प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४ ब्रह्मवैवर्तपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →

नारायण उवाच ।।
धर्मध्वजस्य पत्नी च माधवीति च विश्रुता।।
नृपेण सार्द्धं सा रागाद्रेमे वै गन्धमादने ।। १ ।।
शय्यां रतिकरींकृत्वा पुष्पचन्दनचर्चिता ।।
चन्दनोक्षितसर्वाङ्गी पुष्पचन्दनवायुना ।। २ ।।
स्त्रीरत्नमतिचार्वंगी रत्नभूषणभूषिता ।।
कामुकी रसिकश्रेष्ठा रसिकेशेन संगता ।। ३ ।।
सुरताद्विरतिर्नासीत्तयोः सुरतविज्ञयोः ।।
गतं वर्षशतं दैवं नाजानीतां दिवानिशम्।।४।।
ततो रजस्वलां प्राप्य सुरताद्विरराम सः ।।
कामुकी सुन्दरी किंचिन्न च तृप्तिं जगाम सा ।।५।।
दधार गर्भं सा सद्यो देवाब्दशतकं सती ।।
श्रीगर्भा श्रीयुता सा च संबभूव दिनेदिने ।। ६ ।।
शुभक्षणे शुभदिने शुभयोगेन संयुते ।।
शुभलग्ने शुभांशे च शुभस्वामिगृहान्विते ।। ७ ।।
कार्तिकीपूर्णिमायां च सितवारे च पद्मजे ।।
सुषाव सा च पद्मांशां पद्मिनीं सुमनोहराम् ।। ८ ।।
पादपद्मयुगे चैव पद्मरागविराजिताम् ।।
राजराजेश्वरीं लक्ष्मीं सर्वावयवसुन्दरीम् ।। ९ ।।
राजलक्ष्मीलक्ष्मयुक्तां राजलक्ष्म्यधिदेवताम् ।।
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।। 2.15.१० ।।
पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ।।
हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् ।। ११ ।।
तदधस्त्रिवलीयुक्तां वृत्तवल्गुनितम्बिनीम्।।
शीते सुखोष्णसर्वांगीं ग्रीष्मे च सुखशीतलाम् ।। १२ ।।
श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ।।
श्वेतचम्पकवर्णाभां सुन्दरीष्वेकसुन्दरीम् ।। १३ ।।
नरा नार्य्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ।।
तेन नाम्ना च तुलसीं तां वदन्ति पुराविदः ।। १४ ।।
सा च भूमिष्ठमात्रेण योग्या स्त्रीप्रकृतिर्यथा ।।
सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् ।। १५ ।।
तत्र दैवाब्दलक्षं च चकार परमं तपः ।।
मम नारायणः स्वामी भवितेति विनिश्चिता ।। १६ ।।
ग्रीष्मे पञ्चतपाः शीते तोयस्था सा च सुन्दरी ।।
प्रकाशस्था वृष्टिधारां सहन्ती च दिवानिशम् ।। ।। १७ ।।
विंशत्सहस्रवर्षं च फलतोयाशना च सा ।।
त्रिंशच्छतसहस्राब्दं पत्राहारा तपस्विनी ।। १८ ।।
चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी।।
ततो दशसहस्राब्दं निराहारा बभूव सा।।१९।।
निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः।।
समाययौ वरं दातुं परं बदरिकाश्रमम् ।। 2.15.२० ।।
चतुर्मुखं च सा दृष्ट्वा प्राणंसीद्धंसवाहनम् ।।
तामुवाच जगत्कर्ता विधाता जगतामपि ।। २१ ।।
ब्रह्मोवाच ।।
वरं वृणुष्व तुलसि यत्ते मनसि वाञ्छितम् ।।
हरिभक्तिं च मुक्तिं वाऽप्यजरामरतामपि ।। २२ ।।
तुलस्युवाच ।।
शृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ।।
सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् ।। २३ ।।
अहं च तुलसी गोपी गोलोकेऽहं स्थिता पुरा ।।
कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया ।। २४ ।।
गोविन्देन सहासक्तामतृप्तां मां च मूर्च्छिताम् ।।
रासेश्वरी समागत्य चापश्यद्रासमण्डले।।२५।।
गोविन्दं भर्त्सयामास मां शशाप रुषाऽन्विता।।
याहि त्वं मानवीं योनिमित्येवं च पितामह।।२६।।
