प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२ ब्रह्मवैवर्तपुराणम्
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

नारायण उवाच ।।
अथ विष्णुः शुभे काले देवैश्च मुनिभिः सह ।।
पूजयामास तं बालमुपहारैरनुत्तमैः ।। १ ।।
सर्वाग्रे तव पूजा च मया दत्ता सुरोत्तम ।।
सर्वपूज्यश्च योगीन्द्रो भव वत्सेत्युवाच तम् ।। २ ।।
वनमालां ददौ तस्मै ब्रह्मज्ञानं च मुक्तिदम् ।।
सर्वसिद्धिं प्रदायैव चकारात्मसमं हरिः ।। ३ ।।
ददौ द्रव्याणि चारूणि चोपचारांश्च षोडश ।।
नामभिः स्तवनं चक्रे मुनिभिश्च समं सुरैः ।। ४ ।।
विघ्नेशश्च गणेशश्च हेरम्बश्च गजाननः ।।
लम्बोदरश्चैकदन्तः शूर्पकर्णो विनायकः ।। ५ ।।
एतान्यष्टौ च नामानि सर्वसिद्धिप्रदानि च ।।
आशिषं दापयामास चानयामास तान्मुनीन् ।। ६ ।।
सिद्धासनं ददौ धर्मस्तस्मै ब्रह्मा कमण्डलुम् ।।
शङ्करो योगपट्टं च तत्त्वज्ञानं सुदुर्लभम् ।। ७ ।।
रत्नसिंहासनं शक्रः सूर्य्यश्च मणिकुण्डले ।।
माणिक्यमालां चन्द्रश्च कुबेरश्च किरीटकम् ।। ८ ।।
वह्निशुद्धं च वसनं ददौ तस्मै हुताशनः ।।
रत्नच्छत्रं च वरुणो वायू रत्नांगुलीयकम् ।। ९ ।।
क्षीरोदोद्भवसद्रत्नरचितं वलयं वरम् ।।
मञ्जीरं चापि केयूरं ददौ पद्मालया मुने ।। १० ।।
कण्ठभूषां च सावित्री भारती हारमुज्ज्वलम् ।।
क्रमेण सर्वदेवाश्च देव्यश्च यौतकं ददुः ।। ११ ।।
मुनयः पर्वताश्चैव रत्नानि विविधानि च ।।
वसुन्धरा ददौ तस्मै वाहनाय च मूषकम्।।१२।।
क्रमेण देवा देव्यश्च मुनयः पर्वतादयः।।
गन्धर्वाः किन्नरा यक्षा मनवो मानवास्तथा ।।१३।।
नानाविधानि द्रव्याणि स्वादूनि मधुराणि च ।।
पूजां चक्रुश्च ते सर्वे क्रमाद्वै भक्तिपूर्वकम् ।। १४ ।।
पार्वती जगतां माता स्मेराननसरोरुहा ।।
रत्नसिंहासने पुत्रं वासयामास नारद ।। १९ ।।
सर्वतीर्थोदकै रत्नकलशावर्जितैः स्तुतैः ।।
स्नापयामास वेदोक्तमन्त्रेण मुनिभिस्तदा ।।
अग्निशुद्धे च वसने ददौ तस्मै सती मुदा ।। १६ ।।
गोदावर्युदकैः पाद्यमर्घ्यं गंगोदकेन च ।।
दूर्वाभिरक्षतापुष्पैश्चन्दनेन समन्वितम् ।। १७ ।।
पुष्करोदकमानीय पुनराचमनीयकम् ।।
मधुपर्कं रत्नपात्रैरासवं शर्करान्वितम् ।। १८ ।।
स्नानीयं विष्णुतैलं च स्वर्वैद्याभ्यां विनिर्मितम् ।।
अमूल्यरत्नरचितं चारुभूषाकदम्बकम् ।। १९ ।।
पारिजातप्रसूनानामन्येषां शतकानि च ।।
मालतीचम्पकादीनां पुष्पाणि विविधानि च ।।
पूजार्हाणि च पत्राणि तुलसीसहितानि च ।। २० ।।
चन्दनागुरुकस्तूरी कुंकुमानि च सादरम् ।।
रत्नप्रदीपनिकरं धूपं च परितो ददौ ।। २१ ।।
नैवेद्यं तत्प्रियं चैव तिललड्डुकपर्वतान् ।।
यवगोधूमचूर्णानां लड्डुकानां च पर्वतान् ।। २२ ।।
पक्वान्नानां पर्वताश्च सुस्वादुसुमनोहरान् ।।
पर्वतान्स्वस्तिकानां च सुस्वादुशर्करान्वितान् ।। २३ ।।
गुडाक्तानां च लाजानां पृथुकानां च पर्वतान् ।।
शाल्यन्नानां पिष्टकानां पर्वतान्व्यञ्जनैः सह ।।
पयोभृत्कलशानां च लक्षाणि प्रददौ मुदा ।। २४ ।।
