प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २५ ब्रह्मवैवर्तपुराणम्
अध्यायः २६
वेदव्यासः
अध्यायः २७ →

नारायण उवाच ।।
हरिं स्मरन्मुनिश्रेष्ठो वाक्यं श्रुत्वा च भूभृतः ।।
हितं सत्यं नीतिसारं प्रवक्तुसुपचक्रमे ।। १ ।।
मुनिरुवाच ।।
गृहं गच्छ महाभाग रक्ष धर्मं सनातनम् ।।
सर्वसम्पत्स्थिरा शश्वत्स्थिते धर्मे सुनिश्चितम्।।२।।
त्वां च दृष्ट्वा निराहारं समानीय गृहं नृप।।
तव पूजामकरवं यथाशक्ति विधानतः।।।
साम्प्रतं मूर्छितं दृष्ट्वा पादरेणुं शुभाशिषम् ।।
अददां चेतयाञ्चक्रे वक्तुमेवोचितं न च ।। ४ ।।
नृपस्तद्वचनं श्रुत्वा प्रणम्य मुनिपुंगवम् ।।
रथमन्यं त्वारुरोह युद्धं देहीत्युवाच ह ।।५।।
मुनिः कृत्वा च सन्नाहं तं योद्धुमुपचक्रमे ।।
राजा तं युयुधे तत्र कोपेनाहतचेतनः ।। ६ ।।
कपिलादत्तशस्त्रेण न्यस्तशस्त्रं चकार तम् ।।
कपिलादत्तया शक्त्या पुनर्मूर्च्छामवाप च ।। ७ ।।
पुनश्च चेतनां प्राप्य राजा राजीवलोचनः ।।
मुनिना युयुधे तत्र कोपेन पुनरेव च ।। ८ ।।
आग्नेयं योजयामास समरे नृपपुंगवः ।।
मुनिर्निर्वापयामास वारुणेन च लीलया ।। ९ ।।
नृपेन्द्रो वारुणास्त्रं च चिक्षेप समरे मुनौ ।।
वायव्यास्त्रेण स मुनिः शमयामास लीलया ।। १० ।।
वायव्यास्त्रं नृपश्रेष्ठश्चिक्षेप समरे तदा ।।
गान्धर्वेण मुनिश्रेष्ठः शमयामास तत्क्षणम् ।। ११ ।।
नागास्त्रं च नृपश्रेष्ठश्चिक्षेप रणमूर्द्धनि ।।
गारुडेन मुनिश्रेष्ठो निजघान क्षणान्मुदा ।। १२ ।।
माहेश्वरं महास्त्रं च शतसूर्य्यसमप्रभम् ।।
चिक्षेप नृपतिश्रेष्ठो द्योतयन्तं दिशो दश ।।१३।।
वैष्णवास्त्रेण दिव्येन त्रिलोकव्यापकेन च ।।
मुनिर्निर्वापयामास बहुयत्नेन नारद ।।१४।।
मुनिर्नारायणास्त्रं च चिक्षिपे मन्त्रपूर्वकम् ।।
शस्त्रं दृष्ट्वा महाराजो ननाम शरणं ययौ ।। १५ ।।
ऊर्ध्वं च भ्रमणं कृत्वा क्षणं दीप्त्वा दिशो दश ।।
प्रलयाग्निसमं तत्र स्वयमन्तरधीयत ।।१६।।
जृम्भणास्त्रं च स मुनिश्चिक्षेप रणमूर्द्धनि ।।
निद्रां प्रापत्तेन राजा सुष्वाप च मृतो यथा।।१७।।
दृष्ट्वा नृपं निद्रितं तं चार्द्धचन्द्रेण तत्क्षणम् ।।
चिच्छेद सारथिं यानं धनुर्बाणं मुनिस्तदा ।। १८।।
मुकुटं च क्षुरप्रेण च्छत्रं सन्नाहमेव च ।।
अस्त्रं तृणं वाजिगणं विविधे न च भूभृतः ।। १९ ।।
मुनिस्तत्सचिवान्सर्वान्नागास्त्रेणैव लीलया ।।
निबध्य स्थापयामास प्रहस्य समरस्थले ।।२०।।
मुनिस्तं बोधयामास सुमन्त्रेणैव लीलया ।।
निबद्धसर्वामात्यानां दर्शयामास भूमिपम् ।। २१ ।।
दर्शयित्वा नृपं तांश्च मोचयामास तत्क्षणम्।।
नृपेन्द्रमाशिषं कृत्वा गृहं गच्छेत्युवाच ह ।।२२।।
राजा कोपात्समुत्थाय शूलमुद्यम्य यत्नतः ।।
चिक्षेप तं मुनिश्रेष्ठं मुनिः शक्त्या जघान तम् ।।२३।।
एतस्मिन्नन्तरे ब्रह्मा समागत्य रणस्थलम् ।।
स प्रीतिं जनयामास सुनीत्या च परस्परम् ।।२४।।
मुनिर्ननाम ब्रह्माणं सन्तुष्टश्च रणस्थले ।।
राजा नत्वा विधिं चर्षिं स्वपुरं प्रययौ तदा ।।२५।।
मुनिर्ययौ स्वाश्रमं च स्व लोकं कमलोद्भवः ।।
इत्येवं कथितं किंचिदपरं कथयामि ते ।।२६।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायण संवादे जमदग्निकार्तवीर्ययुद्धोपशमवर्णनं नाम षड्विंशोऽध्यायः ।। २६ ।।