मामुवाच स गोविन्दो मदंशं त्वं चतुर्भुजम् ।।
लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् ।। २७ ।।
इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानमवाप सः ।।
देव्या भिया तनुं त्यक्त्वा लब्धं जन्म मया भुवि ।। २८ ।।
अहं नारायणं कान्तं शान्तं सुन्दविग्रहम् ।।
साम्प्रतं लब्धुमिच्छामि वरमेवं च देहि मे ।। २९ ।।
ब्रह्मोवाच ।।
सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ।।
तदंशश्चातितेजस्वी चालभज्जन्म भारते ।। 2.15.३० ।।
साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ।।
शङ्खचूड इति ख्यातस्त्रैलाक्ये न च तत्परः ।। ३१ ।।
गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ।।
विलंघितुं न शक्नोति राधिकायाः प्रभावतः ।। ३२ ।।
स च जातिस्मरस्तप्त्वा त्वां ललाभ वरेण च ।।
जातिस्मरा तु त्वमपि सर्वं जानासि सुन्दरि ।। ३३ ।।
अधुना तस्य पत्नी च भव भाविनि शोभने ।।
पश्चान्नारायणं कान्तं शान्तमेव लभिष्यसि ।। ३४ ।।
शापान्नारायणस्यैव कलया दैवयोगतः ।।
प्राप्नोषि वृक्षरूपं तं त्वं पूता विश्वपावनी ।। ३५ ।।
प्रधाना सर्वपुष्पाणां विष्णुप्राणाधिका भवेत् ।।
त्वया विना च सर्वेषां पूजा च विफला भवेत् ।।३६।।
वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ।।
त्वत्पत्रैर्गोपिका गोपाः पूजयिष्यन्ति माधवम्।।३७।।
वृक्षाधिदेवीरूपेण सार्द्धं कृष्णेन सन्ततम्।।
विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च।।३८।।
इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा।।
प्रणनाम च धातारं तं च किंचिदुवाच ह।।३९।।
तुलत्युवाच।।
यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे।।
सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे।।2.15.४०।।
अतृप्ताऽहं च गोविन्दे दैवाच्छृङ्गारभंगतः ।।
गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम्।।४१।।
तत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ।।
ध्रुवमेव लभिष्यामि राधा भीतिं प्रमोचय ।। ४२ ।।
ब्रह्मोवाच ।।
गृहाण राधिकामन्त्रं ददे वै षोडशाक्षरम् ।।
तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि।।४३।।
शृंगारं युवयोर्गोप्यमाज्ञास्यति च राधिका ।।
राधासमा त्वं सुभगा गोविन्दस्य भविष्यसि ।। ४४ ।।
इत्येवमुक्त्वा दत्त्वा च देव्यै तत्षोडशाक्षरम् ।।
मन्त्रं तस्यै जगद्धाता स्तोत्रं च कवचं परम् ।। ४५ ।।
सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ।।
परं शुभाशिषं कृत्वा सोऽन्तर्द्धानमवाप ह ।। ४६ ।।
सा च ब्रह्मोपदेशेन पुण्ये बदरिकाश्रमे ।।
जजाप परमं मन्त्रं यदिष्टं पूर्वजन्मनः ।। ४७ ।।
दिव्यं द्वादशवर्षं च पूजां चैव चकार सा ।।
बभूव सिद्धा सा देवी तत्प्रत्यादेशमाप च ।। ४८ ।।
सिद्धे तपसि मन्त्रे च वरं प्राप्य यथेप्सितम् ।।
बुभुजे च महाभागं यद्विश्वेषु सुदुर्लभम् ।। ४९ ।।
प्रसन्नमानसा देवी तत्याज तपसः क्लमम् ।।
सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ।। 2.15.५० ।।
भुक्त्वा पीत्वा च सन्तुष्टा शयनं च चकार सा ।।
तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ।। ५१ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने तुलसीवरप्रदानं नाम पञ्चदशोऽध्यायः।।१५।।