प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ११ ब्रह्मवैवर्तपुराणम्
अध्यायः १२
वेदव्यासः
अध्यायः १३ →

नारायण उवाच ।।
दुर्गा तद्वचनं श्रुत्वा सस्मार हरिमीश्वरम् ।।
ईश्वरेच्छावशीभूतं जगदेवेत्युवाच ह।।१।।
सा च देवी दैववशा शनिं प्रोवाच कौतुकात्।।
पश्य मां मच्छिशुमिति निषेकः केन वार्य्यते।।२।।
पार्वत्या वचनं श्रुत्वा शनिर्मेने हृदा स्वयम् ।।
पश्यामि किं न पश्यामि पार्वतीसुतमित्यहो ।।
यदि बालो मया दृष्टस्तस्य विघ्नो भवेद्ध्रुवम्।।३।।
अन्यथा सुप्रशस्तं च पुरतः स्वात्मरक्षणम् ।।
इत्येवमुक्त्वा धर्मिष्ठो धर्मं कृत्वा तु साक्षिणम्।।
बालं द्रष्टुं मनश्चक्रे न तु तन्मातरं शनिः।।४।।
विषण्णमानसः पूर्वं शुष्ककण्ठौष्ठतालुकः।।
सव्यलोचनकोणेन ददर्श च शिशोर्मुखम् ।।५।।
शनेश्च दृष्टिमात्रेण चिच्छिदे मस्तकं मुने ।।
चक्षुर्निमीलयामास तस्थौ नम्राननः शनिः।।६।।
तस्थौ च पार्वतीक्रोडे तत्सर्वाङ्गं सलोहितम्।।
विवेश मस्तकं कृष्णे गत्वा गोलोकमीप्सितम्।।७।।
मूर्च्छा संप्राप सा देवी विलप्य च भृशं मुहुः।।
मत्तेव च पृथिव्यां तु कृत्वा वक्षसि बालकम् ।। ८ ।।
विस्मितास्ते सुराः सर्वे चित्रपुत्तलिका यथा ।।
देव्यश्च शैला गन्धर्वाः सर्वे कैलासवासिनः ।। ९ ।।
तान्सर्वान्मूर्च्छितान्दृष्ट्वैवारुह्य गरुडं हरिः ।।
जगाम पुष्पभद्रां स चोत्तरस्यां दिशि स्थिताम् ।। १० ।।
पुष्पभद्रानदीतीरे ह्यपश्यत्कानने स्थितम् ।।
गजेन्द्रं निद्रितं तत्र शयानं हस्तिनीयुतम् ।। ११ ।।
तथोदक्छिरसं रम्यं मूर्च्छितं सुरतश्रमात् ।।
परितः शावकात्कृत्वा परमानन्दमानसम् ।। १२ ।।
शीघ्रं सुदर्शनेनैव चिच्छिदे तच्छिरो मुदा ।।
स्थापयामास गरुडे रुधिराक्तं मनोहरम् ।। १३ ।।
गजच्छिन्नाङ्गविक्षेपात्प्रबोधं प्राप्य हस्तिनी ।।
शावकान्बोधयामास चाशुभं वदती तदा ।।
रुरोद शावकैः सार्द्धं सा विलप्य शुचातुरा ।। १४ ।।
तुष्टाव कमलाकान्तं शान्तं सस्मितमीश्वरम् ।।
शंखचक्रगदापद्मधरं पीताम्बरं परम् ।।
गरुडस्थं जगत्कान्तं भ्रामयन्तं सुदर्शनम् ।। १५ ।।
निषेकं खण्डितुं शक्तं निषेकजनकं विभुम् ।।
निषेकभोगदातारं भोगनिस्तारकारणम् ।। १६ ।।
प्रभुस्तत्स्तवनात्तुष्टस्तस्यै विप्र वरं ददौ ।।
मुण्डातुण्डं पृथक्कृत्य युयुजेऽन्यगजस्य च ।। १७ ।।
जीवयामास तं तत्र ब्रह्मज्ञानेन सर्ववित् ।।
सर्वांगे योजयामास गजस्य चरणाम्बुजम् ।। १८ ।।
त्वं जीवाकल्पपर्य्यन्तं परिवारैः समं गज ।।
