बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५७ (शन्यन्तर्दशाफलाध्यायः)
← अध्यायः ५६ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५८ → |
अथ शन्यन्तर्दशाफलाध्यायः ||५७|| मूलत्रिकोणे स्वर्क्षे वा तुलायामुच्चगेऽपि वा | केन्द्रत्रिकोणलाभे वा राजयोगादिसंयुते ||१|| राज्यलाभो महत्सौख्यं दारपुत्रादिवर्धनम् | वाहनत्रयसंयुक्तं गजाश्वाम्बरसङ्कुलम् ||२|| महाराजप्रसादेन सेनापत्यादिलाभकृत् | चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ||३|| तथाऽष्टमे व्यये मन्दे नीचे वा पापसंयुते | तद्भुक्त्यादौ राजभीतिर्विषशस्त्रादिपीडनम् ||४|| रक्तस्त्रावो गुल्मरोगो ह्यतिमारादिपीडनम् | मध्ये चौरादि भीतिश्च देशत्यागो मनोरुजः ||५|| अन्ते शुभकरी चैव शनेरन्तर्दशा द्विज | द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ||६|| तद्दोषपरिहारार्थं म्र्ट्युञ्जयजपं चरेत् | ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ||७|| मन्दस्यान्तर्गते सौम्ये त्रिकोणे केन्द्रगेऽपि वा | सम्मानं च यशः कीर्तिं विद्यालाभं धनागमम् ||८|| स्वदेशे सुखमाप्नोति वाहनादिफलैर्युतम् | यज्ञादिकर्मसिद्धिश्च राजयोगादिसम्भवम् ||९|| देहसौख्यं हृदुत्साहं गृहे कल्याणसम्भवम् | सेतुस्नानफलावाप्तिस्तीर्थयात्रादिकर्मणा ||१०|| वाणिज्याद्धनलाभश्च पुराणश्रवणादिकम् | अन्नदानफलं चैव नित्यं मिष्ठान्नभोजनम् ||११|| षष्ठाष्टमव्यये सौम्ये नीचे वास्तंगते सति | रव्यारफणिसंयुक्ते दायेशाद्वा तथैव च ||१२|| नृपाभिषेकमर्थाप्तिर्देशग्रामाधिपत्यता | फलमीदृशमादौ तु मध्यान्ते रोगपीडनम् ||१३|| नष्टानि सर्वकार्याणि व्याकुलत्वं महद्भयम् | द्वितीयसप्तमाधिशे देहबाधा भविष्यति ||१४|| तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् | अन्नदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ||१५|| मन्दस्यान्तर्गते केतौ शुभदृष्टियुतेक्षिते | स्वोच्चे वा शुभराशिस्थे योगकारकसंयुते ||१६|| केन्द्रकोणगते वापि स्थानभ्रंशो महद्भयम् | दरिद्रबन्धनं भीतिः पुत्रदारादिनाशनम् ||१७|| स्वप्रभोश्च महाकष्टं विदेशगमनं तथा | लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः ||१८|| गङ्गादिसर्वतीर्भेषु स्नानं दैवतदर्शनम् | दायेशात्केन्द्रकोणे वा तृतीयभवराशिगे ||१९|| समर्थो धर्मबुद्धिश्च सौख्यं नृपसमागमः | तथाऽष्टमे व्यये केतौ दायेशाद्वा तथैव च ||२०|| अपमृत्युभयं चैव कुत्सितान्नस्य भोजनम् | शीतज्वरातिसारश्च व्रणचौरादिपीडनम् ||२१|| दारपुत्रवियोगश्च संसारे भवति ध्रुवम् | द्वितियद्यूनराशिस्थे देह पीडा भविष्यति ||२२|| छागदानं प्रकुर्वीत ह्यपमृत्युनिवारणम् | केतुग्रहप्रसादेन सुखशान्तिमवाप्नुयात् ||२३|| मन्दस्यान्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रगेऽपि वा | केन्द्रे वा शुभसंयुक्ते त्रिओकोणे लाभगेऽपि वा ||२४|| दारपुत्रधनप्राप्तिर्देहारोग्यं महोत्सवः | गृहे कल्याण्सम्पत्ति राज्यलाभं महत्सुखम् ||२५|| महाराजप्रसादेन हीष्टसिद्धिः सुखावहा | स्सम्मानं प्रभुसम्मानं प्रियवस्त्रादिलाभकृत् ||२६|| द्विपान्तराद्वस्त्रलाभः श्वेताश्वो महिषी तथा | गुरुचारवशाद्भाग्यं सौख्यं च धनसम्पदः ||२७|| शनिचारान्मनुष्योऽसौ योगमाप्नोत्यसंशयम् | शत्रुनीचास्तगे शुक्रे षष्ठाष्टमव्ययराशिगे ||२८|| दारनाशो मनःक्लेशः स्थाननाशो मनोरुजः | दारानां स्वजनक्लेशः सन्तापो जनविग्रहः ||२९|| दायेशाद्भाग्यगे चैव केन्द्रे वा लाभसंयुते | राजप्रीतिकरं चैव मनोऽभीष्टप्रदायकम् ||३०|| दानधर्मदयायुक्तं तीर्थयात्रादिकं फलम् | सास्र्तार्थकाव्यरचनां वेदान्तश्रवणादिकम् ||३१|| दारपुत्रादिसौख्यं च लभते नाऽत्र संशयः | दायेशाद्व्ययगे शुक्रे षष्ठे वा ह्यष्टमेऽपि वा ||३२|| नेत्रपीडा ज्वरभयं स्वकुलाचारवर्जितः | कपोले दन्तशूलादि हृदि गुह्ये च पीडनम् ||३३|| जलभीतिर्मनस्तापो वृक्षात्पतनसम्भवः | राजद्वारे जनद्वेषः सोधरेण विरोधनम् ||३४|| द्वितीयसप्तमाधीशे आत्मक्लेशो भविष्यति | तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ||३५|| श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धिदाम् | जगदम्बाप्रसादेन ततः सुखमवाप्नुयात् ||३६|| मन्दस्यान्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा | भाग्याधिपेन संयुक्ते केन्द्रलाभत्रिकोणगे ||३७|| शुभदृष्टियुते वापि स्वप्रभोश्च महत्सुखम् | गृहे कल्याणसम्पत्तिः पुत्रादिसुखवर्द्धनम् ||३८|| वाहनाम्बरपश्वादिगोक्षीरैस्संकुलं गृहम् | लग्नाष्टमव्यये सूर्ये दायेशाद्वा तथैव च ||३९|| हृद्रोगो मानहानिश्च स्थानभ्रंशो मनोरुजा | इष्ट्बन्धुवियोगश्च उद्योगस्य विनाशनम् ||४०|| तापज्वरादिपीडा च व्याकुलत्वं भयं तथा | आत्मसम्बन्धिमरणमिष्टवस्तुवियोगकृत् ||४१|| द्वितीयद्यूननाथे तु देहबाधा भविष्यति | तद्दोषपरिहारार्थं सूर्यपूजां च कारयेत् ||४२|| मन्दस्यान्तर्गते चन्द्रे जीवदृष्टिसमन्विते | स्वोच्चे स्वक्षेत्रकेन्द्रस्थे त्रिकोणे लाभगेऽपि वा ||४३|| पूर्णे शुभग्रहैर्युक्ते राजप्रीतिसमागमः | महाराजप्रसादेन वाहनाम्बरभूषणम् ||४४|| सौभाग्यं सुखवृद्धिं च भृत्यानां परिपालनम् | पितृमातृकुले सौख्यं पशुवृद्धिः सुखावहा ||४५|| क्षीणे वा पापसंयुक्ते पापदृष्टे वा नीचगे | क्रूरांशकगते वापि क्रूरक्षेत्रगतेऽपि वा ||४६|| जातकस्य महत्कष्टं राजकोपो धनक्षयः | पितृमातृवियोगश्च पुत्रीपुत्रादिरोगकृत् ||४७|| व्यवसायात्फलं नेष्टं नानामार्गे धनव्ययः | अकाले भोजनं चैव मौषधस्य च भक्षणम् ||४८|| फलमेतद्विजानीयादादौ सौख्यं धनागमः | दायेशात्केन्द्रराशिस्थे त्रिकोणे लाभगेऽपि वा ||४९|| वाहनाम्बरपश्वादिभ्रातृवृद्धिः सुखावहा | पितृमातृसुखावाप्तिः स्त्रीसौख्यं च धनागमः ||५०|| मित्रप्रभुवशादिष्टं सर्वसौख्यं शुभावहम् | दायेशाद्द्वादश भावे रन्ध्रे वा बलवर्जिते ||५१|| शयनं रोगमालस्यं स्थानभ्रष्टं सुखापहम् | शत्रुवृद्धिविरोधं च बन्धुद्वेषमवाप्नुयात् ||५२|| द्वितीयद्यूननाथे तु देहालस्य भविष्यति | तद्दोषशमनार्थं च तिलहोमादिकं चरेत् ||५३|| गुडं घृतं च दध्नाक्तं तण्डुलं च यथाविधि | श्वेतां गां