प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५७ ब्रह्मवैवर्तपुराणम्
अध्यायः ५८
वेदव्यासः
अध्यायः ५९ →

नारद उवाच।।
कस्य वंशोद्भवो राजा सुरथो धर्मिणां वरः।।
कथं संप्राप वै ज्ञानं मेधसो ज्ञानिनां वरात्।।१।।
कस्य वंशोद्भवो ब्रह्मन्मेधसो मुनिसत्तम।।
बभूव कुत्र संवादो नृपस्य मुनिना सह।।२।।
सख्यं बभूव कुत्रास्य वा प्रभो नृपवैश्ययोः।।
व्यासेन श्रोतुमिच्छामि वद वेदविदां वर ।।३।।
नारायण उवाच ।।
अत्रिश्च ब्रह्मणः पुत्रस्तस्य पुत्रो निशाकरः ।।
स च कृत्वा राजसूयं द्विजराजो बभूव ह ।। ४ ।।
गुरुपत्न्यां च तारायां तस्याभूच्च बुधः सुतः ।।
बुधपुत्रस्तु चैत्रश्च तत्पुत्रः सुरथः स्मृतः ।। ५ ।।
नारद उवाच ।।
गुरुपत्न्यां च तारायां समभूत्तत्सुतः कथम्।।
अहो व्यतिक्रमं ब्रूहि वेदस्य च महामुने ।। ६ ।।
नारायण उवाच ।।
सम्पन्मत्तो महाकामी व्यचरज्जाह्नवीतटे ।।
तारां सुरगुरोः पत्नीं धर्मिष्ठां च पतिव्रताम् ।। ७ ।।
सुस्नातां सुन्दरीं रम्यां पीनोन्नतपयोधराम् ।।
सुश्रोणीं सुनितम्बाढ्यां मध्यक्षीणां मनोहराम् ।। ८ ।।
सुदतीं कोमलांगीं च नवयौवनसंयुताम् ।।
सूक्ष्मवस्त्रपरीधानां रत्नभूषणभूषिताम् ।। ९ ।।
कस्तूरीबिन्दुना सार्द्धमधश्चन्दनबिन्दुना ।।
सिन्दूरबिन्दुना चारुफालमध्यस्थलोज्ज्वलाम् ।। 2.58.१० ।।
वायुनाऽधोवस्त्रहीनां सकामां रक्तलोचनाम् ।।
शरत्पार्वणचन्द्रास्यां पक्वबिम्बाधरां वराम् ।। ११ ।।
सस्मितां नम्नवक्त्रां च लज्जया चन्द्रदर्शनाम् ।।
गच्छन्तीं स्वगृहं हर्षान्मत्तवारणगामिनीम् ।। १२ ।।
तां दृष्ट्वा मन्मथाक्रान्तश्चन्द्रो लज्जां जहौ मुने ।।
पुलकांकितसर्वाङ्गः सकामस्तामुवाच सः ।। १३ ।।
चन्द्र उवाच ।।
योषिच्छ्रेष्ठे क्षणं तिष्ठ वरिष्ठे रसिकासु च ।।
सुविदग्धे विदग्धानां मनो हरसि सन्ततम् ।। १४ ।।
निषेव्य प्रकृतिं जन्मसहस्रे कामसागरे ।।
तपःफलेन त्वां प्राप बृहच्छ्रोणीं बृहस्पतिः ।। १५ ।।
अहो तपस्विना सार्द्धमविदग्धेन वेधसा ।।
योजिता त्वं रसवती शश्वत्कामातुरा वरा ।। १६ ।।
किं वा सुखं च विज्ञातमविज्ञेषु समागमे ।।
विदग्धाया विदग्धेन सङ्गमः सुखसागरः ।। १७ ।।
कामेन कामिनी त्वं च दग्धाऽसि व्यर्थमीश्वरि ।।
कर्मणा वाऽऽत्मदोषाद्वा को जानाति मनः स्त्रियाः ।। १८ ।।
दिने दिने वृथा याति दुर्लभं नवयौवनम् ।।
नवीनयौवनस्थाया वृद्धेन स्वामिना तव ।। १९ ।।
शश्वत्तपस्यायुक्तश्च कृष्णमात्मानमीप्सितम् ।।
स्वप्ने जागरणे वाऽपि ध्यायन्नास्ते बृहस्पतिः ।। 2.58.२० ।।
सर्वकामरसज्ञा त्वं निष्कामं काममीप्सितम् ।।