इत्युक्त्वा च मनोयायी कैलासं ह्याजगाम सः ।। १९ ।।
आहृत्य पार्वतीहस्ताद्बालं कृत्वा स्ववक्षसि ।।
रुचिरं तच्छिरस्सम्यग्योजयामास बालके ।। २० ।।
ब्रह्मस्वरूपो भगवान्ब्रह्मज्ञानेन लीलया ।।
जीवयामास तं शीघ्रं हुंकारोच्चारणेन च ।। २१ ।।
पार्वतीं बोधयित्वा तु कृत्वा क्रोडे च तं शिशुम् ।।
बोधयामास तां कृष्ण आध्यात्मिकविबोधनैः ।। २२ ।।
विष्णुरुवाच ।।
ब्रह्मादिकीटपर्य्यन्तं फलं भुङ्क्ते स्वकर्मणः ।।
जगद्बुद्धिस्वरूपाऽसि त्वं न जानासि किं शिव ।। २३ ।।
कल्पकोटिशतं भोगी जीविनां तत्स्वकर्मणा ।।
उपस्थितो भवेन्नित्यं प्रतियोनौ शुभाशुभैः ।। २४ ।।
इन्द्रः स्वकर्मणा कीटयोनौ जन्म लभेत्सति ।।
कीटश्चापि भवेदिन्द्रः पूर्वकर्मफलेन वै।।२५।।
सिंहोऽपि मक्षिकां हन्तुमक्षमः प्राक्तनं विना ।।
मशको हस्तिनं हन्तुं क्षमः स्वप्राक्तनेन च ।।२६।।
सुखं दुःख भयं शोकमानन्दं कर्मणः फलम् ।।
सुकर्मणः सुखं हर्षमितरे पापकर्मणः ।। २७ ।।
इहैव कर्मणो भोगः परत्र च शुभाशुभैः ।।
कर्मोपार्जनयोग्यं च पुण्यक्षेत्रं च भारतम् ।। २८ ।।
कर्मणः फलदाता च विधाता च विधेरपि ।।
मृत्योर्मृत्युः कालकालो निषेकस्य निषेककृत् ।। २९ ।।
संहर्तुरपि संहर्त्ता पातुः पाता परात्परः ।।
गोलोकनाथः श्रीकृष्णः परिपूर्णतमः स्वयम् ।।३०।।
वयं यस्य कलाः पुंसो ब्रह्मविष्णुमहेश्वराः ।।
महाविराड्यदंशश्च यल्लोमविवरे जगत् ।। ३१ ।।
कलांशाः केऽपि तद्धर्मे कलाशांशाश्च केचन ।।
चराचरं जगत्सर्वं तत्र तस्थौ विनायकः ।। ३२ ।।
श्रीविष्णोर्वचनं श्रुत्वा परितुष्टा च पार्वती ।।
स्तनं ददौ च शिशवे तं प्रणम्य गदाधरम् ।। ३३ ।।
तुष्टाव पार्वती तुष्टा प्रेरिता शंकरेण च ।।
कृताञ्जलिपुटा भक्त्या विष्णुं तं कमलापतिम् ।।३४।।
आशिषं युयुजे विष्णुः शिशुं च शिशुमातरम् ।।
ददौ गले बालकस्य कौस्तुभं च स्वभूषणम् ।।३५।।
ब्रह्मा ददौ स्वमुकुटं धर्मो वै रत्नभूषणम्।।
क्रमेण देव्यो रत्नानि ददुः सर्वे यथोचितम्।।३६।।
तुष्टाव तं महादेवश्चात्यन्तं हृष्टमानसः ।।
देवाश्च मुनयः शैला गन्धर्वाः सर्वयोषितः।।३७।।
दृष्ट्वा शिवाः शिवा चैव बालकं मृतजीवितम् ।।
ब्राह्मणेभ्यो ददौ तत्र कोटिरत्नानि नारद ।।३६।।
अश्वानां च गजानां च सहस्राणि शतानि च ।।
बन्दिभ्यः प्रददौ तत्र बालके मृतजीविते ।।३९।।
हिमालयश्च संतुष्टो हृष्टा देवाश्च तत्र वै ।।
ददुर्दानानि विप्रेभ्यो बन्दिभ्यः सर्वयोषित।।४०।।
