← अध्यायः ७८ बृहत्संहिता
अध्यायः ७९
वराहमिहिरः
अध्यायः ८० →

७९ रत्नपरीक्षाध्यायः ।।

 रत्नेन शुभेन शुभं भवति नृपाणां अनिष्टं अशुभेन ।
 यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः ।। ७९.०१ ।।

 द्विपहयवनिताआदीनां स्वगुणविशेषेण रत्नशब्दो +अस्ति ।
 इह तुउपलरत्नानां अधिकारो वज्रपूर्वाणाम् ।। ७९.०२ ।।

 रत्नानि बलाद्दैत्याद्दधीचितो +अन्ये वदन्ति जातानि ।
 के चिद्भुवः स्वभावाद्वैचित्र्यं प्राहुरुपलानाम् ।। ७९.०३ ।।

 वज्रैन्द्रनीलमरकतकर्केतरपद्मरागरुधिरऽख्याः ।
 वैदूर्य[क्.वैडूर्य]पुलकविमलकराजमणिस्फतिकशशिकान्ताः ।। ७९.०४ ।।

 सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागऽख्याः ।
 ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवालानि ।। ७९.०५ ।।

 वेणातटे विशुद्धं शिरीषकुसुम*प्रभं[क्.उपमं] च कौशलकम् ।
 सौराष्ट्रकं आताम्रं कृष्णं सौर्पारकं वज्रम् ।। ७९.०६ ।।

 ईषत्ताम्रं हिमवति मतङ्गजं वल्लपुष्पसङ्काशम् ।
 आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम् ।। ७९.०७ ।।

 ऐन्द्रं षडश्रि शुक्लं याम्यं सर्पऽस्यरूपं असितं च ।
 कदलीकाण्डनिकाशं वैष्णवं इति सर्वसंस्थानम् ।। ७९.०८ ।।

 वारुणं अबलागुह्यौपमं भवेत्कर्णिकारपुष्पनिभम् ।
 शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ।। ७९.०९ ।।

 वायव्यं च यवौपमं अशोककुसुमप्रभं समुद्दिष्टम् ।
 स्रोतः खनिः प्रकीर्णकं इत्याकरसम्भवस्त्रिविधः ।। ७९.१० ।।

 रक्तं पीतं च शुभं राजन्यानां सितं द्विजातीनाम् ।
 शैरीषं वैश्यानां शूद्राणां शस्यते +असिनिभम् ।। ७९.११ ।।

 सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या ।
 तुलितस्य द्वे लक्षे मूल्यं द्विद्व्यूनिते चैतत् ।। ७९.१२ ।।

 पादत्र्यंशार्धऊनं त्रिभागपञ्चांशषोडशांशाश्च ।
 भागश्च पञ्चविंशः शतिकस्साहस्रिकश्चैति ।। ७९.१३ ।।

 सर्वद्रव्यऽभेद्यं लघ्वम्भसि तरति रश्मिवत्स्निघ्दम् ।
 तडिदनलशक्रचापौपमं च वज्रं हितायौक्तम् ।। ७९.१४ ।।

 काकपदमक्षिकाकेशधातुयुक्तानि शर्करैर्[क्.शर्करा] विद्धम् ।
 द्विगुणाश्रि दग्ध[क्.दिग्ध]कलुषत्रस्तविशीर्णानि न शुभानि ।। ७९.१५ ।।

 यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि ।
 सर्वेषां चैतेषां मूल्याद्भागो +अष्टमो हानिः ।। ७९.१६ ।।

वज्रं न किञ् चिदपि धारयितव्यं एके
पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः ।
शृङ्गाटकत्रिपुटधान्यकवत्स्थितं यच्
श्रोणीनिभं च शुभदं तनयार्थिनीनाम् ।। ७९.१७ ।।

 स्वजनविभवजीवितक्षयं जनयति वज्रं अनिष्टलक्षणम् ।
 अशनिविषभयारिनाशनं शुभं उपभोगकरं[क्.उरुभोगकर] च भूभृताम् ।। ७९.१८ ।।