लक्षाणि दधिपूर्णानां कलशानां च पूजने ।।
मधुभृत्कलशानां च त्रिलक्षाणि च सुन्दरी ।। २५ ।।
सर्पिस्सुवर्णकुम्भानां पंचलक्षाणि सादरम् ।।
दाडिमानां श्रीफलानामसंख्यानि फलानि च ।। २६ ।।
खर्जूराणां कपित्थानां जम्बूनां विविधानि च ।।।
आम्राणां पनसानां च कदलीनां च नारद ।।
फलानि नारिकेलानामसंख्यानि ददौ मुदा ।। २७।।
अन्यानि परिपक्वानि कालदेशोद्भवानि च ।।
ददौ तानि महाभाग स्वादूनि मधुराणि च ।। २८ ।।
स्वच्छं सुनिर्मलं चैव कर्पूरादिसुवासितम् ।।
गङ्गाजलं च पानार्थं पुनराचमनीयकम् ।। २९ ।।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।।
सुवर्णपात्रशतकं भक्ष्यपूर्णं च नारद ।। ३० ।।
शैलराजप्रिया मात्याः पुपूजुः शैलजात्मजम् ।।३१।।
ॐ श्रीं ह्रीं क्लीं गणेश्वराय ब्रह्मरूपाय चारवे ।।
सर्वसिद्धिप्रदेशाय विश्वेशाय नमो नमः ।।३२।।
इत्यनेनैव मन्त्रेण दत्त्वा द्रव्याणि भक्तितः।।
सर्वे प्रमुदितास्तत्र ब्रह्मविष्णुशिवादयः।।३३।।
द्वात्रिंशदक्षरो मालामन्त्रोऽयं सर्वकामद।।
धर्मार्थकाममोक्षाणां फलदः सर्वसिद्धिदः ।।३४।।
पञ्चलक्षजपेनैव मन्त्रसिद्धिस्तु मन्त्रिणः।।
मन्त्रसिद्धिर्भवेद्यस्य स च विष्णुश्च भारते।।३५।।
विघ्नानि च पलायन्ते तन्नामस्मरणेन च ।।
महावाग्ग्मी महासिद्धिः सर्वसिद्धिसमन्वितः ।। ३६ ।।
वाक्पतिर्गुरुतां याति तस्य साक्षात्सुनिश्चितम् ।।
महाकवीन्द्रो गुणवान्विदुषां च गुरोर्गुरुः ।। ३७ ।।
संपूज्यानेन मन्त्रेण देवा आनन्दसंप्लुताः ।।
नानाविधानि वाद्यानि वादयामासुरुत्सवे ।।३८।।
ब्राह्मणान्भोजयामासुः कारयामासुरुत्सवम् ।।
ददुर्दानानि तेभ्यश्च बन्दिभ्यश्च विशेषतः ।।३९।।
नारायण उवाच ।।
अथ विष्णुः सभामध्ये तं सम्पूज्य गणेश्वरम् ।।
तुष्टाव परया भक्त्या सर्वविघ्नविनाशकम् ।। ४० ।।
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् ।।
नैव वर्णयितुं शक्तोऽस्त्यनुरूपमनीहकम् ।। ४१ ।।
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् ।।
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम् ।। ४२ ।।
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम् ।।
वायुतुल्यं च निर्लिप्तं चाक्षतं सर्वसाक्षिणम् ।। ४३ ।।
संसारार्णवपारे च मायापोते सुदुर्लभे ।।
कर्णधारस्वरूपं च भक्तानुग्रहकारकम् ।। ४४ ।।
वरं वरेण्यं वरदं वरदानामपीश्वरम् ।।
सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम ।। ४९ ।।
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् ।।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम् ।।४६।।
बीजं संसारवृक्षाणामंकुरं च तदाश्रयम् ।।
स्त्रीपुंनपुंसकानां च रूपमेतदतीन्द्रियम् ।। ४७ ।।
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् ।।
स्वेच्छया सगुणं ब्रह्म निर्गुणं स्वेच्छया पुनः ।।४८।।
स्वयं प्रकृतिरूपं च प्राकृतं प्रकृतेः परम् ।।
त्वां स्तोतुमक्षमोऽनन्तः सहस्रवदनैरपि ।। ४९ ।।
