बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५९ (केत्वन्तर्दशाफलाध्यायः)

← अध्यायः ५८ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ६० →

अथ केत्वन्तर्दशाफलाध्यायः ॥ ५९॥


केन्द्रे त्रिकोणलाभे वा केतौ लग्नेशसंयुते ।
भाग्यकर्मसुसम्बन्धे वाहनेशसमन्विते ॥ १॥

तद्भुक्तौ धनधान्यादि चतुष्पाज्जीवलाभकृत् ।
पुत्रदारादिसौख्यं च राजप्रीतिमनोरुजः ॥ २॥

ग्रामभूम्यादिलाभश्च गृहं गोधनसंकुलम् ।
नीचास्तखेटसंयुक्ते ह्यष्टमे व्ययगेऽपि वा ॥ ३॥

हृद्रोगो मानहानिश्च धनधान्यपशुक्षयः ।
दारपुत्रादिपीडा च मनश्चांचल्यमेव च ॥ ४॥

द्वितीयद्यूननाथेन सम्बन्धे तत्र संस्थिते ।
अनारोग्यं महत्कष्टमात्मबन्धुवियोगकृत् ॥ ५॥

दुर्गादेवीजपं कुर्यान्मृत्युञ्जयजपं चरेत् ।
एवं स्वान्तर्गते केतौ ततः सुखमवाप्नुयात् ॥ ६॥

केतोरन्तर्गते शुक्रे स्वोच्चे स्वक्षेत्रसंयुते ।
केन्द्रत्रिकोणलाभे वा राज्यनाथेन संयुते ॥ ७॥

राजप्रीतिं च सौभाग्यं दिशात्स्वाम्बरसंकुलम् ।
तत्काले श्रियमाप्नोति भाग्यकर्मेशसंयुते ॥ ८॥

नष्टराज्यधनप्राप्तिं सुखवाहनसुत्तमम् ।
सेतुस्नानादिकं चैव देवतादर्शनं महत् ॥ ९॥

महाराजप्रसादेन ग्रामभूम्यादिलाभकृत् ।
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ॥ १०॥

देहारोग्यं शुभं चैव गृहे कल्याणशोभनम् ।
भोजनाम्बरभूषाप्तिरथदोलादिलाभकृत् ॥ ११॥

दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ।
अकस्मात्कलहं चैव पशुधान्यादिपीडनम् ॥ १२॥

नीचस्थे खेटसंयुक्ते लग्नात्षष्ठाष्टराशिगे ।
स्वबन्धुजनवैषम्यं शिरोक्षिव्रणपीडनम् ॥ १३॥

हृद्रोगं मानहानिं च धनधान्यपशुक्षयम् ।
कलत्रपुत्रपीडायाः सञ्चारं च समादिशेत् ॥ १४॥

द्वितीयद्यूननाथे तु देहजाड्यं मनोरुजम् ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ।
श्वेतां गां महिषीं दद्यादायुआरोग्यवृद्धये ॥ १५॥

केतोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा शुभयुक्तनिरीक्षिते ॥ १६॥

धनधान्यादिलाभश्च राजानुग्रहवैभवम् ।
अनेकशुभकार्याणि चेष्टसिद्धिः सुखावहा ॥ १७॥

अष्टमव्ययराशिस्थे पापग्रहसमन्विते ।
तद्भुक्तौ राजभीतिश्च पितृमातृवियोगकृत् ॥ १८॥

विदेशगमनं चैव चौराहिविषपीडनम् ।
राजमित्रविरोधश्च राजदण्डाद्धनक्षयः ॥ १९॥

शोकरोगभयं चैव उष्णाधिक्यं ज्वरो भवेत् ।
दायेशात्लेन्द्रकोणे वा लाभे वा धनसंस्थिते ॥ २०॥

देहसौख्यं चार्थलाभ० पुत्रलाभो मनोदृढम् ।
सर्वकार्यार्थसिद्धिः स्यात्स्वल्पग्रामाधिपत्ययुक् ॥ २१॥

दायेशाद्रन्ध्ररिःफे वा स्थिते वा पापसंयुते ।
अन्नविघ्नो मनोबीतिर्धनधान्यपशुक्षयः ॥ २२॥

आदौ मध्ये महाक्लेशानन्ते सौख्यं विनिर्दिशेत् ।
द्वितीयसप्तमाधीशे ह्यपमृत्युर्भविष्यति ॥ २३॥

तस्य शान्तिं प्रकुर्वीत स्वर्णं धेनुं प्रदापयेत् ।
भास्करस्य प्रसादेन ततः सुखमवाप्नुयात् ॥ २४॥

केतोरन्तर्गते चन्द्रे स्वोच्चे स्वक्षेत्रगेऽपि वा ।
केन्द्रत्रिकोणलाभे वा धने शुभसमन्विते ॥ २५॥

राजप्रीतिर्महोत्साहः कल्याणं च महत्सुखम् ।
महाराजप्रसादेन गृहभूम्यादिलाभकृत् ॥ २६॥

भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ।
अश्ववाहनलाभश्च वस्त्रभरणभूषणम् ॥ २७॥

देवालयतडागादिपुण्यधर्मादिसङ्ग्रहम् ।
पुत्रदारादिसौख्यं च पूर्णचन्द्रः प्रयच्छति ॥ २८॥

क्षीणे वा नीचगे चन्द्रे षष्ठाष्टमव्ययराशिगे ।
आत्मसौख्यं मनस्तापं कार्यविघ्नं महद्भयम् ॥ २९॥

पितृमातृवियोगं च देहजाड्यं मनोव्यथाम् ।
व्यवसायात्फलं कष्टं पशुनाशं भयं वदेत् ॥ ३०॥

दायेशात्केन्द्रकोणे वा लाभे वा बलसंयुते ।
कृषिगोभूमिलाभं च इष्टबन्धुसमागमम् ॥ ३१॥

तस्मात्स्वकार्यसिद्धिं च गृहे गोक्षीरमेव च ।
भुक्त्यादौ शुभमारोग्यं मध्ये राजप्रियं शुभम् ॥ ३२॥

अन्ते तु राजभीतिं च विदेशगमनं तथा ।
दूरयात्रादिसञ्चारं सम्बन्धिजनपूजनम् ॥ ३३॥

दायेशात्षष्ठरिःफे वा रन्ध्रे वा बलवर्जिते ।
धनधान्यादिहानिश्च मनोव्यात्कुलमेव च ॥ ३४॥

स्वबन्धुजनवैरं च भ्रातृपीडा तथैव च ।
निधनाधिपदोषेण द्विसप्तपतिसंयुते ॥ ३५॥

अपमृत्युभयं तस्य शान्तिं कुर्याद्यथाविधि ।
चन्द्रप्रीतिकरीं चैव ह्यायुरारोग्यसिद्धये ॥ ३६॥

केतोरन्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वाऽपि शुभग्रहयुतेक्षिते ॥ ३७॥

आदौ शुभफलं चैव ग्रामभूम्यादिलाभकृत् ।
धनधान्यादिलाभश्च चतुष्पाज्जीवलाभकृत् ॥ ३८॥

गृगारामक्षेत्रलाभो राजानुग्रहवैभवम् ।
भाग्ये कर्मेशसम्बन्धे भूलाभः सौख्यमेव च ॥ ३९॥

दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।
राजप्रीतियशोलाभः पुत्रमित्रादिसौख्यकृत् ॥ ४०॥

तथाऽष्टमव्यये भौमे दायेशाद्धनगेऽपि वा ।
द्रुतं करोति मरणं विदेशे चापदं भ्रमम् ॥ ४१॥

प्रमेहमूत्रकृच्छ्रादिचौरादिनृपपीडनम् ।
कलहादि व्यथायुक्तं किञ्चित्सुखविवर्द्धनम् ॥ ४२॥

द्वितीयद्यूननाथे तु तापज्वरविषाद्भयम् ।
दारपीडा मनःक्लेशमपमृत्युभयं भवेत् ॥ ४३॥

अन्ड्वाहं प्रदद्यात्तु सर्वसम्पत्सुखावहम् ।
ततः शान्तिमवाप्नोति भौमग्रहप्रसादतः ॥ ४४॥

केतोरन्तर्गते राहौ स्वोच्चे मित्रस्वराशिगे ।
केन्द्रत्रिकोणे लाभे वा दुश्चिक्ये धनसंज्ञके ॥ ४५॥

तत्काले धनलाभः स्यात्सञ्चारो भवति ध्रुवम् ।
म्लेच्छप्रभुवशात्सौख्यं धन्धान्यफलादिकम् ॥ ४६॥

चतुष्पाज्जीवलाभः स्याद्ग्रामभूम्यादिलाभकृत् ।
भुक्त्यादौ क्लेशमाप्नोति मध्यान्ते सौख्यमाप्नुयात् ॥ ४७॥

रन्ध्रे वा व्ययगे राहौ पापसंदृष्टसंयुते ।
बहुमूत्रं कृशं दीहं शीतज्वरविषाद्भयम् ॥ ४८॥

चातुर्थिकज्वरं चैव क्षुद्रोपद्रवपीडनम् ।
अकस्मात्कलहं चैव प्रमेहं शूलमादिशेत् ॥ ४९॥

द्वितीयसप्तमस्थे वा तदा क्लेशं महद्भयम् ।
तद्दोषपरिहारार्थं दुर्गादेवीजपं चरेत् ॥ ५०॥

केतोरन्तर्गते जीवे कन्द्रे लाभे त्रिकोणगे ।
स्वोच्चे स्वक्षेत्रगे वापि लग्नाधिपसमन्विते ॥ ५१॥

