प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४८ ब्रह्मवैवर्तपुराणम्
अध्यायः ४९
वेदव्यासः
अध्यायः ५० →

पार्वत्युवाच ।।
कथं सुदामशापञ्च सा देवी ललाभ ह ।।
कथं शशाप भृत्यो हि स्वाभीष्टां देवकामिनीम् ।। १ ।।
श्रीभगवानुवाच ।।
शृणु देवी प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।।
गोप्यं सर्वपुराणेषु शुभदं भक्तिमुक्तिदम् ।। २ ।।
एकदा राधिकेशश्च गोलोके रासमण्डले ।।
शतशृंगाख्यगिर्येकदेशे वृन्दावने वने ।।३।।
गृहीत्वा विरजां गोपीं सुभाग्यां राधिकासमाम् ।।
क्रीडां चकार भगवान्रत्नभूषणभूषितः ।। ४ ।।
रत्नप्रदीपसंयुक्ते रत्ननिर्माणमण्डले ।।
अमूल्यरत्नखचितमञ्चके पुष्पतल्पके ।। ५ ।।
कस्तूरीकुंकुमारक्ते सुचन्दनसुधूपिते ।।
सुगन्धिमालतीमालासमूहपरिमण्डिते ।। ६ ।।
सुरताद्विरतिर्नास्ति दम्पती रतिपण्डितौ ।।
तौ द्वौ परस्पराक्तौ सुखसम्भोगतन्त्रितौ ।। ७ ।।
मन्वन्तराणां लक्षश्च कालः परिमितो गतः ।।
गोलोकस्य स्वल्पकाले जन्मादिरहितस्य च ।। ८ ।।
दूत्यश्चतस्रो ज्ञात्वाऽथ जगदुस्तां तु राधिकम् ।।
श्रुत्वा परमरुष्टा सा तत्याज हरिमीश्वरी ।।९।।
प्रबोधिता च सखिभिः कोपरक्तास्यलोचना ।।
विहाय रत्नालङ्कारं वह्निशुद्धांशुके शुभे ।। 2.49.१० ।।
क्रीडापद्मं च सद्रत्नामूल्यदर्पणमुज्ज्वलम् ।।
निर्मार्जयामास सती सिन्दूरं चित्रपत्रकम् ।। ११ ।।
प्रक्षाल्य तोयाञ्जलिभिर्मुखरागमलक्तकम् ।।
विस्रस्तकबरीभारा मुक्तकेशी प्रकम्पिता ।। १२ ।।
शुक्लवस्त्रपरीधाना रूक्षा वेषादिवर्जिता ।।
ययौ यानान्तिकं तूर्णं प्रियालीभिर्निवारिता।।१३।।
आजुहाव सखीसंघं रोषविस्फुरिताधरा ।।
शश्वत्कम्पान्वितांगी सा गोपीभिः परिवारिता ।।१४।।
ताभिर्भक्त्या युताभिश्च कातराभिश्च संस्तुता ।।
आरुरोह रथं दिव्यममूल्यं रत्ननिर्मितम् ।।
दशयोजनविस्तीर्णं दैर्घ्ये तच्छतयोजनम् ।।१५।।
सहस्रचक्रयुक्तं च नानाचित्रसमन्वितम् ।।
नानाविचित्रवसनैः सूक्ष्मैः क्षौमैर्विराजितम् ।। १६ ।।
अमूल्यरत्ननिर्माणदर्पणैः परिशोभितम् ।।
मणीन्द्रजालमालाभैः पुष्पमालासहस्रकैः ।। १७ ।।
सद्रत्न कलशैर्युक्तं रम्यैर्मन्दिरकोटिभिः ।।
त्रिलक्षकोटिभिः सार्द्ध गोपीभिश्च प्रियालिभिः ।। १८ ।।
ययौ रथेन तेनैव सुमनोमालिना प्रिये ।।
श्रुत्वा कोलाहलं गोपः सुदामा कृष्णपार्षदः ।। १९ ।।
कृष्णं कृत्वा सावधानं गोपैः सार्द्धं पलायितः ।।
भयेन कृष्णः सन्त्रस्तो विहाय विरजां सतीम् ।। 2.49.२० ।।
स्वप्रेममग्नः कृष्णोऽपि तिरोधानं चकार सः ।।
सा सती समयं ज्ञात्वा विचार्य्य स्वहृदि क्रुधा ।। २१ ।।
राधाप्रकोपभीता च प्राणांस्तत्याज तत्क्षणम् ।।
विरजालिगणास्तत्र भयविह्वलकातराः ।। २२ ।।
प्रययुः शरणं साध्वीं विरजां तत्क्षणं भिया ।।
गोलोके सा सरिद्रूपा जाता वै शैलकन्यके ।। २३ ।।
कोटियोजनविस्तीर्णा दीर्घे शतगुणा तथा ।।
