← अध्यायः १५ बृहद्यात्रा
अध्यायः १६
अध्यायः १७ →

अध्याय-१६ स्वप्नः

सम्पाद्यताम्

दुकूलमुक्तामणिभृन् नरेन्द्रः समन्त्रिदैवज्ञपुरोहितोऽतः।

स्वदेवतागारम् अनुप्रविश्य निवेशयेत् तत्र दिगीश्वरार्चाम्॥

अभ्यर्च्य मन्त्रैस् तु पुरोहितस् तान् अधश् च तस्यां भुवि संस्कृतायाम्।

दर्भैस् तु कृत्वास्तरम् अक्षतैस् च किरेत् समन्तात् सितसर्षपैश् च॥

ब्राह्मीं सदूर्वाम् अथ नागपुष्पीं कृत्वोपधानं शिरसि क्षितीशः।

पूर्णान् घटान् पुष्पफलाभिधानान् आशासु कुर्याच् चतुरः क्रमेण॥

यज् जाग्रतो दूरम् उपैति दैवम् आवर्त्य मन्त्रां क्रमशस् त्रिर् एतम्।

लघ्व् एकभुग् दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम्॥

नमः शम्भो त्रिनेत्राय रुद्राय परमात्मने।

वामनाय विरूपाय स्वप्नाधिपतये नमः॥

भगवन् देव देवेश सूलभृद् वृषवाहन।

इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम्॥

एकवस्त्रे कुशास्तीर्णे सुप्तः प्रयतमानसः।

निशान्ते पश्यति स्वप्नं शुभं वा यदि वाऽशुभम्॥

गतैष्यजात्यन्तरसत्त्वसङ्गैः स्वप्नेऽप्य् अनूके गतिजे च नित्यम्।

यातुः प्रकोपाद् अनिलात्मकस्य नगाद्रितुङ्गाम्बरलङ्घनानि॥

पित्ताधिके काञ्चनरत्नमाल्यदिवाकराग्निप्रभृतीनि पश्येत्।

श्लेष्माधिकश् चेन्दुभशुभ्रपुष्पसरित्सरोम्भोधिविलङ्घनानि॥

जघन्यमध्यप्रथमे निशांशे प्रावृच्छरन्माधवसंज्ञते च।

काले मरुत्पित्तकफप्रकोपात् साधारणः स्यात् फलसन्निपातः॥

दशासु चोक्तं ग्रहपाकजातं चिन्ता तु दृषा तु यथा तथैव।

बीभत्ससत्त्वाभिभवोऽभिचारो विघ्नोद्भवो गुह्यकजः प्रदिष्टः॥

अनूकचिन्ताग्रहदोषदृष्टान्य् अतीतकर्ंआणि च निष्फलानि।

द्युदृष्टपूर्वाः कथिताश् च तद्वद् अन्यत्र लोके कथिता विशेषाः॥

प्रत्यक्षवद् भवति यः स्फुरतीव चान्तः

स्वप्नस्य तस्य नियमात् सदसत्फलाप्तिः।

स्वप्नाः शुभाशुभकृताः फलदा नराणाम्

उद्देशमात्रम् इह तान् अनुवर्णयामि॥

स्वाङ्गप्रज्वलनं परोपगमनं शक्रध्वजालिङ्गनं

दिक्संवृत्तनरेन्द्रकन्यकतनोर् विक्षेपणं दिक्षु च॥

बन्धो वा निगले ग्रसेच् च दहनं नानाशिरोबाहुता

छत्रं वा द्विरदोऽभिषिच्य बिभृयाद् दिव्योऽथवा ब्राह्मणः॥

उडुपदिनकृद्गोशृङ्गाग्रस्रुताम्ब्वभिषेचनं

यदि च महिषीसिंहीव्याघ्रीगवां सुखदोहनः।

जठरनिसृतैश् चान्त्रैर् ग्रामद्रुमादिनिवेष्टनं

विशति यदि वा सुश्लिष्टाङ्गी तनुं प्रवराङ्गना॥

मनुजहृदयमूर्ध्नां भक्षणं वा स्वदेह-

भुजगतुरगसिंहेभाजमांसादनानि।

तृणतरुकुसुमाम्भःप्रोद्गमो वा स्वनाभौ

क्षितितनुपरिवर्तोन्मूलने वाधिराज्यम्॥

दिनकरशशिताराभक्षणस्पर्शणानि

दरणम् अपि च मूर्ध्नः सप्त पञ्च त्रिधा वा।