ब्राह्मणान्भोजयामास कारयामास मङ्गलम् ।।
वेदांश्च पाठयामास पुराणानि रमापतिः ।। ४१ ।।
शनिं संलज्जितं दृष्ट्वा पार्वती कोपशालिनी ।।
शशाप च सभामध्येऽप्यङ्गहीनो भवेति च ।। ४२ ।।
दृष्ट्वा शप्तं शनिं सूर्य्यः कश्यपश्च यमस्तथा ।।
तेऽतिरुष्टाः समुत्तस्थुर्गामुकाः शङ्करालयात् ।। ४३ ।।
रक्ताक्षास्ते रक्तमुखाः कोपप्रस्फुरिताधराः ।।
तां धर्मसाक्षिणं कृत्वा विष्णुं संशप्तुमुद्यताः ।। ४४ ।।
ब्रह्मा तान्बोधयामास विष्णुना प्रेरितः सुरैः ।।
रक्तास्यां पार्वतीं चैव कोपप्रस्फुरिताधराम् ।। ४५ ।।
ब्रह्माणमूचुस्ते तत्र क्रमेण समयोचितम् ।।
भीरवो देवताः सर्वे मुनयः पर्वतास्तथा ।। ४६।।
कश्यप उवाच ।।
दुर्दृष्टोऽयं प्राक्तनेन पत्नीशापेन सर्वदा ।।
बालं ददर्श यत्नेन तस्य वै मातुराज्ञया ।। ४७ ।।
श्रीसूर्य्य उवाच ।।
तं धर्मं साक्षिणं कृत्वा सूनोर्वै मातुराज्ञया ।।
यत्पुत्रोऽतिप्रयत्नेन ह्यपश्यत्पार्वतीसुतम् ।। ४८ ।।
यथा निरपराधेन मत्पुत्रं सा शशाप ह ।।
तत्पुत्रस्यांगभंगश्च भविष्यति न संशयः ।। ४९ ।।
यम उवाच ।।
प्रदाय स्वयमाज्ञां च शशापेयं स्वयं कथम् ।।
वयं शपामः कोऽधर्मो जिघांसोश्च विहिंसने ।। ५० ।।
ब्रह्मोवाच ।।
शशाप पार्वती रुष्टा स्त्रीस्वभावाच्च चापलात् ।।
सर्वेषां वचनेनैव क्षन्तुमर्हन्तु साधवः ।। ५१ ।।
दुर्गे दत्त्वा त्वमाज्ञां च पुत्रदर्शनहेतवे ।।
कथं शपसि निर्दोषमतिथिं त्वद्गृहागतम् ।। ५२ ।।
इत्युक्त्वा शनिमादाय बोधयित्वा च पार्वतीम् ।।
तां तं समर्पणं चक्रे शाप मोचनहेतवे ।। ५३ ।।
बभूव पार्वती तुष्टा ब्रह्मणो वचनान्मुने।।
शान्ता बभूबुस्ते तत्र दिनेशयमकश्यपाः।।५४।।
उवाच पार्वती तत्र सन्तुष्टा तं शनैश्चरम् ।।
प्रसादिता शिवेनैव ब्रह्मणा परिसेविता ।। ५५ ।।
पार्वत्युवाच ।।
ग्रहराजो भव शने मद्वरेण हरिप्रियः ।।
चिरजीवी च योगीन्द्रो हरिभक्तस्य का विपत् ।। ५६ ।।
अद्यप्रभृति निर्विघ्ना हरौ भक्तिर्दृढाऽस्तु ते ।।
शापोऽमोघस्ततो मेऽद्य किञ्चित्खञ्जो भविष्यसि ।। ५७ ।।
इत्युक्त्वा पार्वती तुष्टा बालं धृत्वा च वक्षसि ।।
उवास योषितां मध्ये तस्मै दत्त्वा शुभाशिषः ।। ५८ ।।
शनिर्जगाम देवानां समीपं हृष्टमानसः ।।
प्रणम्य भक्त्या तां ब्रह्मन्नम्बिकां जगदम्बिकाम् ।। ५९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे शनिकृतगणेशदर्शन तज्जातगणेशशिरःपतन विष्णुकृतगणेशशिरोयोजन शनिशापादिकथनं नाम द्वादशोऽध्यायः ।। १२ ।।