गोलोकं वेष्टयामास परिखेव मनोहरा ।। २४ ।।
बभूवुः क्षुद्रनद्यश्च तदाऽन्या गोप्य एव च ।।
सर्वा नद्यस्तदंशाश्च प्रतिविश्वेषु सुन्दरि ।। २५ ।।
इमे सप्त समुद्राश्च विरजानन्दना भुवि ।।
अथागत्य महाभागा राधा रासेश्वरी परा ।। २६ ।।
न दृष्ट्वा विरजां कृष्णं स्वगृहं च पुनर्ययौ ।।
जगाम कृष्णस्तां राधां गोपालैरष्टभिः सह ।। २७ ।।
गोपीभिर्द्वारि युक्ताभिर्वारितोऽपि पुनः पुनः ।।
दृष्ट्वा कृष्णं च सा देवी भर्त्सयामास तं तदा ।। २८ ।।
सुदामा भर्त्सयामास तां तथा कृष्णसन्निधौ ।।
क्रुद्धा शशाप सा देवी सुदामानं सुरेश्वरी ।। २९ ।।
गच्छ त्वमासुरीं योनिं गच्छ दूरमतो द्रुतम् ।।
शशाप तां सुदामा च त्वमितो गच्छ भारतम् ।। 2.49.३० ।।
भव गोपी गोपकन्यामुख्याभिः स्वाभिरेव च ।।
तत्र ते कृष्णविच्छेदो भविष्यति शतं समाः ।। ।।३१।।
तत्र भारावतरणं भगवांश्च करिष्यति ।।
इति शप्त्वा सुदामाऽसौ प्रणम्य जननीं हरिम् ।।
साश्रुनेत्रो मोहयुक्तस्ततो गन्तुं समुद्यतः ।। ३२ ।।
राधा जगाम तत्पश्चात्साश्रुनेत्राऽतिविह्वला ।।
वत्स क्व यासीत्युच्चार्य्य पुत्रविच्छेदकातरा ।। ३३ ।।
कृष्णस्तां बोधयामास विद्यया च कृपानिधिः ।।
शीघ्रं संप्राप्स्यसि सुतं मा रुदस्त्वं वरानने ।। ३४ ।।
स चासुरः शङ्खचूडो बभूव तुलसीपतिः ।।
मच्छूलभिन्नकायेन गोलोकं वै जगाम सः ।। ३५ ।।
राधा जगाम वाराहे गोकुलं भारतं सती ।।
वृषभानोश्च वैश्यस्य सा च कन्या बभूव ह ।। ३६ ।।
अयोनिसम्भवा देवी वायुगर्भा कलावती ।।
सुषुवे मायया वायुं सा तत्राविर्बभूव ह ।। ३७ ।।
अतीते द्वादशाब्दे तु दृष्ट्वा तां नवयौवनाम् ।।
सार्धं रायाणवैश्येन तत्सम्बन्धं चकार सः ।। ३८ ।।
छायां संस्थाप्य तद्गेहे साऽन्तर्द्धानमवाप ह ।।
बभूव तस्य वैश्यस्य विवाहश्छायया सह ।। ३९ ।।
गते चतुर्दशाब्दे तु कंसभीतेश्छलेन च ।।
जगाम गोकुलं कृष्णः शिशुरूपी जगत्पतिः ।। 2.49.४० ।।
कृष्णमाता यशोदा या रायाणस्तत्सहोदरः ।।
गोलोके गोपकृष्णांशः सम्बन्धात्कृष्णमातुलः।।४१।।
कृष्णेन सह राधायाः पुण्ये वृन्दावने वने ।।
विवाहं कारयामास विधिना जगतां विधिः।।४२।।
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः।।
स्वयं राधा हरेः क्रोडे छाया रायाणमन्दिरे।।४३।।
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः।।
राधिकाचरणाम्भोजदर्शनार्थी च पुष्करे ।।४४।।
भारावतरणे भूमेर्भारते नन्दगोकुले ।।
ददर्श तत्पदाम्भोजं तपसस्तत्फलेन च।४५।।
किञ्चित्कालं स वै कृष्णः पुण्ये वृन्दावने वने ।।
रेमे गोलोकनाथश्च राधया सह भारते।। ४६ ।।
ततः सुदामशापेन विच्छेदश्च बभूव ह ।।
तत्र भारावतरणं भूमेः कृष्णश्चकार सः ।। ४७ ।।
शताब्दे समतीते तु तीर्थयात्राप्रसंगतः ।।
ददर्श कृष्णं सा राधा स च तां च परस्परम् ।। ४८ ।।
ततो जगाम गोलोकं राधया सह तत्त्ववित् ।।