ध्यायन्ती कामुकी शश्वद्यूनां शृंगारमात्मनि ।। २१ ।।
अन्यश्च त्वन्मनःकामो भिन्नं त्वद्भर्तुरीप्सितम् ।।
ययोश्च भिन्नौ विषयौ का प्रीतिः संगमे तयोः ।। २२ ।।
वासन्तीपुष्पतल्पे च गन्धचन्दन चर्चिते ।।
मोदस्व मां गृहीत्वा त्वं वसन्ते माधवीवने ।। २३ ।।
सुगन्ध्युत्फुल्लकुसुमे निर्जने चन्दने वने ।।
भवती युवती भाग्यवती तत्रैव मोदताम् ।। २४ ।।
चन्दने चम्पकवने शीतचम्पकवायुना ।।
रम्ये चम्पकतल्पे च क्रीडां कुरु मया सह ।। २५।।
इत्युक्त्वा मदनो न्मत्तो मदनाधिकसुन्दरः ।।
पपात चरणे देव्या मन्दो मन्दाकिनीतटे ।। २५ ।।
निरुद्धमार्गा चन्द्रेण शुष्ककण्ठौष्ठतालुका ।।
अभीतोवाच कोपेन रक्तपंकजलोचना ।। २४ ।।
तारोवाच ।।
धिक् त्वां चन्द्र तृणं मन्ये परस्त्रीलम्पटं शठम् ।।
अत्रेरभाग्यात्त्वं पुत्रो व्यर्थं ते जन्म जीवनम् ।। २८ ।।
अरे कृत्वा राजसूयमात्मानं मन्यसे बली ।।
बभूव पुण्यं ते व्यर्थं विप्रस्त्रीषु च यन्मनः ।। २९ ।।
यस्य चित्तं परस्त्रीषु सोऽशुचिः सर्वकर्मसु ।।
न कर्मफलभाक्पापी निन्द्यो विश्वेषु सर्वतः 2.58.३० ।।
सतीत्वं मे नाशयसि यक्ष्मग्रस्तो भविष्यसि ।।
अत्युच्छ्रितो निपतनं प्राप्नोतीति श्रुतौ श्रुतम् ।। ३१ ।।
दुष्टानां दर्पहा कृष्णो दर्पं ते निहनिष्यति ।।
त्यज मां मातरं वत्स सत्यं ते शं भविष्यति ।। ३२ ।।
 इत्युक्त्वा तारका साध्वी रुरोद च मुहुर्मुहुः ।।
चकार साक्षिणं धर्मं सूर्य्यं वायुं हुताशनम् ।। ३३ ।।
ब्रह्माणं परमात्मानमाकाशं पवनं धराम् ।।
दिनं रात्रिं च सन्ध्यां च सर्वं सुरगणं मुने ।। ३४ ।।
तारकावचनं श्रुत्वा न भीतः स चुकोप ह।।
करे धृत्वा रथे तूर्णं स्थापयामास सुन्दरीम् ।।३५।।
रथं च चालयामास मनोयायी मनोहरम्।।
मनोहरां गृहीत्वा तां स च रेमे मनोहरम् ।। ३६ ।।
विस्पन्दके सुरवने चन्दने पुष्पभद्रके ।।
पुष्करे च नदीतीरे पुष्पिते पुष्पकानने ।।३७।।
सुगन्धि पुष्पतल्पे च पुष्पचन्दनवायुना ।।
निर्जने मलयद्रोण्यां स्निग्धचन्दनचर्चिते ।। ३८ ।।
शैले शैले नदे नद्यां शृंगारं कुर्वतोस्तयोः ।।
गतं वर्षशतं हर्षान्मुहूर्त्तमिव नारद ।। ३९ ।।
बभूव शरणापन्नो भीतो दैत्येषु चन्द्रमाः ।।
तेजस्विनि तथा शुक्रे तेषां च बलिनां गुरौ ।। 2.58.४० ।।
अभयं च ददौ तस्मै कृपया भृगुनन्दनः ।।
गुरुं जहास देवानां सुविपक्षं बृहस्पतिम् ।। ४१ ।।
सभायां जहसुर्हृष्टा बलिनो दितिनन्दनाः ।।
अभयं च ददुस्तस्मै भीताय च कलङ्किने ।। ४२ ।।
सतीसतीत्वध्वंसेन पापिष्ठचन्द्रमण्डले ।।
बभूव शशरूपं च कलंकं निर्मले मलम् ।। ४३ ।।
