प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५८ ब्रह्मवैवर्तपुराणम्
अध्यायः ५९
वेदव्यासः
अध्यायः ६० →

नारद उवाच ।।
बृहस्पतिः किं चकार तारकाहरणान्तरे।।
कथं संप्राप तां साध्वीं तन्मे व्याख्यातुमर्हसि ।। १ ।।
श्रीनारायण उवाच ।।
दृष्ट्वा विलम्बं तारायाः स्नान्त्याश्चापि गुरुः स्वयम् ।।
प्रस्थापयामास शिष्यमन्वेषार्थं च जाह्नवीम्।।२।।
शिष्यो गत्वा च तद्वत्तं ज्ञात्वा वै लोकवक्त्रतः।।
रुदन्नुवाच स्वगुरुं तारकाहरणं मुने।।३।।
श्रुत्वा सुरगुरुर्वार्तां शशिना च प्रियां हृताम् ।।
मुहूर्त्तं प्राप मूर्च्छां च ततः संप्राप्य चेतनाम् ।। ४ ।।
रुरोदोच्चैः सशिष्यश्च हदयेन विदूयता ।।
शोकेन लज्जयाऽऽविष्टो विललाप मुहुर्मुहुः।।५।।
उवाच शिष्यान्सम्बोध्य नीतिं च श्रुतिसम्मताम् ।।
साश्रुनेत्रः साश्रुनेत्राञ्छोकार्तः शोककर्शितान् ।।६।।
बृहस्पतिरुवाच ।।
हे वत्साः केन शप्तोऽहं न जाने कारणं परम् ।।
दुःखं धर्म्मविरुद्धो यः स प्राप्नोति न संशयः ।।७।।
यस्य नास्ति सती भार्य्या गृहेषु प्रियवादिनी ।।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ।। ६ ।।
भावानुरक्ता वनिता हृता यस्य च शत्रुणा ।।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ।। ९ ।।
सुशीला सुन्दरी भार्य्या गता यस्य गृहादहो ।।
अरण्यं तेन गन्त व्यं यथाऽरण्यं तथा गृहम् ।।2.59.१०।।
दैवेनापहृता यस्य पतिसाध्या पतिव्रता ।।
अरण्यं तेन गन्तव्यं यथाऽरण्यं यथा गृहम् ।। ११ ।।
यस्य माता गृहे नास्ति गृहिणी वा सुशासिता ।।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ।। १२ ।।
प्रियाहीनं गृहं यस्य पूर्णं द्रविणबन्धुभिः ।।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ।। १३ ।।
भार्याशून्या वनसमाः सभार्याश्च गृहा गृहाः ।।
गृहिणी च गृहं प्रोक्तं न गृहं गृहमुच्यते ।।१४।।
अशुचिः स्त्रीविहीनश्च दैवे पित्र्ये च कर्मणि ।।
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्।।१५।।
दाहिकाशक्तिहीनश्च यथा मन्दो हुताशनः ।।
प्रभाहीनो यथा सूर्य्यः शोभाहीनो यथा शशी ।। १६ ।।
शक्तिहीनो यथा जीवो यथा चात्मा तनुं विना ।।
विनाऽऽधारं यथाऽऽधेयो यथेशः प्रकृतिं विना ।। १७ ।।
न च शक्तो यथा यज्ञः फलदो दक्षिणां विना।।
कर्मणां च फलं दातुं सामग्री मूलमेव च ।। १८ ।।
विना स्वर्णं स्वर्णकारो यथा शक्तः स्वकर्मणि ।।
यथा शक्तः कुलालश्च मृत्तिकां च विना द्विजाः ।। १९ ।।
तथा गृही न शक्तश्च सततं सर्वकर्मणि ।।
गृहाधिष्ठातृदेवीं च स्वशक्तिगृहिणीं विना ।। 2.59.२० ।।
भार्य्यामूलाः क्रियाः सर्वा भार्य्यामूला गृहास्तथा ।।
