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे | धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ||१२|| विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् | पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ||१३|| सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता | चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ||१४|| दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् | पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ||१५|| उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् | केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ||१६|| जन्मकालग्रहस्थित्या सगोचगग्रहैरपि | विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ||१७|| यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः | तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ||१८|| त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् | तद्दशायां च वक्तव्यं फलं दैवविदा सदा ||१९|| मेषकर्कतुलानक्रराशीनां च यथाक्रमम् | बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ||२०|| पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे | स्थिते सति महाशोको बन्धनव्यसनामयाः ||२१|| उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः | तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ||२२|| बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् | प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ||२३|| रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि | तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ||२४|| भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि | तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ||२५|| भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे | यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ||२६|| नगरग्रामनाथत्वं पुत्रलाभं धनागमम् | कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ||२७|| पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि | तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ||२८|| सितासितभयुग्माश्च सूर्यस्य रिपुराशयः | कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ||२९|| घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् | कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ||३०|| वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः | सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ||३१|| मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः | एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ||३२|| ये राजयोगदा ये च शुभमध्यमता ग्रहाः | यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ||३३|| तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् | शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ||३४|| गता शुभदशामध्यं दशा सौम्यस्य शोभना | शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ||३५|| आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् | प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ||३६|| आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् | शुभराशौ शुभारम्भे दशा स्यादतिशोभना ||३७|| शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता | शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ||३८|| आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज | नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ||३९|| यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः | तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ||४०|| भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम | धनधान्यादिहानिश्च देहे रोगभयं तथा ||४१|| राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् | स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ||४२|| यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः | यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ||४३|| शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः | दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ||४४|| इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम | दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ||४५|| राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने | दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ||४६|| तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् | एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ||४७|| राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः | तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ||४८|| द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् | तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ||४९|| यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् | गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ||५०|| चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् | भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ||५१|| चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः | दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ||५२|| एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् | यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ||५३|| तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते | यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ||५४|| तद्भावस्य दशायास्तु विपरीतफलं भवेत् | सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ||५५|| यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः | स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ||५६|| यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति | स्यातद्भावदशाकाले धनलाभो महत्तरः ||५७|| यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः | यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ||५८|| पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् | यस्मात्त्रिकोण्गा रिःफरन्ध्रेशार्कारसूर्यजाः ||५९|| पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे | विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ||६०|| तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः | रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ||६१|| यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् | पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ||६२|| शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् | सर्वस्वहरणं राहौ विषचौरादिजं भयम् ||६३|| यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् | यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ||६४|| विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः | यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ||६५|| पुत्रदारादिसंप्राप्तिर्नृपपूजा मह्त्तरा | यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ||६६|| तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः | यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ||६७|| कल्याणं सर्वसंपत्तिर् देवब्राह्मणतर्पनम् | यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ||६८|| वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी | तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ||६९|| पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् | तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ||७०|| आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् | लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ||७१|| सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् | एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ||७२|| एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि | भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ||७३|| परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि | मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ||७४|| तत्कालसुहृदो गेहे उदासीनस्य भे तथा | शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ||७५|| तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके | नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ||७६|| व्यवस्थितस्य खेटस्य समरे पीडितस्य च | गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ||७७|| परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः | सम्पूर्णाख्या दशा तस्य राज्यभोओग्यशुभप्रदा ||७८|| लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा | तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ||७९|| पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा | अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ||८०|| रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा | अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ||८१|| मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा | नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ||८२|| दशा चारोहिणी नीचरिपुभांशगतस्य च | अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ||८३|| नामानुरूपफलदाः पाककाले दशा इमाः | भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ||८४|| परेषामपि दायेषु भग्योपक्रममुन्नयेत् | जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ||८५|| सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् | दुर्बलानसमर्थांश्च फलदानेषु यागतः ||८६|| तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः | स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ||८७|| शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः | उभयोदयराशिस्थदशा मध्यफलप्रदा ||८८|| पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः | निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ||८९|| सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् | दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ||९०|| भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् | एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ||९१|| तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् | दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ||९२|| तस्यामनर्थकलहं रोगमृत्युभयादिकम् | बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ||९३|| वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् | भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ||९४|| धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः | शुभपापनशाभेदाच्छुभपापयुतैरपि ||९५|| इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् | एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ||९६|| स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् | अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ||९७|| -