उवाच तं महाभीतं शुक्रो वेदविदां वरः ।।
हितं तथ्यं वेदयुक्तं परिणामसुखावहम् ।। ४४ ।।
शुक्र उवाच ।।
त्वमहो ब्रह्मणः पौत्रोऽप्यत्रेर्भगवतः सुतः ।।
दुर्नीतं कर्म ते पुत्र नीचवन्नयशस्करम् ।। ४५ ।।
राजसूयस्य सुफले निर्मले कीर्त्तिमण्डले ।।
सुधाराशौ सुराबिन्दुरूपमंकमुपार्जितम् ।। ४६ ।।
त्यज देवगुरौ पत्नीं प्रसूमिव महासतीम् ।।
धर्मिष्ठस्य वरिष्ठस्य ब्राह्मणानां बृहस्पतेः ।। ४७ ।।
शम्भोः सुराणामीशस्य गुरुपुत्रस्य वेधसः ।।
पौत्रस्यांगिरसे नित्यं ज्वलतो ब्रह्मतेजसा ।।४८।।
शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि ।।
इति सद्वंशजातानां स्वभावं च सतामपि ।।४९।।
स शत्रुर्मे सुरगुरुः परो विश्वे निशाकर ।।
तथाऽपि सहजाख्यानं वर्णितं धर्मसंसदि ।।
यत्र लोकाश्च धर्मिष्ठास्तत्र धर्मः सनातनः ।। ।। 2.58.५० ।।
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।।
गौरेकं पञ्च च व्याघ्री सिंही सप्त प्रसूयते ।। ५१ ।।
हिंसकाः प्रलयं यान्ति धर्मो रक्षति धार्मिकम् ।।
देवाश्च गुरवो विप्राः शक्ता यद्यपि रक्षितुम् ।।५२।।
तथाऽपि नहि रक्षन्ति धर्मघ्नं पापिनं जनम्।।
कुलटा विप्रपत्नीनां गमने सुरविप्रयोः ।। ५३ ।।
ब्रह्महत्याषोडशांश पातकं च भवेद्ध्रुवम् ।।
तासामुपस्थितानां च गमने तच्चतुर्थकम् ।। ५४ ।।
विप्रपत्नीसतीनां च गमनं वै बलेन चेत् ।।
ब्रह्महत्याशतं पापं भवेदेव श्रुतौ श्रुतम् ।। ५५ ।।
धर्म्मं चर महाभाग ब्राह्मणीं त्यज साम्प्रतम् ।।
कृत्वाऽनुतापं पापाच्च निवृत्तिस्तु महाफला ।। ५६ ।।
उपायेन च ते पापं दूरीभूतं भवेन्ननु ।।
शरणागत भीतस्य मयि देवस्य धर्मतः ।। ५७ ।।
शस्त्रहीनं च भीतं च दीनं च शरणार्थिनम् ।।
यो न रक्षत्यधर्मिष्ठः कुम्भीपाके वसेद्ध्रुवम्।। । ।। ५८ ।।
राजसूयशतानां च रक्षिता लभते फलम् ।।
परमैश्वर्य्ययुक्तश्च धर्मेण स भवेदिह ।। ५९ ।।
इत्युक्त्वा वै दैत्यगुरुः स्वर्गे मन्दाकिनीतटे ।।
स्नात्वा तं स्नापयामास विष्णुपूजां चकार सः ।। 2.58.६० ।।
विष्णुपादाब्जजातेन तन्नैवेद्यं शुभप्रदम् ।।
गंगोदकेन पुण्येन भोजयामास चन्द्रकम् ।।६१।।
क्रोडे कृत्वा तु तं भीतं सज्जितं पापकर्मणा ।।
कुशहस्तस्तमित्यूचे स्मारंस्मारं हरिं मुने ।। ।। ६२ ।।
शुक्र उवाच ।।
यद्यस्ति मे तपः सत्यं सत्यं पूजाफलं हरे ।।
सत्यं व्रतफलं चैव सत्यं सत्यवचः फलम् ।। ६३ ।।
तीर्थस्नानफलं सत्यं सत्यं दानफलं यदि ।।
उपवासफलं सत्यं पापान्मुक्तो भवान्भवेत् ।। ६४ ।।
विप्रं त्रिसन्ध्याहीनं या विष्णुपूजाविही नकम् ।।
तन्नाप्नोतु महाघोरं चन्द्रपापं सुदारुणम् ।। ६५ ।।
