बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८१ (अंगलक्षणफलाध्यायः)

← अध्यायः ८० ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ८२ →

अथ अंगलक्षणफलाध्यायः ॥ ८१॥

बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् ।
श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने ॥ १॥

शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् ।
फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथा ॥ २॥

स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् ।
रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥ ३॥

विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा ।
सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदायकम् ॥ ४॥

शङ्खस्वस्तिकचक्राऽब्जध्वजमीनाऽतपत्रवत् ।
यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपाङ्गना ॥ ५॥

भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका ।
रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचिकाः ॥ ६॥

रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः ।
स्फुटिताअः कृष्णवर्णाश्च ज्ञेया अशुभसूचकाः ॥ ७॥

उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः ।
वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ॥ ८॥

मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः ।
दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ॥ ९॥

भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी ।
चिपटाभिर्भवेद्दासी विरलाभश्च निर्धना ॥ १०॥

यस्य मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि ।
बहुनपि पतीन् हित्वा परप्रेष्या च सा भवेत् ॥ ११॥

यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् ।
सा पांसुली बह्वेन्नारी कुलत्रयविघातिनी ॥ १२॥

यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् ।
सा हि पूर्वपतिं हत्वा द्वितीयं कुरुते पतिम् ॥ १३॥

मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् ।
पतिहीना च सा नारी विज्ञेया द्विजसत्तम ॥ १४॥

प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी ।
कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः ॥ १५॥

उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् ।
अस्वेदमशिराढ्यञ्च मांसलं मसृणं मृदु ॥ १६॥

अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा ।
रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर्भगा ॥ १७॥

सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा ।
कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता ॥ १८॥

अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले ।
विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्रुवम् ॥ १९॥

वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् ।
निर्मासं स्वैरचारिण्या निर्धनायाश्च विश्लथम् ॥ २०॥

घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ ।
यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् ॥ २१॥

चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा ।
चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः ।
समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् ॥ २२॥

विनता चिपटा दीर्घा निर्मांसा संकटा कटिः ।
ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचिका ॥ २३॥

नतिम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः ।
सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा ॥ २४॥

स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः ।
भगः कमठपृष्ठाभः शुभोऽश्वत्थगलाकृतिः ॥ २५॥

कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभिः ।
रोमशो दृश्यनासश्च विवृत्तास्योऽशुभप्रदः ॥ २६॥

वामोन्नतस्तु कन्याजः पुत्रोजो दक्षिणोन्नतः ।
शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ्गना मता ॥ २७॥

मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता ।
रोमाढ्या च शिराला च रेखाङ्का न शुभप्रदा ॥ २८॥

गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा ।
व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना ॥ २९॥

पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् ।
भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ॥ ३०॥

उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा ।
वन्ध्या संन्यासिनी दासी जायते क्रमदोऽबला ॥ ३१॥

समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे ।
उन्नते रोमसंयुक्ते शिराले चाऽशुभप्रदे ॥ ३२॥

निर्लोभं हृदयं स्त्रीणां समे सर्वसुखप्रदम् ।
विस्तीर्णं च सलोमं च विज्ञेयमशुभप्रदम् ॥ ३३॥

समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोध्रौ ।
स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव शुभप्रदौ ॥ ३४॥

दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता ।
वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ॥ ३५॥

नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले ।
अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ॥ ३६॥

स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी शुभप्रदौ ।
रोमाढ्यावुन्नतौ वक्रौ निर्मासावशुभौ स्मृतौ ॥ ३७॥

सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे ।
कक्षे शिराले गम्भीरे न शुभे स्वेदमेदुरे ॥ ३८॥

गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ ।
सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ॥ ३९॥

निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ ।
वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ॥ ४०॥

सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् ।
सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ॥ ४१॥

स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् ।
मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ॥ ४२॥

विधवा बहुरेखेण रेखाहीनेन निर्धने ।
भिक्षुका च शिरोढ्येन नारी करतलेन हि ॥ ४३॥

पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् ।
शिरालं रोमशं निम्नां दुखदारिद्र्यसूचकम् ॥ ४४॥

यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला ।
स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ॥ ४५॥

मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता ।
राजपत्नी सरोजेन जननी पृथिवीपतेः ॥ ४६॥

सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे ।
शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् ॥ ४७॥

रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः ।
गजवाजिवृषाभा वा करे वामे मृगीदृशः ॥ ४८॥

रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् ।
कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ ४९॥

चामराङ्कुशचापैश्च राजपत्नी पतिव्रता ।
त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥ ५०॥

अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् ।
सा नारि पतिहन्त्री स्याद् दूरतस्तां परित्यजेत् ॥ ५१॥

काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः ।
रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः ॥ ५२॥

मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः ।
अरोमकाः शुभाः स्त्रीणामङ्गुल्यः परिकीर्तिताः ॥ ५३॥

अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः ।
बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः ॥ ५४॥

रक्तवर्णा नखास्तुङ्गा सशिखाश्च शुभप्रदाः ।
निम्ना विवर्णा पीता वा पुष्पिता दुःखदायकाः ॥ ५५॥

अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् ।
सशिरं रोमयुक्तं वा वक्रं चाऽशुभदायकम् ॥ ५६॥

स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः ।
मांसलो मृदुलैश्चैव प्रशस्तफलदायकाः ॥ ५७॥

स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी ।
बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ॥ ५८॥

श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता ।
शुष्का शिराला रोमाढ्या विशाला कुटिलाऽसुभा ॥ ५९॥

अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः ।
आयतं रोमशं स्थूलं द्विधाभक्तमशोभनम् ॥ ६०॥

कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ ।
रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽशुभप्रदौ ॥ ६१॥

स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् ।
सुस्निग्धं च मनोहारि सुखसौभाग्यसूचकम् ॥ ६२॥

वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः ।
मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ॥ ६३॥

निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः ।
स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ॥ ६४॥

रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् ।
किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्यगो भवेत् ॥ ६५॥

स्निग्धागुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः ।
अधस्तादुपरिष्ठाच्च समाः स्तोकसमुन्नताः ॥ ६६॥

अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः ।
विकटा विरलाश्चापि दशना न शुभाः स्मृताः ॥ ६७॥

शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा ।
दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस्तरा ॥ ६८॥

सितया मरणं तोये श्यामया कलहप्रिया ।
मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी ॥ ६९॥

प्रमादसहिता नारी जिह्वया च विशालया ।
सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् ॥ ७०॥

श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् ।
कृष्णे सन्ततिहीना स्याद्रूक्षे भूरिकुटुम्बिनी ॥ ७१॥

अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् ।
स्मितं शुभप्रदं ज्ञेयमन्यथा त्वशुभप्रदम् ॥ ७२॥

समवृत्तपुटा नासा लघुच्छिद्रा शुभप्रदा ।
स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ॥ ७३॥

रक्ताग्राऽकुञ्चिताग्रा वा नासा वैधव्यकारिणी ।
दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ॥ ७४॥

शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके ।
गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मिणी ॥ ७५॥

उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् ।
रमणी मधुपिङ्गाक्षी सुखसौभाग्यभागिनी ॥ ७६॥

पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ।
पारावताक्षी दुःशीला गजाक्षी नैव शोभना ॥ ७७॥

मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् ।
विरलैः कपिलैः स्थूलैर्भामिनी दुखभागिनी ॥ ७८॥

वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते ।
सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखकीर्तिदौ ॥ ७९॥

कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ ।
शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥ ८०॥

शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः ।
अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौख्यदः ॥ ८१॥

स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः ।
प्रलम्बो रोमशश्चैव प्रांशुश्च दुःखदः स्मृतः ॥ ८२॥

उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः ।
स्थूलो गीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ॥ ८३॥

कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना ।
पिङ्गलाः पुरुषा रूक्षा विरला लघवोऽशुभाः ॥ ८४॥

पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः शुभाः ।
नारीलक्षणतश्चैवं नराणामपि चिन्तयेत् ॥ ८५॥