भार्य्यामूलं सुखं सर्वं गृहस्थानां गृहे सदा ।। २१ ।।
भार्य्यामूलः सदा हर्षो भार्य्यामूलं च मङ्गलम् ।।
भार्य्यामूलं च संसारो भार्य्यामूलं च सौरभम् ।। २२ ।।
यथा रथश्च रथिनां गृहिणां च तथा गृहम् ।।
सारथिस्तु यथा तेषां गृहिणां च तथा प्रिया ।। २३ ।।
सर्वरत्नप्रधाना च स्त्रीरत्नं दुष्कुलादपि ।।
गृहीता सा गृहस्थेनेवेत्याह कमलोद्भवः ।। २४ ।।
यथा जलं विना पद्मं पद्मं शोभां विना यथा ।।
तथैव पुंसां स्वगृहं गृहिणां गृहिणीं विना ।। २५ ।।
इत्येवमुक्त्वा स गुरुः प्रविवेश गृहं मुहुः ।।
गृहाद्बहिर्निस्ससार भूयो भूयः शुचाऽन्वितः ।। २६ ।।
मुहुर्मुहुश्च मूर्च्छां च चेतनां समवाप सः ।।
भूयोभूयो रुरोदोच्चैः स्मारंस्मारं प्रियागुणान् ।। २७ ।।
अथान्तरे महाज्ञानी ज्ञानिभिश्च प्रबोधितः ।।
सच्छिष्यैर्मुनिभिश्चान्यैः पुरन्दरगृहं ययौ ।। २८ ।।
स गुरुः पूजितस्तेन चातिथ्येन मरुत्वता ।।
तमुवाच स्ववृत्तान्तं हृदि शल्यमिवाप्रियम् ।। २९ ।।
बृहस्पतिवचः श्रुत्वा रक्तपङ्कजलोचनः ।।
तमुवाच महेन्द्रश्च कोपप्रस्फुरिताधरः ।। 2.59.३० ।।
महेन्द्र उवाच ।।
दूतानां वै सहस्रं च चारकर्मणि गच्छतु ।।
अतीव निपुणं दक्षं तत्त्वप्राप्तिनिमित्तकम् ।। ३१ ।।
यत्रास्ति पातकी चन्द्रो मन्मात्रा तारया सह ।।
गच्छामि तत्र सन्नद्धः सर्वैर्देवगणैः सह ।। ३२ ।।
त्यज चिन्तां महाभाग सर्वं भद्रं भविष्यति ।।
भद्रबीजं दुर्गमिदं कस्य सम्पद्विपद्विना ।। ३३ ।।
इत्युक्त्वा च शुनासीरो दूतानां च सहस्रकम् ।।
तूर्णं प्रस्थाप यामास तत्कर्मनिपुणं मुने ।। ३४ ।।
ते दूता वै वर्षशतं ययुर्निर्जनमेव च ।।
सुदुर्लंघ्यं च विश्वेषु भ्रमित्वा शक्रमाययुः ।। ३५ ।।
चन्द्रं च शुक्रभवने तं प्रपन्नं च विज्वरम् ।।
दृष्ट्वा सतारकं भीतं कथयामासुरीश्वरम् ।। ३६ ।।
इति श्रुत्वा शुनासीरो नतवक्त्रो बृहस्पतिम् ।।
उवाच शोकसन्तप्तो हदयेन विदूयता ।। ३७ ।।
महेन्द्र उवाच ।।
शृणु नाथ प्रवक्ष्यामि परिणामसुखावहम् ।।
भयं त्यज महाभाग सर्वं भद्रं भविष्यति ।। ३८ ।।
त्वया नहि जितः शुक्रो न मया दितिनन्दनः ।।
एतदालोच्य चन्द्रश्च जगाम शरणं कविम् ।।३९।।
गच्छ शीघ्रं ब्रह्मलोकमस्माभिः सार्द्धमेव च ।।
ब्रह्मणा सह यास्यामः कैलासे शङ्करं वयम् ।।2.59.४० ।।
इत्युक्त्वा तु महेन्द्रश्च सन्तप्तो गुरुणा सह ।।
जगाम ब्रह्मलोकं च सुखदृश्यं निरामयम् ।। ४१ ।।
तत्र दृष्ट्वा च ब्रह्माणं ननाम गुरुणा सह ।।
प्रोवाच सर्ववृत्तान्तं देवानामीश्वरं परम् ।। ४२ ।।
महेन्द्रवचनं श्रुत्वा हसित्वा कमलोद्भवः ।।
हितं तथ्यं नीतिसारमुवाच विनयान्वितः ।। ४३ ।।
ब्रह्मोवाच ।।
