प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १० ब्रह्मवैवर्तपुराणम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

नारायण उवाच ।।
हरिस्तमाशिषं कृत्वा रत्नसिंहासने वरे ।।
देवैश्च मुनिभिः सार्द्धमवसत्तत्र संसदि ।। १ ।।
दक्षिणे शंकरस्तस्य वामे ब्रह्मा प्रजापतिः ।।
पुरतो जगतां साक्षी धर्मो धर्मवतां वरः ।। २ ।।
तथा धर्मसमीपे च सूर्य्यः शक्रः कलानिधिः ।।
देवाश्च मुनयो ब्रह्मन्नूषुः शैलाः सुखासने ।। ३ ।।
ननर्त्त नर्त्तकश्रेणी जगुर्गन्धर्व किन्नराः ।।
श्रुतिसारं श्रुतिसुखं तुष्टुवुः श्रुतयो हरिम् ।। ४ ।।
एतस्मिन्नन्तरे तत्र द्रष्टुं शङ्करनन्दनम् ।।
आजगाम महायोगी सूर्यपुत्रः शनैश्चरः ।। ५ ।।
अत्यन्तनम्रवदन ईषन्मुद्रितलोचनः ।।
अन्तर्बहिः स्मरन्कृष्णं कृष्णैकगतमानसः ।। ६ ।।
तपःफलाशी तेजस्वी ज्वलदग्निशिखोपमः ।।
अतीव सुन्दरः श्यामः पीताम्बरधरो वरः ।। ७ ।।
प्रणम्य विष्णुं ब्रह्माणं शिवं धर्मं रविं सुरान् ।।
मुनीन्द्रान्बालकं द्रष्टुं जगाम तदनुज्ञया ।।८।।
प्रधानद्वारमासाद्य शिवतुल्यपराक्रमम् ।।
द्वाःस्थं वै शूलहस्तं च विशालाक्षमुवाच ह ।। ९ ।।
शनैश्चर उवाच ।।
शिवाज्ञया शिशुं द्रष्टुं यामि शंकरकिंकर ।।
विष्णुप्रमुखदेवानां मुनीनामनुरोधतः ।। १० ।।
आज्ञां देहि च मां गन्तुं पार्वतीसन्निधिं बुध ।।
पुनर्यामि शिशुं दृष्ट्वा विषयासक्तमानसः ।। ११ ।।
विशालाक्ष उवाच ।। आज्ञावहो न देवानां नाहं शंकरकिंकरः ।।
मार्गं दातुं न शक्तोऽहं विना मन्मातुराज्ञया ।। १२ ।।
इत्युक्त्वाऽभ्यन्तरभ्येत्य प्रेरितः स शिवाज्ञया ।।
ददौ मार्गं ग्रहेशाय विशालाक्षो मुदा ततः ।। १३ ।।
शनिरभ्यन्तरं गत्वा चानमन्नम्रकन्धरः ।।
रत्नसिंहासनस्थां च पार्वतीं सस्मितां मुदा ।। १४ ।।
सखीभिः पञ्चभिः शश्वत्सेवितां श्वेतचामरैः ।।
सखीदत्तं च ताम्बूलमुपभुज्य सुवासितम् ।।१५।।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।।
पश्यन्तीं नर्त्तकीनृत्यं पुत्रं धृत्वा च वक्षसि ।। १६ ।।
नतं सूर्य्यसुतं दृष्ट्वा दुर्गा संभाष्य सत्वरम् ।।
शुभाशिषं ददौ तस्मै पृष्ट्वा तन्मंगलं शुभम् ।। ३७ ।।
पार्वत्युवाच ।।
कथमानम्रवक्त्रस्त्वं श्रोतुमिच्छामि साम्प्रतम् ।।
किं न पश्यसि मां साधो बालकं वा ग्रहेश्वर ।। १८ ।।
शनिरुवाच।।
सर्वे स्वकर्मणा साध्वि भुञ्जते तपसः फलम्।।
शुभाशुभं च यत्कर्म कोटिकल्पैर्न लुप्यते ।। १९ ।।
कर्मणा जायते जन्तुर्ब्रह्मेन्द्रार्य्यममन्दिरे ।।
कर्मणा नरगेहेषु पश्वादिषु च कर्मणा ।। २० ।।
कर्मणा नरकं याति वैकुण्ठं याति कर्मणा ।।
स्वकर्मणा च राजेन्द्रो भृत्यश्चापि स्वकर्मणा ।। २१ ।।
कर्मणा सुन्दरः शश्वद्व्याधियुक्तः स्वकर्मणा ।।
कर्मणा विषयी मातर्न्निर्लिप्तश्च स्वकर्मणा ।। २२ ।।
कर्मणा धनवाँल्लोको दैन्ययुक्तः स्वकर्मणा ।।
कर्मणा सत्कुटुम्बी च कर्मणा बन्धुकण्टकः ।। २३ ।।
सुभार्यश्च सुपुत्रश्च सुखी शश्वत्स्वकर्मणा ।।
अपुत्रकश्च कुस्त्रीको निस्त्रीकश्च स्वकर्मणा ।। २४ ।।
इतिहासं चातिगोप्यं शृणु शङ्करवल्लभे ।।
अकथ्यं जननीपार्श्वे लज्जाजनककारणम् ।। २५ ।।
आबाल्यात्कृष्णभक्तोऽहं कृष्णध्यानैकमानसः ।।
तपस्यासु रतश्शश्वद्विषयेऽपि रतः सदा ।। २६ ।।
पिता ददौ विवाहे तु कन्यां चित्ररथस्य च ।।
अतितेजस्विनी शश्वत्तपस्यासु रता सती ।। २७ ।।
एकदा सा त्वृतुस्नाता सुवेषं स्वं विधाय च ।।
रत्नालङ्कारसंयुक्ता मुनिमानसमोहिनी ।। २८ ।।
हरेः पादं ध्यायमानं पश्यन्ती मदमोहिता ।।
मत्समीपं समागत्य सस्मिता लोललोचना ।।२९।।
शशाप मामपश्यन्तमृतुनाशाच्च कोपतः ।।
बाह्यज्ञानविहीनं च ध्यानसंलग्नमानसम् ।। ३० ।।
न दृष्टाऽहं त्वया येन न कृतं ह्यृतुरक्षणम्
त्वया दृष्टं च यद्वस्तु मूढ सर्वं विनश्यति ।। ३१ ।।
अहं च विरतो ध्यानात्तोषयंस्तां तदा सतीम् ।।
शापं मोक्तुं न शक्ता सा पश्चात्तापमवाप ह ।। ३२ ।।
तेन मातर्न पश्यामि किञ्चिद्वस्तु स्वचक्षुषा ।।
ततः प्रकृतिनम्रास्यः प्राणिहिंसाभयादहम् ।। ३३ ।।
शनैश्चरवचः श्रुत्वा चाहसत्पार्वती मुने ।।
उच्चैः प्रजहसुः सर्वा नर्त्तकीकिन्नरीगणाः ।। ३४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शनिपार्वतीसंवादे शनेरधोदृष्टौ कारणकथनं नामैकादशोऽध्यायः ।। ११ ।।