बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५३ (चन्द्रान्तर्दशाफलाध्यायः)
(बृहत्पाराशरहोराशास्त्र 53 इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ५२ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५४ → |
अथ चन्द्रान्तर्दशाफलाध्यायः ||५३|| स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा | भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ||१|| देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् | राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ||२|| पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् | पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ||३|| अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा | देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ||४|| मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् | द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ||५|| देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् | श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ||६|| चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे | सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ||७|| यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न सम्शयः | गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ||८|| कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् | तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ||९|| दायशादशुभस्थाने देहार्तिः परवीक्षिते | गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ||१०|| मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् | आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ||११|| द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा | तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ||१२|| चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे | आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ||१३|| चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् | बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ||१४|| शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा | योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ||१५|| नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः | वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ||१६|| दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते | स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ||१७|| दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् | वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ||१८|| दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा | पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ||१९|| परोपकारकर्मादिपुण्यकर्मादिसंप्रहः | द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ||२०|| तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् | छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ||२१|| चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे | स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ||२२|| वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः | इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ||२३|| तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् | राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ||२४|| महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा | ष.ष्ठाष्टमव्यये जीवे नीच वास्तङ्गते यदि ||२५|| पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् | स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ||२६|| गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् | दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ||२७|| भोजनाम्बरपरवादि=लाभं सौख्यं करोति च | ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ||२८|| यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः | दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||२९|| करोति कुत्सिनान्नं च विदेशगमनं तथा | भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ||३०|| द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति | तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् | स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ||३१|| चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे | स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ||३२|| शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते | पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ||३३|| व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् | पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ||३४|| षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा | तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ||३५|| अनेकजनत्रासश्च शस्त्रपीडा भविष्यति | दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ||३६|| क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् | द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ||३७|| तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् | कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ||३८|| चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे | स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ||३९|| धनागमो राजमानप्रियवस्त्रादिलाभकृत् | विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ||४०|| सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् | वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ||४१|| दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा | विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ||४२|| राजप्रीतिकरश्चैव विद्वज्जनसमागमः | मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ||४३|| आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् | दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ||४४|| तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् | कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ||४५|| द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् | छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ||४६|| चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे | दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ||४७|| पुत्रदारादिसौख्यं च विधिकर्म करोति च | भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ||४८|| दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते | क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ||४९|| गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् | पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ||५०|| शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् | द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ||५१|| मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् | ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ||५२|| चन्द्रस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे | स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ||५३|| महाराजप्रसादेन वाहनाम्बरभूषणम् | चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ||५४|| नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनं | सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ||५५|| दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् | सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ||५६|| नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते | भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ||५७|| चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् | धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ||५८|| निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् | भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ||५९|| महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा | देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ||६०|| दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा | गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ||६१|| दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते | विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ||६२|| द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् | तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ||६३|| श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः | शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ||६४|| चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते | केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ||६५|| नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् | मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ||६६|| गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् | भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ||६७|| दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते | नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ||६८|| विदेशगमने चार्ति लभते न संशयः | द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ||६९|| तद्दोषपरिहारार्थं शिवपूजां च कारयेत् | ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ||७०|| -