प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २४ ब्रह्मवैवर्तपुराणम्
अध्यायः २५
वेदव्यासः
अध्यायः २६ →

नारायण उवाच ।।
हरिं स्मरन्कार्तवीर्य्यो हृदयेन विदूयता ।।
दूतं प्रस्थापयामास कुपितो मुनिसन्निधिम् ।। १ ।।
युद्धं देहि मुनिश्रेष्ठ किं वा धेनुं च वाञ्छिताम् ।।
मह्यं भृत्यायातिथये सुविचार्य्य यथोचितम् ।।२।।
दूतस्य वचनं श्रुत्वा जहास मुनिपुंगवः ।।
हितं सत्यं नीतिसारं सर्वं दूतमुवाच ह ।। ३ ।।
मुनिरुवाच ।। दृष्टो नृपो निराहारः समानीतो मया गृहम् ।।
विविधं च यथाशक्त्या भोजितश्च यथोचितम् ।।४ ।।
कपिलां याचते राजा मम प्राणाधिकां प्रियाम्।।
तां दातुमक्षमो दूत युद्धं दास्यामि निश्चितम् ।। ५ ।।
मुनेस्तद्वचनं श्रुत्वा दूतः सर्वमुवाच ह ।।
नृपेन्द्रं च सभामध्ये सन्नाहैस्संयुतं भिया ।।६।।
मुनिश्च कपिलामाह साम्प्रतं किङ्करोम्यहम् ।।
कर्णधारं विना नौका तथा सैन्यं विना मया।।७।।
कपिला च ददौ तस्मै शस्त्राणि विविधानि च।।
युद्धशास्त्रोपदेशं च सन्धानं चौपयोगिकम्।।८।।
जयं भवतु ते विप्र युद्धे जेष्यसि निश्चितम् ।।
तव मृत्युर्न भविता सत्यमस्त्रं विना मुने ।।९ ।।
नृपेण सार्द्धं ते युद्धमयुक्तं ब्राह्मणस्य च ।।
दत्तात्रेयस्य शिष्येण व्यर्थं वै शक्तिधारिणा ।।
इत्युक्त्वा कपिला ब्रह्मन्विरराम मनस्विनी ।। १० ।।
मुनिर्मनस्वी सैन्यं च सज्जीकृत्य ततो मुने ।।
गृहीत्वा सर्वसैन्यं च स जगाम रणाजिरम्।।११।।
राजा जगाम युद्धाय ननाम मुनिपुंगवम् ।।
उभयोः सैन्ययोर्युद्धं बभूव बहुदुष्करम् ।। १२ ।।
राजसैन्यं जितं सर्वं कपिलासेनया बलात् ।।
विचित्रं च रथं राज्ञो बभञ्जे लीलया रणे ।। १३ ।।
धनुश्चिच्छेद सज्यं तत्सा सेना कापिली मुदा।।
नृपेन्द्रः कापिलेयानि जेतुं सैन्यानि चाक्षमः ।। १४ ।।
सैन्यानि तं शस्त्रवृष्ट्या न्यस्तशस्त्रं चकार ह ।।
शरवृष्ट्या शस्त्रवृष्ट्या राजा मूर्च्छामवाप ह ।। १९ ।।
किञ्चिच्छिष्टं बलं राज्ञः किंचिदेव पलायितम् ।।
मुनीन्द्रो मूर्च्छितं दृष्ट्वा नृपेन्द्रमतिथिं मुने ।। १६ ।।
कृपानिधिश्च कृपया तत्सैन्यं सञ्जहार च ।।
गत्वा सैन्यं विलीनं च कपिलायां च कृत्रिमम् ।। १७ ।।
नृपाय मुनिना शीघ्रं दत्ताश्चरणरेणवः ।।
आशीर्वादं प्रदत्तं च जयोऽस्त्विति कृपालुना ।।
कमण्डलुजलं प्रोक्ष्य जीवयामास तं नृपम् ।। १८ ।।
स राजा चेतनां प्राप्य समुत्थाय रणाजिरात् ।।
मूर्ध्ना ननाम भक्त्या च मुनिश्रेष्ठं कृताञ्जलिः ।। १९ ।।
मुनिः शुभाशिषं दत्त्वा राजानं त्वालिलिङ्ग सः ।।
पुनस्तं स्नापयित्वा च भोजयामास यत्नतः ।। २० ।।
नवनीतं हि हृदयं ब्राह्मणानां तु सन्ततम् ।।
अन्येषां क्षुरधाराभमसाध्यं दारुणं सदा ।।
उवाच तं मुनिश्रेष्ठो गृहं गच्छ धराधिप।। ।। २१ ।।
राजोवाच ।।
रणं देहि महाबाहो धेनुं किं वा मयेप्सिताम् ।। २२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे जमदग्निकार्तवीर्यार्जुनयुद्धवर्णनं नाम पञ्चविंशोऽध्यायः ।। २५ ।।