स्वभार्य्यावञ्चनं कृत्वा यः प्रयाति परस्त्रियम् ।।
स यातु नरकं घोरं रुद्रपापेन पातकी ।।६६।।
वाचा वा ताडयेत्कान्तं दुश्शीला दुर्मुखा च या ।।
सा युगं चन्द्रपापेन यातु लालामुखं ध्रुवम् ।।६७।।
अनैवेद्यं वृथान्नं च यश्च भुङ्क्ते हरेर्द्विजः ।।
स यातु कालसूत्रं च चन्द्रपापाच्चतुर्युगम् ।। ६८ ।।
अम्बुवाच्यं भूखननं यः करोति नरा धमः ।।
चन्द्रपापाद्युगशतं कालसूत्रं स गच्छतु ।। ६९ ।।
स्वकान्तं वञ्चयित्वा च या याति परपूरुषम् ।।
सा यातु वह्निकुण्डं च चन्द्रपापाच्चतुर्युगम् ।। 2.58.७० ।।
कीर्त्तिं करोति रजसा परकीर्त्तिं विलुप्य च ।।
स युगं चन्द्रपापेन कुम्भीपाकं च गच्छतु ।। ७१ ।।
पितरं मातरं भार्य्यां यो न पुष्णाति पातकी ।।
स्वगुरुं चन्द्रपापेन यातु चण्डालतां ध्रुवम् ।। ७२ ।।
कुलटान्नमवीरान्नमृतुस्नातान्नमेव च ।।
योऽश्नाति चन्द्रपापं च यातु तं पापिनं ध्रुवम् ।।७३।।
स यातु तेन पापेन कुम्भीपाकं चतुर्युगम् ।।
तस्मादुत्तीर्य्य चाण्डालीं योनिमाप्नोति पातकी ।। ७४ ।।
दिवसे यो ग्राम्यधर्मं महापापी करोति च ।।
यो गच्छेत्कामतः कामी गुर्विणीं वा रजस्वलाम् ।। ७५ ।।
तं यातु चन्द्रपापं च महाघोरं च पापिनम् ।।
स यातु तेन पापेन कालसूत्रं चतुर्युगम् ।।७६।।
मुखं श्रोणीं स्तनं चापि यः पश्यति परस्त्रियाः ।।
कामतः कामदग्धश्च यातु तं चन्द्रकल्मषम् ।।७७।।
स यातु लालाभक्षं च चन्द्रपापाच्चतुर्युगम् ।।
तस्मादुत्तीर्य्य भवतु चाण्डालोऽन्धो नपुंसकः ।। ७८ ।।
कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च ।।
मांसं मसूरं लकुचं यश्च भुक्ङ्ते रवेर्दिने ।। ७१ ।।
कुरुते ग्राम्यधर्मं च यातु तं चन्द्रकिल्बिषम् ।।
चतुर्युगं कालसूत्रं तेन पापेन गच्छतु ।। 2.58.८० ।।
तस्मादुत्तीर्य्य चाण्डालीं योनिमाप्नोति पातकी ।।
सप्तजन्मसु सद्रोगी दरिद्रः कुब्ज एव च ।।८१।।
एकादश्यां च यो भुङ्क्ते कृष्णजन्माष्टमीदिने।।
शिवरात्रौ महापापी यातु तं चन्द्रपातकम् ।। ८२ ।।
स यातु कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ।।
तेन पापेन चाप्नोतु चाण्डालीं योनिमेव च ।। ८३ ।।
ताम्रस्थं दुग्धमाध्वीकमुच्छिष्टे घृतमेव च ।।
नारिकेलोदकं कांस्ये दुग्धं सलवणं तथा ।। ८४ ।।
पीतशेष जलं चैव भुक्तशेषं तथौदनम् ।।
असकृच्चौदनं भुङ्क्ते सूर्य्ये नास्तं गते द्विजः ।। ८५ ।।
तं यातु चन्द्रपापं च दुर्निवारं च दारुणम् ।।
स यातु तेन पापेन चान्धकूपं चतुर्युगम् ।। ८६ ।।
स्वकन्याविक्रयी विप्रो देवलो वृषवाहकः ।।
