← अध्यायः १७ बृहद्यात्रा
अध्यायः १८
अध्यायः १९ →

अध्यायः-१८ ग्रहयज्ञः सम्पाद्यताम्

ग्रहयज्ञम् अतो वक्ष्ये तत्र निमित्तानि लक्षयेद् वेद्याम्/[चितेद् इन् ब्स् ४३.१४]

भङ्गो मानोनायां दिग्भ्रष्टायाम् असिद्धिश् च॥

नगरपुरोहितदेवीसेनापतिपार्थिवक्षयं कुरुते/[चितेद् इन् ब्स् ४३.१४]

प्राग्दक्षिणापरोत्तरमध्यमभागेषु या विकला॥

तत्रार्चा ताम्रमयी सवितुः पालाशिका सुस्रुक्समिधः।

आ कृष्णेति च मन्त्रो रक्ता गन्धाः सहागुरणाः॥

माषातसीतिलांश् चार्कसमुद्गचणकान् विहाय भोज्यविधिः।

वकुलार्कागस्त्यपलाशशल्लकीकुसुमपूजा च॥

अष्टशतसंमितेभ्यो विप्रेभ्यो दक्षिणाहिताग्निभ्यः।

देया वृषकनकमही सहस्रकिरणं (स)मुद्दिश्य॥ (सूर्यः)

न्यग्रोधात् स्रुक्समिधः स्फटिकाद् अर्चा च शितगोः कार्या।

शैलेयकनखवर्ज्या गन्धाः कुसुमानि च सितानि॥

गोधूमशालियावरवण्डगोपयः पूर्वम् अशनम् अथ मन्त्रः।

आप्यायस्वेति भवेच् चातुर्वेदाय दद्याच् च॥

मणिमुक्ताक्षौमहिरण्यसंयुतां श्वेततुल्यवत्साङ्गाम्।

रजतशफविषाणां क्षीरिणीं च तु हिमांशुम् उद्दिश्य॥(चन्द्रः)

रक्तकरवीरसमिधो रक्ता गन्धाश् च चन्दनात् प्रतिमा।

मन्त्रश् चाग्निर् मूर्धेत्य् अशनं गुडषष्टिकप्रायम्॥

ताम्रकनकप्रवालौर्णिकानि देयानि दक्षिणा चास्य।

उद्दिश्य धरातनयं छन्दोगेभ्यो व्रतस्थेभ्यः॥मं(गलः)

मन्त्रश् चोद्बूध्यस्वेत्यादि प्रतिमा च युक्तिलोहमयी।

स्रुक्समिधश् च मधूकाद् अथ वा चान्द्रेर् अपामार्गात्॥

युक्तिप्राया गन्धाः कालीयककुङ्कुमप्रियंग्वाद्याः।

कुसुमानि मालतीवकुलतिलकमदयन्तिकादीनि॥

भोज्यं मसुरतिलशालिमुद्गचणकादि दक्षिणा स्वच्छश् च।

सरजतमणिर् व्रतिभ्यश् चान्द्रेर् आथर्वणेभ्यश् च॥बु(धः)

अश्वत्थ्यर्जुनसमिधः कनकार्चा त्व् अग्निवर्जिता गन्धाः।

पीतकुसुमानि च गुरोर् भोज्यं तिलमुद्गचणकानि॥

बह्वृग्भ्य एकवर्णं मध्यमवयसं तुरङ्गमं दद्यात्।

शृङ्गीसुवर्णयुक्तं बृहस्पतेश् चेति गुरोर् मन्त्रः॥बृ(हस्पतिः)

रजतार्चा मदनीया गन्धाः कुसुमानि चित्रसुरभीणि।

पनसोदुम्बरसमिधो भोज्यं वृष्यं च भृगुसूनोः॥

अन्नात् परिस्रुताद्यो मन्त्रः स्त्रीकर्कशास् त्व् अलङ्काराः।

अध्वर्युभ्यो देया द्वात्रिंशद्भ्यः तदर्हेभ्यः॥शु(क्रः)

शालशमीस्रुक्समिधः शन्नो देवीति भास्करेर् मन्त्रः।

लोहार्चा शैलेयकमुस्तकशुक्त्युत्कटा गन्धाः॥

गिरिकर्णिकातसीस्पन्दनांजनादीनि कृष्णपुष्पाणि।

अशनानि कृष्णतिलमाषचणकनिष्पावमुख्यानि॥

प्रेष्याम् अतीतवयसां त्रप्वंजनसीसकृष्णलोहयुताम्।

दद्याद् उद्दिश्यार्किं वृषलीपतिवृद्धमूर्खेभ्यः॥श(निः)

वैभीतस्रुक्समिधो राहोर् होमेऽथवा भवेद् दूर्वा।

मन्त्रश् च कया नश्चित्रपूर्वकोऽर्चा च नागमयी॥

उद्दिश्य सैंहिकेयं महिषं प्रतिपादयेत् सुवृद्धेभ्यः।

विप्रेभ्य इति यद् अन्यत् तत् सर्वं सूर्यपुत्रसमम्॥(राहुः)

केतोः कांस्यप्रतिमा केतुं कृण्वन्न् न केतवे मन्त्रः।

आरण्यकुसुमपूजा स्रुक्समिधः खदिरकुशमय्यः॥

मांसौदनम् अननं १ब्रह्मबन्धुवर्गस्य दक्षिणा देया।

प्रहरणफल्गुद्रव्याणि चैवं केतुं समुद्दिश्य॥(केतुः)E२४