न क्षमः पञ्चवक्त्रश्च न क्षमश्चतुराननः ।।
सरस्वती न शक्ता च न शक्तोऽहं तव स्तुतौ ।।
न शक्ताश्च चतुर्वेदाः के वा ते वेदवादिनः ।।५०।।
इत्येवं स्तवनं कृत्वा मुनीशसुरसंसदि ।।
सुरेशश्च सुरैः सार्द्धं विरराम रमापतिः ।।५१।।
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् ।।
सायं प्रातश्च मध्याह्ने भक्तियुक्तः समाहितः ।। ५२ ।।
तद्विघ्ननाशं कुरुते विघ्नेशः सततं मुने ।।
वर्द्धते सर्वकल्याणं कल्याणजनकः सदा ।। ५३ ।।
यात्राकाले पठित्वा यो याति तद्भक्तिपूर्वकम् ।।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ।। ५४ ।।
तेन दृष्टं च दुस्स्वप्नं सुस्वप्नमुपजायते ।।
कदाऽपि न भवेत्तस्य ग्रहपीडा च दारुणा ।। ५५ ।।
भवेद्विनाशः शत्रूणां बन्धूनां चापि वर्द्धनम् ।।
शश्वद्विघ्नविनाशश्च शश्वत्सम्यग्विवर्द्धनम् ।। ५६ ।।
स्थिरा भवेद्गृहे लक्ष्मीः पुत्रपौत्रविवर्द्धनम् ।।
सर्वैश्वर्य्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ।। ५७ ।।
फलं चापि च तीर्थानां यज्ञानां यद्भवेद्ध्रुवम् ।।
महतां सर्वदानानां तद्गणेशप्रसादत ।।५८।।
नारद उवाच ।।
श्रुतं स्तोत्रं गणेशस्य पूजनं च मनोहरम् ।।
कवचं श्रोतुमिच्छामि साम्प्रतं भवतारणम् ।।५९।।
नारायण उवाच ।।
पूजायां सुनिवृत्तायां सभामध्ये शनैश्चरः ।।
उवाच विष्णुं सर्वेषां तारकं जगतां गुरुम् ।। ६० ।।
शनैश्चर उवाच ।।
सर्वदुःखविनाशाय पापप्रशमनाय च ।।
कवचं विघ्ननिघ्नस्य वद वेदविदांवर ।। ६१ ।।
बभूव नो विवादश्च शक्त्या वै मायया सह ।।
तद्विघ्नप्रशमार्थं च कवचं धारयाम्यहम् ।। ६२ ।।
श्रीविष्णुरुवाच ।।
विनायकस्य कवचं त्रिषु लोकेषु दुर्लभम् ।।
सुगोप्यं च पुराणेषु दुर्लभं चागमेषु च ।। ६३ ।।
उक्तं कौथुमशाखायां सामवेदे मनोहरम् ।।
कवचं विघ्ननाथस्य सर्वविघ्नहरं परम् ।। ६४ ।।
राज्यं देयं शिरो देयं प्राणा देयाश्च सूर्य्यज ।।
एवम्भूतं च कवचं न देयं प्राणसङ्कटे ।। ६५ ।।
आविर्भावस्तिरोभावः स्वेच्छया यस्य मायया ।।
नित्योऽयमेकदन्तश्च कवचं चास्य वत्सक ।।६६।।
पूजाऽस्य नित्या स्तोत्रं च कल्पे कल्पेऽस्ति सन्ततम्।।
अस्य वै जन्मनः पूर्वं मुनयश्च सिषेविरे।।६७।।
यथा मदवतारेषु जन्मविग्रहधारणम् ।।
तथा गणेश्वरस्यापि जन्म शैलसुतोदरे ।। ६८ ।।
यद्धृत्वा मुनयः सर्वे जीवन्मुक्ताश्च भारते ।।
निश्शङ्काश्च सुराः सर्वे शत्रुपक्षविमर्दकाः ।। ६९ ।।
कवचं बिभ्रतां मृत्युर्न भिया याति सन्निधिम् ।।
नायुर्व्ययो नाशुभं च ब्रह्माण्डे न पराजयः ।। ७० ।।
दश लक्षजपेनैव सिद्धं तु कवचं भवेत् ।।
यो भवेत्सिद्धकवचो मृत्युं जेतुं स च क्षमः ।। ७१ ।।
सुसिद्धकवचो वाग्मी चिरंजीवी महीतले ।।
सर्वत्र विजयी पूज्यो भवेद्ग्रहणमात्रतः ।। ७२ ।।
मालामन्त्रमिमं पुण्यं कवचं मङ्गलं शुभम् ।।
बिभ्रतां सर्वपापानि प्रणश्यन्ति सुनिश्चितम् ।। ७३ ।।
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।।
