ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०७

← अध्यायः ०६ ब्रह्मवैवर्तपुराणम्
अध्यायः ०७
वेदव्यासः
अध्यायः ०८ →

सौतिरुवाच ।।
तदा ब्रह्मा तपः कृत्वा सिद्धिं प्राप्य यथेप्सिताम् ।।
ससृजे पृथिवीमादौ मधुकैटभमेदसा ।। १ ।।
ससृजे पर्वतानष्टौ प्रधानान्सुमनोहरान् ।।
क्षुद्रानसंख्यान्किं ब्रूमः प्रधानाख्यां निशामय ।। २ ।।
सुमेरुं चैव कैलासं मलयं च हिमालयम्।।
उदयं च तथाऽस्तं च सुवेलं गन्धमादनम् ।। ३ ।।
समुद्रान्ससृजे सप्त नदान्कतिविधा नदीः ।।
वृक्षांश्च ग्रामनगरं समुद्राख्या निशामय ।। ४ ।।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवान् ।।
लक्षयोजनमानेन द्विगुणांश्च परात्परान् ।। ५ ।।
सप्तद्वीपांश्च तद्भूमिमण्डले कमलाकृते ।।
उपद्वीपांस्तथा सप्तसीमाशैलांश्च सप्त च ।। ६ ।।
निबोध विप्र द्वीपाख्यां पुरा या विधिना कृता ।।
जम्बूशाककुशप्लक्षक्रौञ्चन्यग्रोधपौष्करान् ।। ७ ।।
मेरोरष्टसु शृङ्गेषु ससृजेऽष्टौ पुरी प्रभुः ।।
अष्टानां लोकपालानां विहाराय मनोहराः ।। ८ ।।
मूलेऽनन्तस्य नगरीं निर्माय जगतां पतिः ।।
ऊर्ध्वे स्वर्गांश्च सप्तैव तेषामाख्या निशामय।।९।।
भूर्लोकं च भुवर्लोकं स्वर्लोकं सुमनोहरम् ।।
जनोलोकं तपोलोकं सत्यलोकं च शौनक।।1.7.१०।।
शृङ्गमूर्ध्नि ब्रह्मलोकं जरादिपरिवर्जितम् ।।
तदूर्ध्वे ध्रुवलोकं च सर्वतः सुमनोहरम् ।।११।।
तदधः सप्त पातालान्निर्ममे जगदीश्वरः ।।
स्वर्गातिरिक्तभोगाढ्यानधोधः क्रमतो मुने ।। १२ ।।
अतलं वितलं चैव सुतलं च तलातलम् ।।
महातलं च पातालं रसातलमधस्ततः ।। १३ ।।
सप्तद्वीपैः सप्तनाकैः सप्तपातालसंज्ञकैः ।।
एभिर्लोकैश्च ब्रह्माण्डं ब्रह्माधिकृतमेव च ।। १४ ।।
एवञ्चासंख्यब्रह्माण्डं सर्वं कृत्रिममेव च ।।
महाविष्णोश्च लोम्नां च विवरेषु च शौनक ।। १५ ।।
प्रतिविश्वेषु दिक्पाला ब्रह्मविष्णुमहेश्वराः ।।
सुरा नरादयः सर्वे सन्ति कृष्णस्य मायया ।। १६ ।।
ब्राह्माण्डगणनां कर्तुं न क्षमो जगतां पतिः ।।
न शङ्करो न धर्मश्च न च विष्णुश्च के सुराः।।१७।।
संख्यातुमीश्वरः शक्तो न संख्यातुं तथापि सः ।।
विश्वाकाशदिशां चैव सर्वतो यद्यपि क्षमः ।। १८ ।।
कृत्रिमाणि च विश्वानि विश्वस्थानि च यानि च ।।
अनित्यानि च विप्रेन्द्र स्वप्नवन्नश्वराणि च ।। १९ ।।
वैकुण्ठः शिवलोकश्च गोलोकश्च तयोः परः ।।
नित्यो विश्वबहिर्भूतश्चात्माकाशदिशो यथा ।। 1.7.२० ।।
इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे सृष्टिनिरूपणं नाम सप्तमोऽध्यायः ।। ७ ।।