यो ददाति परस्मै च दुःखमेव च सर्वतः ।।
तस्मै ददाति दुःखं च शास्ता कृष्णः सनातनः ।। ४४ ।।
अहं स्रष्टा च सृष्टेश्च पाता विष्णुः सनातनः ।।
यथा रुद्रश्च संहर्त्ता ददाति च शिवं शिवः ।। ४५ ।।
निरन्तरं सर्वसाक्षी धर्मो वै सर्वकारणम् ।।
सर्वे देवा विषयिणः कृष्णाज्ञापरिपालकाः ।। ४६ ।।
बृहस्पतिरुतथ्यश्च संवर्तश्च जितेन्द्रियः ।।
त्रयश्चांगिरसः पुत्रा वेदवेदाङ्गपारगाः ।। ४७ ।।
संवर्ताय कनिष्ठाय न च किञ्चिद्ददौ गुरुः ।।
स बभूव तपस्वी च कृष्णं ध्यायति चेश्वरम् ।। ४८ ।।
मध्यमस्योतथ्यकस्य सतीं भार्यां च गुर्विणीम् ।।
जहार कामतस्तां च भ्रातृजायामकामुकीम् ।। ४९ ।।
यो हरेद्भ्रातृजायां च कामी कामादकामुकीम् ।।
ब्रह्महत्यासहस्रं च लभते नात्र संशयः ।। 2.59.५० ।।
स याति कुम्भीपाकं च यावच्चन्द्रदिवाकरम् ।।
भ्रातृजायापहारी च मातृगामी भवेन्नरः ।। ५१ ।।
तस्मादुत्तीर्य्य पापी च विष्ठायां जायते कृमिः ।।
वर्षकोटिसहस्राणि तत्र स्थित्वा च पातकी ।। ५२ ।।
ततो भवेन्महापापी वर्षकोटिसहस्रकम् ।।
पुंश्चलीयोनिगर्ते च कृमिश्चैव पुरन्दर ।। ।। ५३ ।।
गृध्रः कोटिसहस्राणि शतजन्मानि कुक्कुरः ।।
भ्रातृजायापहरणाच्छतजन्मानि सूकरः ।। ५४ ।।
ददाति यो न दायं च बलिष्ठो दुर्बलाय च ।।
स याति कुम्भीपाकं च यावच्चन्द्रदिवाकरम् ।। ९५ ।।
नाभुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ।।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। ५६ ।।
जगद्गुरोः शिवस्यापि गुरुपुत्रो बृहस्पतिः ।।
ज्ञातं करोतु वृत्तान्तमीश्वरं बलिनां वरम ।। ५७ ।।
सर्वे समूहा देवानां सन्नद्धाश्च सवाहनाः ।।
मध्यस्था मुनयश्चैव सन्तु वै नर्मदातटे ।। ५८ ।।
पश्चादहं च यास्यामि पुण्यं तन्नर्म्मदातटम् ।।
गुरुस्तद्गुरुपुत्रोऽपि शीघ्रं यातु शिवालयम् ।।५९।।
महेन्द्र उवाच ।।
कथं वा वेदकर्त्तुश्च सिद्धानां योगिनां गुरोः ।।
मृत्युञ्जयस्य शम्भोश्च गुरुपुत्रो बृहस्पतिः ।। 2.59.६० ।।
अङ्गिरास्तव पुत्रश्च तत्पुत्रश्च बृहस्पतिः ।।
त्वत्तो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः ।। ६१ ।।
ब्रह्मोवाच ।।
कथेयमतिगुप्ता च पुराणेषु पुरन्दर ।।
इमां पुराप्रवृत्तिं च कथयामि निशामय।।६२।।
मृतवत्सा कर्म्मदोषाद्भार्य्या चाङ्गिरसः पुरा ।।
व्रतं चकार सा चैव कृष्णस्य परमात्मनः ।। ६३ ।।
व्रतं पुंसवनं नाम वर्षमेकं चकार सा ।।
सनत्कुमारो भगवान्कारयामास तां व्रतम् ।। ६४ ।।
तदाऽऽगत्य च गोलोकात्परमात्मा कृपामयः ।।
स्वेच्छामयं परं ब्रह्म भक्तानुग्रहविग्रहः ।। ६५ ।।
सुव्रतां च सलक्ष्मीकां तामुवाच कृपानिधिः ।।
