बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४५ (ग्रहावस्थाध्यायः)

← अध्यायः ४४ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४६ →



 अथ ग्रहावस्थाध्यायः ||४५||

अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने |
का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ||१||

अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम |
सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ||२||

क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः |
षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ||३||

फलं पादमितं बाले फलार्धं च कुमारके |
यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ||४||

स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः |
जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ||५||

जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा |
सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ||६||

दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः |
विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ||७||

स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे |
मुदितो मित्रभे शान्तः समभे दीन उच्यते ||८||

शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः |
खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ||९||

यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् |
तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम ||१०||

लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा |
मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ||११||

पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा |
रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ||१२||

तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः |
गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ||१३||

शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि |
क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ||१४||

जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः |
शुभग्रहा न पश्यन्ति तृषितः स उदाहृतः ||१५||

मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः |
गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ||१६||

रविणा सहितो यश्च पापा पश्यन्ति सर्वथा |
क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ||१७||

येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा |
क्षुधितः क्षोभितो वापि तद्भावफलनाशनः ||१८||

एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः |
बलाऽबलविचारेण वक्तव्यः फलनिर्णयः ||१९||

अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः |
बलहीने तदा हानिः सबले च महाफलम् ||२०||

कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा |
क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ||२१||

सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च |
सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ||२२||

क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् |
म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ||२३||

नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् |
सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ||२४||

भवति मुदितयोगे वासशालाविशाला |
विमलवसनभूषाभूमियोषासु सौख्यम् |
स्वजनजनविलासो भूमिपागारवासो |
रिपुनिवहविनाशो बुद्धिविद्याविकाशः ||२५||

दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् |
सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ||२६||

संक्षोभितस्यापि फलं विशेषाद्द्रिद्रजातं कुमतिं च कष्टम् |
करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् ||२७||

क्षुधितखगवशाद्वै शोकमोहादिपातः |
परिजनपरितापादाधिभीत्या कृशत्वम् |
कलिरपि रिपुलोकैरर्थबाधा नराणा |
मखिलब्बलनिरोधो बुद्धिरोधो विषादात् ||२८||

तृषितखगभवे स्वादंगनासंगमध्ये |
भवति गदविकारो दृष्टकार्याधिकारः |
निजजनपरिवादादर्थहानिः कृशत्वं |
खलकृतपरितापो मानहानिः सदैव ||२९||

शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् |
गमनागमनं चाऽथ सभायां वसतिं तथा ||३०||

आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् |
निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ||३१||

यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् |
पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ||३२||

यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः |
रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ||३३||

नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् |
नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ||३४||

रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा |
कुजे द्वयं च संय्क्तं बुधे त्रीत्रि नियोजयेत् ||३५||

गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे |
शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ||३६||

त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता |
दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ||३७||

दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् |
विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ||३८||

शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् |
तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ||३९||

मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः |
व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ||४०||

दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् |
कथोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ||४१||

नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः |
महामुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ||४२||

उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुण्यकर्त्ता |
महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ||४३||

प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च |
भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ||४४||

परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः |
खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ||४५||

सभागते हिते नरः परोपकारतत्परः |
सदार्थरत्नपूरितो दिवाकरे गुणाकरः |
वसुन्धरानवांबरालयान्वितो महाबली |
विचित्रमित्रवत्सलः कृपाकलाधरः परः ||४६||

क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा |
धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ||४७||

सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो |
बलक्षयः पदे पदे यदा यदा हि भोजने |
असत्यता शिरोव्यथा तथा वृथान्नभोजनं |
रवावसत्तथारतिः कुमार्गगामिनी मति ||४८||

विज्ञलोकैः स्दा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः |
राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ||४९||

सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः |
पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ||५०||

निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे |
रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ||५१||

जानुःकाले क्षपानाथे शयनं चेदुपागते |
मानी शीतप्रधानश्च कामी वित्तविनाशकः ||५२||

रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः |
अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ||५३||

नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् |
अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ||५४||

यदा राकानाथे गतवति विकाशं च जनने |
विकाशः संसारे विमलगुणराशेरवनिपात् |
नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता |
विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ||५५||

सितेतरे पापरतो निशाकरे विशेषतः क्रूरकरो नरो भवेत् |
सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ||५६||