कर्मभाग्याधिपैर्युक्ते धनधान्यार्थसंपदम् ।
राजप्रीतिं तदोत्साहमश्वांदोल्यादिकं दिशेत् ॥ ५२॥

गृहे कल्याणसम्पत्तिं पुत्रलाभं महोत्सवहम् ।
पुण्यतीर्थं महोत्साहं सत्कर्म च सुखावहम् ॥ ५३॥

इष्टदेवप्रसादेन विजयं कार्यलाभकृत् ।
राजसंल्लापकार्याणि नूतनप्रभुदर्शनम् ॥ ५४॥

षष्ठाष्टमव्यये जीवे दायेशान्नीचगेऽपि वा ।
चौराहिव्रणभीतिं च धनधान्यादिनाशनम् ॥ ५५॥

पुत्रदारावियोगं च त्वतीवक्लेशसम्भवम् ।
आदौ सुभफलं चैव अन्ते क्लेशकरं वदेत् ॥ ५६॥

दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ।
शुभयुक्ते नृपप्रीतिर्विचित्राम्बरभूषणम् ॥ ५७॥

दूरदेशप्रयाणं च स्वबन्धुजनपोषणम् ।
भोजनाम्बरपश्वादि भुक्त्यादौ देहपीडनम् ॥ ५८॥

अन्ते तु स्थानचलनमकस्मात्कलहो भवेत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ५९॥

तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् ।
महामृत्युञ्जयं जाप्यं सर्वोपद्रवनाशनम् ॥ ६०॥

केतोरन्तर्गते मन्दे स्वदशायां तु पीडनम् ।
बन्धोः क्लेशो मनस्तापश्चतुष्पाज्जीवलाभकृत् ॥ ६१॥

राजकार्यकलापेन धननाशो महद्भयम् ।
स्थानाच्च्युतिः प्रवासश्च मार्गे चौरभयं भवेत् ॥ ६२॥

आलस्यं मनसो हानिश्चाष्टमे व्ययराशिगे ।
मीनत्रिकोणगे मन्दे तुलायां स्वर्क्षगेऽपि वा ॥ ६३॥

केन्द्रत्रिकोणलाभे वा दुश्चिक्ये वा शुभांशके ।
शुभदृष्टयुते चैव सर्वकार्यार्थसाधनम् ॥ ६४॥

स्वप्रभोश्च महत्सौख्यं भ्रमणं च सुखावहम् ।
स्वग्रामे सुखसम्पत्तिः स्ववर्गे राजदर्शनम् ॥ ६५॥

दायेशात्षष्ठरिःफे वा अष्टमे पापसंयुते ।
देहतापो मनस्तापः कार्ये विघ्नो महद्भयम् ॥ ६६॥

आलस्यं मानहानिश्च पितृमात्रोर्विनाशनम् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युभयं भवेत् ॥ ६७॥

तद्दोषपैर्हारार्थं तिलहोमं च कारयेत् ।
कृष्णां गां महिषीं दद्यादायुरारोग्यवृद्धये ॥ ६८॥

केतोरन्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे ।
स्वोच्चे स्वक्षेत्रसंयुक्ते राज्यलाभो महत्सुखम् ॥ ६९॥

सत्कथाश्रवणं दानं धर्मसिद्धिः सुखावहा ।
भूलाभः पुत्रलाभश्च शुभगोष्ठीधनागमः ॥ ७०॥

अयत्नाद्धर्मलब्धिश्च विवाहश्च भविष्यति ।
गृहे शुभकरं कर्म वस्त्राभरणभूषणम् ॥ ७१॥

भाग्यकर्माधिपैर्युक्ते भाग्यवृद्धिः सुखावहा ।
विद्वद्गोष्ठीकथाभिश्च कालक्षेपो भविष्यति ॥ ७२॥

षष्ठाष्टमव्यये सौम्ये मन्दाराहियुतेक्षिते ।
विरोधो राजवर्गैश्च परगेहनिवासनम् ॥ ७३॥

वाहनाम्बरपश्वादिधनधान्यादिनाशकृत् ।
भुक्त्यादौ शोभनं प्रोक्तं मध्ये सौख्यं धनागमः ॥ ७४॥

अन्ते क्लेशकरं चैव दारपुत्रादिपीडनम् ।
दायेशात्केन्द्रगे सौम्ये त्रिकोणे लाभगेऽपि वा ॥ ७५॥

देहारोग्यं महांल्लाभः पुत्रकल्याणवैभवम् ।
भोजनाम्बरपश्वादिव्यवसायेऽधिकं फलम् ॥ ७६॥

दायेशात्षष्ठरन्ध्रे वा व्यये वा बलवर्जिते ।
तद्भुक्त्यादौ महाक्लेशो दारपुत्रादिपीडनम् ॥ ७७॥

राजभीतिकरश्चैव मध्ये तीर्थकरो भवेत् ।
द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति ॥ ७८॥

तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ।
ततः सुखमवाप्नोति श्रीहरेश्च प्रसादतः ॥ ७९॥