वृषभगृहनगेन्द्राश्वेभसिंहाधिरोहो

ग्रसनम् उदधिभूम्योश् चाधिराज्यप्रदानि॥

विपुलरणविमर्दद्यूतवादैश् च जित्वा

पशुमृगमनुजानां लब्धिर् अग्र्यासनं वा।

विडशनपरिलेपोऽगम्यनारीगमो वा

स्वमरणशिखिलाभः सस्यसन्दर्शनं च॥

सितसुरभिमनोज्ञालेपमाल्याम्बराणां

द्विजसुरगुरुराज्ञां दर्शनान्य् आसिषं च।

मणिरजतसुवर्णाम्भोजपात्रेषु भुङ्क्ते

यदि दधिपरमान्नं शोणिते मज्जने वा॥

सिततुरगरथध्वजातपत्रव्यजनसरोजमणिद्विपेन्द्रलाभाः।

अभय जय च भुंक्ष्व चेति शब्दाः परिणतराज्यफलप्रदाः प्रदिष्टाः॥

पूर्वजन्मसु चाभ्यस्ता सत्त्वरूपा गतिस् तदा।

(तद)नूकम् इति प्रोक्तम् इह पश्चात् करोति यत्॥

मुद्रादिषु यज्ञनीविषु स्त्रीसंज्ञादिषु चाङ्गनाप्तिर् उक्ता।

लब्धे शयनेऽथ दर्पणे भृङारादिषु चोद्भवः (सुत)स्य॥

कामिन्यां धनलब्धिर् अम्बुतरणे शोकस्य नाशो भवेद्

धर्षो रोदितशोचितादिषु तथा दाहे विवृद्धिर् मता।

गोशृङ्गिद्विजदेवतापितृसुहृद्भूपाश् च शंसन्ति यत्

स्वप्ने तन् नियमाद् भवत्य् अवितथं नेष्टं शुभं वा फलम्॥

गोभेरन्यत्र गोत्रे तृणतरुकुसुमप्रोद्भवः स्नेहपानं

क्रीडायानोपभोगः खरकपिकरभव्यालरूपैश् च सत्त्वैः।

कायस्यालेपनं वा कलुषमलमषीगोमयस्नेहपङ्कैर्

दृग्जिह्वादन्तबाहुप्रपतनम् अथवानर्थशोकप्रदानि॥

गीतोत्क्रीडितभूषितप्रहसितप्र्(आमोदिता)खेलितानि

अर्केन्दुध्वजतारकानिपतनं स्त्रोतोवहाया गमः।

रज्जुच्छेदचिताप्रपातजननीगात्रप्रवेशस् तथा

स्वप्ने कांस्यविचूर्णनं च शिरसः क्लेशामयानर्थदाः॥

श्मश्रुकेशनखदैर्घ्यकल्पना वानरीविकृतनार्युपासनम्।

रक्तवस्त्रमनुजाङ्गमर्दनं रोगमृत्युभयशोकतापदम्॥

स्थलमृगपशुकीटानूपवर्यन्धजानां

प्लवनमुदकराशौ स्याद् विवाहोत्सवो वा।

सरसिजजतुभाण्डक्रीडनं नर्तनं वा

मलिनविवसनत्वं चाशु रोगप्रदानि॥

स्वद्रव्यनाशः सुहृदां वियोगश्छेदश् च पाण्योः कमलापहारः।

प्रासादवेश्माद्रिशिरोवताराः स्वप्नेषु नेष्टा इति संप्रदिष्टाः॥

मित्रस्याप्तिः स्याद्विकोशासिलाभे वश्यं गच्छेद् भूपतेः शासनाप्तौ।

सर्पे कर्णौ नासिकां वा प्रविष्टे तच्छेदः स्याद् वेष्टने चाशु बन्धः॥

आद्ये वर्षाद् वत्सरार्धाद् द्वितीये यामे पाको वर्षपादात् तृतीये।

मासात् पाकः शर्वरीपश्चिमांशे सद्यः पाको गोविसर्गे च दृष्टे॥

दृष्ट्वा स्वप्नं शोभनं नेह सुप्यात् पश्चाद् दृष्टो यः स पाकं विधत्ते।

शंसेदिष्टं तत्र साधुद्विजेभ्यस् ते त्वाशिभिः पूजयेयुर् नरेन्द्रम्॥

भूयः प्रस्वपनं न चास्य कथनं गङ्गाभिषेको जपः

शान्तिः स्वस्त्ययनं निषेवणम् अपि प्रातर्गवाश्वत्थयोः।

विप्रेभ्यश् च तिलान्नपानकुसुमैः पूजा यथाशक्तितः

पुण्यं भारतकीर्तनं च कथितं दुःस्वप्नविच्छित्तये॥E३२