कलावती यशोदा च पर्यगाद्राधया सह ।। ४९ ।।
वृषभानुश्च नन्दश्च ययौ गोलोकमुत्तमम् ।।
सर्वे गोपाश्च गोप्यश्च ययुस्ता याः समागताः ।। 2.49.५० ।।
छाया गोपाश्च गोप्यश्च प्रापुर्मुक्तिं च सन्निधौ ।।
रेमिरे ताश्च तत्रैव सार्द्धं कृष्णेन पार्वति ।। ५१ ।।
षट्त्रिंशल्लक्षकोट्यश्च गोप्यो गोपाश्च तत्समाः ।।
गोलोकं प्रययुर्मुक्ताः सार्धं कृष्णेन राधया ।। ५२ ।।
द्रोणः प्रजापतिर्नन्दो यशोदा तत्प्रिया धरा ।।
संप्राप पूर्वतपसा परमात्मानमीश्वरम् ।। ५३ ।।
वसुदेवः कश्यपश्च देवकी चादितिः सती ।।
देवमाता देवपिता प्रतिकल्पे स्वभावतः ।। ५४ ।।
पितॄणां मानसी कन्या राधामाता कलावती ।।
वसुदामापि गोलोकाद् वृषभानुः समाययौ ।। ५५ ।।
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम् ।।
सम्पत्करं पापहरं पुत्रपौत्रविवर्धनम् ।। ५६ ।।
श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः ।।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।। ५७ ।।
चतुर्भुजस्य पत्नी च महालक्ष्मीः सरस्वती ।।
गंगा च तुलसी चैव देव्यो नारायणप्रियाः ।।५८।।
श्रीकृष्णपत्नी सा राधा तदर्द्धाङ्गसमुद्भवा ।।
तेजसा वयसा साध्वी रूपेण च गुणेन च ।। ५९ ।।
आदौ राधां समुच्चार्य पश्चात्कृष्णं वदेद्बुधः ।।
व्यतिक्रमे ब्रह्महत्यां लभते नात्र संशयः ।। 2.49.६० ।।
कार्त्तिकीपूर्णिमायां च गोलोके रासमण्डले ।।
चकार पूजां राधायास्तत्सम्बन्धिमहोत्सवम् ।। ६१ ।।
सद्रत्नघुटिकायाश्च कृत्वा तत्कवचं हरिः ।।
दधार कण्ठे बाहौ च दक्षिणे सह गोपकैः ।। ६२ ।।
कृत्वा ध्यानं च भक्त्या च स्तोत्रमेतच्चकार सः ।।
राधाचर्वितताम्बूलं चखाद मधुसूदनः ।। ६३ ।।
राधा पूज्या च कृष्णस्य तत्पूज्यो भगवान्प्रभुः ।।
परस्पराभीष्टदेवे भेदकृन्नरकं व्रजेत् ।। ६४ ।।
द्वितीये पूजिता सा च धर्मेण ब्रह्मणा मया ।।
अनन्तवासुकिभ्यां च रविणा शशिना पुरा ।। ६५ ।।
महेन्द्रेण च रुद्रैश्च मनुना मानवेन च ।।
सुरेन्द्रैश्च मुनीन्द्रैश्च सर्वविश्वैश्च पूजिता ।। ६६ ।।
तृतीये पूजिता सा च सप्तद्वीपेश्वरेण च ।।
भारते च सुयज्ञेन पुत्रैर्मित्रैर्मुदाऽन्वितैः ।। ६७ ।।
ब्राह्मणेनाभिशप्तेन देवदोषेण भूभृता ।।
व्याधिग्रस्तेन हस्तेन दुःखिना च विदूयता ।। ६८ ।।
संप्राप राज्यं भ्रष्टश्रीः स च राधावरेण च ।।
स्तोत्रेण ब्रह्मदत्तेन स्तुत्वा च परमेश्वरीम् ।। ६९ ।।
अभेद्यं कवचं तस्याः कण्ठे बाहौ दधार सः ।।
ध्यात्वा चकार पूजां च पुष्करे शतवत्सरान् ।। 2.49.७० ।।
अन्ते जगाम गोलोकं रत्नयानेन भूमिपः ।।
इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।। ७१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गत हरगौरीसंवादे राधोपाख्याने राधायाः सुदामशापादिकथनं नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।