डाकिनीयोगिनीयक्षवेताला भैरवादयः ।। ७४ ।।
बालग्रहा ग्रहाश्चैव क्षेत्रपालादयस्तथा ।।
वर्मणः शब्दमात्रेण पलायन्ते च भीरवः ।।७५।।
आधयो व्याधयश्चैव शोकाश्चैव भयावहाः ।।
न यान्ति सन्निधिं तेषां गरुडस्य यथोरगाः ।। ७६ ।।
ऋजवे गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ।।
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।। ७७ ।।
संसारमोहकस्यास्य कवचस्य प्रजापतिः ।।
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम्।।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।। ७८ ।।
सर्वेषां कवचानां च सारभूतमिदं मुने ।।
ॐ गं हुं श्रीगणेशाय स्वाहा मे पातु मस्तकम् ।।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ।। ७९ ।।
ॐ ह्रीं क्लीं श्रीं गमिति वै सततं पातु लोचनम् ।।
तालुके पातु विघ्नेशः सततं धरणीतले ।। ८० ।।
ॐ ह्रीं श्रीं क्लीमिति परं सन्ततं पातु नासिकाम् ।।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ।।
दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः ।। ८१ ।।
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदा ऽवतु ।।
ॐ क्लीं ह्रीं विघ्ननाशाय स्वाहा कर्णं सदाऽवतु ।। ८२ ।।
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु।।
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ।। ८३ ।।
ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलं परम् ।।
करौ पादौ सदा पातु सर्वांगं विघ्ननाशकृत् ।। ८४ ।।
प्राच्यां लम्बोदरः पातु चाग्नेय्यां विघ्ननायकः ।।
दक्षिणे पातु विश्वेशो नैर्ऋत्यां तु गजाननः ।। ८५ ।।
पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मजः ।।
कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च ।। ८६ ।।
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्ध्वतः ।।
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ।।
स्वप्ने जागरणे चैव पातु मां योगिनां गुरुः ।। ८७ ।।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।।
संसारमोहनं नाम कवचं परमाद्भुतम् ।।८८।।
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।।
वृन्दावने विनीताय मह्यं दिनकरात्मज ।। ८९ ।।
मया दत्तं च तुभ्यं च यस्मै कस्मै न दास्यसि ।।
परं वरं सर्वपूज्यं सर्वसंकटतारणम् ।। ९० ।।
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।। ९१ ।।
अश्वमेधसहस्राणि वाजपेयशतानि च ।।
ग्रहेन्द्र कवचस्यास्य कलां नार्हन्ति षोडशीम् ।। ९२ ।।
इदं कवचमज्ञात्वा यो भजेच्छंकरात्मजम् ।।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। ९३ ।।
इति संसारमोहनं नाम कवचम् ।।
दत्त्वेदं सूर्य्यपुत्राय विरराम सुरेश्वरः ।।
परमानन्दसंयुक्ता देवास्तस्थुः समीपतः ।। ९४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशपूजास्तवकवचकथनं नाम त्रयोदशोऽध्यायः ।।१३।।