बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८२ (तिलादिलांछनफलाध्यायः)

← अध्यायः ८१ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ८३ →

अथ तिलादिलांछनफलाध्यायः ॥ ८२॥


अथाऽहं देहजातानां लांछनानां फलं ब्रुवे ।
आवर्तानां तिलानां च मशकानां विशेषतः ॥ १॥

अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् ।
रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ २॥

तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् ।
यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ ३॥

सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् ।
रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥ ४॥

एक एव सुतस्तस्या भवतीत विदो विदुः ।
पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ॥ ५॥

भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् ।
कपोले मशको रक्तो नित्यं मिष्ठान्नदायकं ॥ ६॥

भगस्य दक्षिणे भागे लांछनं यदि योषितः ।
सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥ ७॥

नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते ।
कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ॥ ८॥

नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् ।
कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनं ॥ ९॥

प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा ।
तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् ॥ १०॥

त्रिशूलाकृति चिह्न च ललाटे यदि जायते ।
नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत् ॥ ११॥

लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ ।
दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः ॥ १२॥

कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः ।
उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥ १३॥

कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि ।
आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम ॥ १४॥

सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् ।
दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् ॥ १५॥