प्रणतां साश्रुनेत्रां च विनीतां च तया स्तुतः ।। ६६ ।।
श्रीकृष्ण उवाच ।।
गृहाणेदं व्रतफलं मम तेजस्समन्वितम् ।।
भुंक्ष्व मद्वरतः पुत्रि भविष्यति मदंशतः ।। ६७ ।।
पतिर्गुरुश्च देवानां महतां ज्ञानिनां वरः ।।
पुत्रस्ते भविता साध्वि मद्वरेण बृहस्पतिः ।। ६८ ।।
मद्वरेण भवेद्यो हि स च मद्वरपुत्रकः ।।
त्वद्गर्भे मम पुत्रोऽयं चिरजीवी भविष्यति ।। ६९ ।।
वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा।।
विद्यामन्त्रसुतौ चैव गृहीतः सप्तमः सुतः ।। 2.59.७० ।।
इत्युक्त्वा राधिकानाथः स्वलोकं च जगाम सः ।।
श्रीकृष्णवरपुत्रोऽयं ज्ञानीश्वरगुरुः स्वयम् ।।
मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा ।। ७१ ।।
दिव्यं वर्षत्रिलक्षं च तपश्चक्रे हिमालये ।।
स्वयोगं ज्ञानमखिलं तेजस्स्वामसमं परम् ।।
स्वशक्तिं विष्णुमायां च स्वांशं वै वाहनं वृषम् ।। ७२।।
स्वशूलं च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् ।।
कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः ।।
शिवलोके शिवा सा च विष्णुमाया शिवप्रिया ।।७३।।
शक्तिर्नारायणस्येयं साऽऽविर्भूता सनातनी ।।
तेजस्तु सर्वदेवानां साऽऽविर्भूता सनातनी ।। ७४ ।।
जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम् ।।
कल्पान्ते दक्षकन्या च सा मूलप्रकृतिः सती ।। ७५ ।।
पितृयज्ञे तनुं त्यक्त्वा योगाद्वै सिद्धयोगिनी ।।
बभूव शैलकन्या सा साध्वी वै भर्तृनिन्दया ।।७६।।
कालेन कृष्णतपसा शङ्करं प्राप सुन्दरी।।
श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः।७७।।
कृष्णस्य वरपुत्रोऽयं स्वयमेव बृहस्पतिः ।।
अतो हेतोः सुरगुरुर्गुरुपुत्रः शिवस्य च ।। ७८ ।।
इत्येवं कथितं सर्वमतिगुह्यं पुरातनम्।।
इति प्रधानसम्बन्धः श्रुतश्च कथितो मया ।। ७९ ।।
पारंपरिकमन्यं च कथयामि निशामय ।।
दुर्वासा गरुडश्चैव शङ्करांशः प्रतापवान् ।। 2.59.८० ।।
शिष्यौ चांगिरसस्तौ द्वौ गुरुपुत्रोऽथवा ततः ।।
प्राणाधिकायां सत्यां च मृतायां दक्षशापतः ।। ८१ ।।
स्वज्ञानं स्वं च भगवान्विसस्मार स्वमोहतः ।।
स्मरणं कारयामास कृष्णेन प्रेरितोऽङ्गिराः ।। ८२ ।।
अतो हेतोर्गुरुश्चैवं मत्सुतस्स्याच्छिवस्य सः ।।
शीघ्रं गच्छतु कैलासं स्वयमेव बृहस्पतिः ।। ८३ ।।
त्वं गच्छ तत्र सन्नद्धः सदेवो नर्मदातटम् ।।
इत्युक्त्वा जगतां धाता विरराम च नारद ।। ८४ ।।
गुरुर्ययौ च कैलासं महेन्द्रो नर्मदातटम् ।। ८५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति खण्डे नारदनारायणसंवादे दुर्गोपाख्याने बृहस्पतेः कैलासगमनं नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।