महिषीं दद्यादायुरारोग्यवृद्धये ||५४|| मन्दस्यान्तर्गते भौमे केन्द्रलाभत्रिकोणगे | तुङ्गे स्वक्षेत्रगे वापि दशाधिपसमन्विते ||५५|| लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमः | राजप्रीतिकरं सौख्यं वाहनाम्बरभूषणम् ||५६|| सेनापत्यं नृपप्रीतिः कृषिगोधान्यसम्पदः | नूतनस्थाननिर्माणं भ्रातृवर्गेष्टसौख्यकृत् ||५७|| नीचे चास्तङ्गते भौमे लग्नादष्टव्ययस्थिते | पापदृष्टियुते वापि धनहानिर्भविष्यति ||५८|| चौराहिव्रणशस्त्रादिग्रन्थिरोगादिपीडनम् | भ्रातृपित्रादिपीडा च दायादजनविग्रहः ||५९|| चतुष्पाज्जीवहानिश्च कुत्सितान्नस्य भोजनम् | विदेशगमनं चैव नानमार्गे धनव्ययः ||६०|| अष्टमद्यूननाथे तु द्वितीयस्थेऽथ वा यदि | अपमृत्युभयं चैव नानाकष्टं पराभवः ||६१|| तद्दोषपरिहारार्थं शान्तिहोमं च कारयेत् | वृषदानं प्रकुर्वीत सर्वारिष्टनिवारणम् ||६२|| मन्दस्यान्तर्गते राहौ कलहश्च मनोव्यथा | देहपीडा मनस्तापः पुत्रद्वेषो रुजोभयम् ||६३|| अर्थव्ययो राजभयं स्वजनादिविरोधिता | विदेशगमनं चैव गृहक्षेत्रादिनाशनम् ||६४|| लग्नाधिपेन संयुक्ते योगकारकसंयुते | स्वोच्चे स्वक्षेत्रगे केन्द्रे दायेशाल्लाभराशिगे ||६५|| आदौ सौख्यं धनावाप्तिं गृहक्षेत्रादिसम्पदम् | देवब्राह्मणभक्तिं च तीर्थयात्रादिकं लभेत् ||६६|| चतुष्पाज्जीवलाभः स्याद्गृहे कल्याण्वर्द्धनम् | मध्ये तु राजभीतिश्च पुत्रमित्रविरोधनम् ||६७|| मेषे कन्यागते वापि कुलीरे वृषभे तथा | मीनकोदण्डसिंहेषु गजान्तैश्वर्यमादिशेत् ||६८|| राजसम्मनभूषाप्तिं मृदुलाभरसौख्यकृत् | द्विसप्तमाधिपैर्युक्ते देहबाधा भविष्यति ||६९|| मृत्युञ्जयं प्रकुर्वीत छागदानं च कारयेत् | वृषदानं प्रकुर्वीत सर्वसम्पत्सुखावहम् ||७०|| मन्दस्यान्तर्गते जीवे केन्द्रे लाभत्रिकोणगे | लग्नाधिपेन संयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ||७१|| सर्वकार्यार्थसिद्धिः स्याच्छोभनं भवति ध्रुवम् | महाराजप्रसादेन धनवाहनभूषणम् ||७२|| सन्मानं प्रभुसम्मानं प्रियवस्त्रार्थलाभकृत् | देवतागुरुभक्तिश्च विद्वज्जनसमागमः ||७३|| दारपुत्रादिलाभश्च पुत्रकल्याणवैभवम् | षष्ठाष्टमव्यये जीवे नीचे वा पापसंयुते ||७४|| निजसम्बन्धिमरणं धनधान्यविनाशनम् | राजस्थाने जनद्वेषः कर्यहानिर्भविष्यति ||७५|| विदेशगमनं चैव कुष्ठरोगादिसम्भवः | दायेशात्केन्द्रकोणे वा धने वा लाभगेऽपि वा ||७६|| विभवं दारसौभाग्यं राजश्रीधनसम्पदः | भोजनाम्बरसौख्यं च दानधर्मादिकं भवेत् ||७७|| ब्रह्मप्र्तिष्ठासिद्धिश्च क्रतुकर्मफलं तथा | अन्नदानं महाकीर्तिर्वेदान्तश्रवणादिकम् ||७८|| दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते | बन्धुद्वेषो मनोदुःखं कलहः पदविच्युति ||७९|| कुभोजनं कर्महानी राजदण्डाद्धनव्यय | कारागृहप्रवेशश्च पुत्रदारादिपीडनम् ||८०|| द्वितीयद्यूननाथे तु देहवाधा मनोरुजः | आत्मसम्बन्धमरणं भविष्यति न संशयः ||८१|| तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् | स्वर्णदानं प्र्कुर्वीत ह्यारोग्यं भवति ध्रुवम् ||८२|| -