विधावागमगे मानी पादरोगी नरो भवेत् |
गुप्तपापरतो दीनो मतितोषविवर्जितः ||५७||

सकलजनवदान्यो राजराजेन्द्रमान्यो |
रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् |
सपदि सदसि याते चारुबिम्बे शशंके |
भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ||५८||

विधावागमके मत्यों वावालो धर्मपूरितः |
कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ||५९||

भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् |
आतनोति वनितासुतासुखं सर्वमेव न सितेतरे शुभम् ||६०||

नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः |
गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ||६१||

कौतकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् |
कामकलासु सदा कुशलत्वं वारवधूरतितमणपटुत्वम् ||६२||

निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् |
हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ||६३||

शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् |
बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ||६४||

बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः |
धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ||६५||

यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः |
दरिद्रता तदा पुंसामन्यभे नगरेशता ||६६||

प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभ्रतुः सदा मानवृद्धिः |
सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ||६७||

गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः |
बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ||६८||

आगमने गुणशाली मणिमालीवा करालकरवाली |
गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ||६९||

तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः |
कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् |
अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे |
ऽवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ||७०||

आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः |
कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ||७१||

भोजने मिष्टभोजी च जनने सबले कुजे |
नीचकर्मकरो नित्यं मनुजो मानवर्जितः ||७२||

नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः |
स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ||७३||

कौतुकी भव्ति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः |
उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ||७४||

निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः |
धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ||७५||

क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः |
अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ||७६||

शशांकपुत्रे जनुरण्गगेहे यदोपवेशे गुणराशिपूर्णः |
पापेक्षिते पापयुते दरिद्रो हिते शुभे वित्तसुखी मनुष्यः ||७७||

विद्याविवेकरहितो हिततोषहीनो मनी |
जनोभवति चन्द्रसुतेऽक्षि पाणौ |
पुत्रालये सुतकलत्रसुखेन हीनः कन्या |
प्रजा नृपतिगेहबुधो वरार्थः ||७८||

दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः |
अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ||७९||

गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने |
भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ||८०||

सपदि विदि जनानामुच्चगे जन्मकाले |
सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः |
धनपतिसमता वा भूपता मंत्रिता वा |
हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ||८१||

आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया |
अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ||८२||

भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः |
राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ||८३||

नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः |
मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ||८४||

कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् |
सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ||८५||

निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः |
सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ||८६||

वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः |
अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ||८७||

उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः |
क्षोणीपतिरिपुजनपतिर्तप्तः पदजंघास्यकरव्रणयुक्तः ||८८||

नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया |
गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ||८९||

गुणानामानन्दं विमलसुखकन्दं वितनुते |
सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् |
प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु |
र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ||९०||

साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा |
पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ||९१||

आगमने जनता वरजाया यस्य जनुःसमये हरिमाया |
मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ||९२||

सुरगुरुसमवक्ता शुभ्रमुक्ताफलाढ्यः |
सदसि सपदि पूर्णो वित्तमाणिक्यमानैः |
गजतुरगरथाढ्यो देवताधीशपूज्यो |
जनुषि विविधविद्यागर्वितो मानवः स्यात् ||९३||

नानावाहनमानयानपटलीसौख्यं गुरावागमे |
भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् |
क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः |
काव्यानन्दरतिः सदा हिनगतिः सर्वत्र मानोन्नतिः ||९४||

भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् |
नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ||९५||

नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् |
तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ||९६||

कुतूहली सकौतुके माहाधनी जनः सदा |
निजान्वये च भास्करः कृपाकलाधरः सुखी |
निलिम्पराजपूजिते सुतेन भूनयेन वा |
युतो महाबली धराधिपेन्द्रसद्मपण्डितः ||९७||

गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि |
दरिद्रतापरिक्रन्तं भवनें पुण्यवर्जितम् ||९८||

जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् |
धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ||९९||

यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः |
सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः ||१००||

नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् |
नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् ||१०१||

स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः |
भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् ||१०२||

गमने जनने शुक्रे तस्य माता न जीवति |
आधियोगो वियोगश्च जनानामरिभीतितः ||१०३||

आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः |
सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च ||१०४||

अनायासेनालं सपदि महसा याति सहसा |
प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ |
सभायामायाते रिपुनिवहहन्ता धनपतेः |
समत्वं वा दाता बलतुरगगन्ता नरवरः ||१०५||

आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः |
पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् ||१०६||