शूद्राणां शवदाही च तेषां वै सूपकारकः ।। ८७ ।।
अश्वत्थतरुघाती च विष्णुवैष्णवनिन्दकः ।।
तं यातु चन्द्रपापं च दारुणं पापिनं भृशम् ।। ।। ८८ ।।
स यातु तस्मात्पापाच्च तप्तसूर्मीं च पातकी ।।
शश्वद्दग्धो भवतु स यावदिन्द्राश्चतुर्दश ।। ८९ ।।
तस्मादुतीर्य्य चाण्डालीं योनिमाप्नोति पातकी ।।
सप्तजन्मसु चाण्डालो वृषभः पञ्चजन्मसु ।। 2.58.९० ।।
गर्दभो जन्मशतकं सूकरस्सप्तजन्मसु ।।
तीर्थध्वांक्षस्सप्तसु वै विट्कृमिः पञ्चजन्मसु ।।
जलौका जन्मशतकं शुचिर्भवतु तत्परम् ।। ९१ ।।
वृथा मांसं च यो भुङ्क्ते स्वार्थं पाकान्नमेव च ।।
तददत्तं महापापी प्राप्नुयाच्चन्द्रपातकम् ।। ९२ ।।
स यातु चन्द्रपापेन चासिपत्रं चतुर्युगम् ।।
ततो भवतु सर्पश्च पशुस्स्यात्सप्तजन्मसु ।। ९३ ।।
विप्रो वार्धुषिको यो हि योनिजीवी चिकित्सकः ।।
हरेर्नाम्नां च विक्रेता यश्च वा स्वाङ्गविक्रयी ।।९४।।
स्वधर्मकथकश्चैव यश्च स्वात्मप्रशंसकः ।।
मषीजीवी धावकश्च कुलटापोष्य एव च ।।९५।।
तं यातु चन्द्रपापं च चन्द्रो भवतु विज्वरः ।।
स यातु तेन पापेन शूलप्रोतं सुदारुणम् ।।९६।।
तत्र विद्धो भवतु स यावदिन्द्राश्चतुर्दश ।।
ततो दरिद्रो रोगी च दीक्षाहीनो नरः पशुः ।। ९७ ।।
लाक्षामांसरसानां च तिलानां लवणस्य च ।।
अश्वानां चैव लौहानां विक्रेता नरघातकः ।। ९८ ।।
विप्रः कुलालः चौरश्च यातु तं चन्द्रपातकम् ।।
स यातु तेन पापेन क्षुरधारं सुदुःसहम् ।। ९९ ।।
तत्र च्छिन्नो भवतु स यावदिन्द्रसहस्रकम् ।।
तस्मादुत्तीर्य्य स भवेत्सृगालः सप्तजन्मसु ।। 2.58.१०० ।।
सप्तजन्मसु मार्जारो महिषो जन्मपञ्चकम् ।।
सप्तजन्मसु भल्लूकः कुक्कुरस्सप्तजन्मसु ।। १०१ ।।
मत्स्यत्वे जन्मशतकं कर्कटी जन्मपञ्चकम् ।।
गोधिका जन्मशतकं गर्दभः सप्तजन्मसु ।। १०२ ।।
सप्तजन्मसु मण्डूकस्ततः स्यान्मानवोऽधमः ।।
चर्म्मकारश्च रजकस्तैलकारश्च वर्द्धकिः ।।१ ०३।।
नाविकः शवजीवी च व्याधश्च स्वर्णकारकः ।।
कुम्भकारो लोहकारस्ततः क्षत्रस्ततो द्विजः ।। १०४ ।।
इति चन्द्रं शुचिं कृत्वा समुवाच तु तारकाम् ।।
त्यक्त्वा चन्द्रं महासाध्वि गच्छ कान्तमिति द्विजः ।। १०९ ।।
प्रायश्चित्तं विना पूता त्वमेवं शुद्धमानसा ।।
अकामा या बलिष्ठेन न स्त्री जारेण दुष्यति ।। १०६ ।।
इत्येवमुक्त्वा शुक्रश्च चन्द्रं वा तारकां सतीम् ।।
सस्मितां सस्मितं चैव चकार च शुभाशिषः ।। १०७ ।।
इति श्री० ब्र० वै० महापु० द्विती० प्रकृतिख० नारदनारायणसं० दुर्गोपाख्याने ताराचन्द्रयोर्दोषनिवारणं नामाष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।