क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च |
कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च ||१०७||

काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे |
शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः ||१०८||

कौतुकभवनं गतवति शुक्रे शक्रेशत्वं सदसि महत्त्वम् |
हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः ||१०९||

परसेवारतो नित्यं निद्रामुपगते कवौ |
परनिन्दापरो वीरो वाचालो भ्रमते महीम् ||११०||

क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ |
वयसि प्रथमे रोगी ततो भाग्यवतां वरः ||१११||

भानओः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः |
अपायुशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ||११२||

नयनपाणिगते रविनन्दने परमया रमया रमयायुतः |
नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ||११३||

नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली |
प्रकाशने भानुसुते सुभानुः कृपानुतक्तो हरपादभक्तः ||११४||

महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी |
गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ||११५||

आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः |
भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ||११६||

रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् |
सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ||११७||

आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा |
मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ||११८||

संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः |
संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ||११९||

नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः |
राजपूज्यो नरो धीरो महावीरो रणाङ्गणे ||१२०||

भवति कौतकभावमुपागते रविसुते वसुधावसुपूरितः |
अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः ||१२१||

निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः |
पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः ||१२२||

यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते |
वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः ||१२३||

उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः |
राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् ||१२४||

नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते |
दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ||१२५||

प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणां |
धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह |
धराधिपाधिकारिता यशोलता तता भवे |
न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः ||१२६||

गमने च यदा राहौ बहुसन्तानवान्नरः |
पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ||१२७||

राहावागमने क्रोधी सदा धीधनवर्जितः |
कुटिलः कृपणः कामी नरो भवति सर्वथा ||१२८||

सभागतो यदा राहुः पण्डितः कृपणो नरः |
नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः ||१२९||

चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् |
महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वं ||१३०||

भोजने भोजनेनालं विकलो मनुजो भवेत् |
मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ||१३१||

नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् |
नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् ||१३२||

कौतुके च यदा राहौ स्थानहीनो नरो भवेत् |
परदाररतो नित्यं परवित्तापहारकः ||१३३||

निद्रावस्थां गते राहौ गुणग्रामयुतो नरः |
कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् ||१३४||

मेषे वृषेऽथ वा युग्मे कन्ययां शयनं गते |
केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ||१३५||

उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् |
अरिवातनृपव्यालचैरशंका समन्ततः ||१३६||

नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते |
दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ||१३७||

केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा |
नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः ||१३८||

गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः |
पण्डितो गुणवान् दाता जायते च नरोत्तमः ||१३९||

आगमने च यदा केतुर्नानारोगो धनक्षयः |
दन्तघाती महारोगी पिशुनः परनिन्दकः ||१४०||

सभावस्थां गते केतौ वाचालो बहुगर्वितः |
कृपणो लम्पटश्चैव धूर्तविद्द्याविशारदः ||१४१||

यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् |
बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः ||१४२||

भोजने तु जनो नित्यं क्षुधया परिपीडितः |
दरिद्रो रोगसंतप्तः केतौ भ्रामति मेदिनीम् ||१४३||

नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् |
बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः ||१४४||

कौतुकी कौतुके केतौ नटवामारतिप्रियः |
स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ||१४५||

निद्रावस्थां गते केतौ धनधान्यसुखं महत् |
नानागुणविनोदेन कालो गच्छति जन्मिनाम् ||१४६||

शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः |
नित्यं तस्य शुभज्ञानं निर्विशंकं वदेत् बुधः ||१४७||

भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा |
तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा ||१४८||

निद्रायां च यदा पापो जायास्थाने शुभं वदेत् |
यदि पापग्रहैर्दृष्टो न शुभं च कदाचन ||१४९||

सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा |
तदा शुभं वदेत्तस्य नाऽत्र कार्या विचारणा ||१५०||

मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा |
तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा ||१५१||

शुभग्रहैर्यदा युक्तः शुभैर्वा यदि वीक्षितः |
तदा तु मरणं तस्य गङ्गादौ च विशेषतः ||१५२||

कर्मस्थाने यदा पापः शयने भोजनेऽपि वा |
तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः ||१५३||

दशमस्थो निशानाथः कौतुके च प्रकाशने |
तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम ||१५४||

बलाऽबलविचारेण ज्ञातव्यञ्च शुभाऽशुभम् |
एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् ||१५५||

-