प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २६ ब्रह्मवैवर्तपुराणम्
अध्यायः २७
वेदव्यासः
अध्यायः २८ →

नारायण उवाच ।।
हरिं स्मृत्वा गृहं गत्वा राजा विस्मितमानसः ।।
आजगाम महारण्ये जमदग्न्याश्रमं पुनः ।। १ ।।
रथानां च चतुर्लक्षं रथिनां दशलक्षकम् ।।
अश्वेन्द्राणां गजेन्द्राणां पदा तीनामसंख्यकम् ।।२।।
राजेन्द्राणां सहस्रं च महाबलपराक्रमम् ।।
महासमृद्धियुक्तश्च त्रैलोक्यं जेतुमीश्वरः ।।३।।
सर्वतो वेष्टयामास जमदग्न्याश्रमं मुदा ।।
रथस्थो वर्मयुक्तश्च कार्त्तवीर्य्यार्जुनः स्वयम् ।। ४ ।।
सैन्यशब्दैर्वाद्यशब्दैर्महाकोलाहलैर्मुने ।।
जमदग्न्याश्रमस्थाश्च मूर्च्छामापुर्भयेन च ।। ५ ।।
कुटीं प्रविश्य बलवान्गृहीत्वा कपिलां शुभाम् ।।
पुरं गन्तुं मनश्चक्रे दुर्बुद्धिरसदाश्रयः ।। ६ ।।
समुत्तस्थौ मुनिश्रेष्ठो गृहीत्वा सशरं धनुः ।।
एकाकी मुक्तगात्रश्च धेनुं नत्वा हरिं स्मरन् ।।७।।
आश्रमस्थाञ्जनान्सर्वान्समाश्वास्य च यत्नतः ।।
आजगाम रणस्थानं निश्शङ्को नृपतेः पुरः ।।८।।
निर्ममे शरजालं च स मुनिर्मन्त्रपूर्वकम् ।।
आच्छादयत्स्वाश्रमं तैर्मानवं वर्मणा यथा ।। ९ ।।
अपरं शरजालं च निर्ममे मुनिपुङ्गवः ।।
तैरेव वारयामास सर्वसैन्यं यथाक्रमम् ।। १० ।।
मुनिना शरजालेन सर्वसैन्यं समावृतम् ।।
तानि सर्वाणि गुप्तानि यथा पत्राणि पञ्जरे ।। ११ ।।
राजा दृष्ट्वा मुनिश्रेष्ठमवरुह्य रथात्पुरः ।।
सार्द्धं नृपेन्द्रैर्भक्त्या च प्रणनाम कृताज्जलिः।।१२।।
नत्वाऽऽरुरोह यानं स मुनेः प्राप्य शुभाशिषः ।।
आरुह्य च नृपश्रेष्ठः स्वयानं हृष्टमानसः ।। ।।१३।।
नृपैः सार्द्धं नृपश्रेष्ठश्चिक्षेप मुनिपुङ्गवे।।
अस्त्रं शस्त्रं गदां शक्तिं जघान क्रीडया मुनिः ।।
मुनिश्चिक्षेप दिव्यास्त्रं चिच्छिदे लीलया नृपः ।। १४ ।।
शूलं चिक्षेप नृपतिस्तञ्जघान तदा मुनिः ।।
अपरं शरजालं च निर्ममे मुनिपुङ्गवः ।। १५ ।।
शस्त्रौघैर्दुर्निवार्य्यैश्च खण्डं खण्डं चकार च सः ।।
निबद्धाश्शरजालेन न च शक्ताः पलायितुम् ।। १६ ।।
जृम्भणास्त्रेण मुनिना ते च सर्वे विजृम्भिताः ।।
हस्त्यश्वरथपादातसहितं सर्वसैन्यकम् ।।१७।।
राजानं निद्रितं दृष्ट्वा न जघान मुनीश्वरः ।।
गृहीत्वा कपिलां हृष्टो रुदन्तीं शोकमूर्च्छिताम् ।।
बोधयित्वा पुरः कृत्वा स्वाश्रमं गन्तुमुद्यतः ।। १८ ।।
एतस्मिन्नन्तरे राजा चेतनां प्राप्य नारद ।।
निवारयामास मुनिं गृहीत्वा सशरं धनुः ।। १९ ।।
जगाम कपिला त्रस्ता स्वस्थानं च रणाजिरात् ।।
मुनिश्च तस्थौ निश्शङ्को गृहीत्वा सशरं धनुः ।। २० ।।
ब्रह्मास्त्रं च नृपश्रेष्ठः स चिक्षेप मुनौ तदा ।।
ब्रह्मास्त्रेण मुनीन्द्रस्य सद्यो निर्वाणतां गतम् ।।२१ ।।
दिव्यास्त्रेण मुनिश्रेष्ठो नृपस्य सशरं धनुः ।।
रथं च सारथिं चैव चिच्छिदे वर्म दुर्वहम् ।। २२ ।।
अथ राजा महाक्रुद्धो ददर्श स्वसमीपतः ।।
दत्तेन दत्तां शक्तिं तामेकपूरुषघातिनीम् ।।२३।।
जग्राह नत्वा दत्तं तं स नत्वा शक्तिमुल्बणाम् ।।
चूर्णयामास तत्रैव शतसूर्य्यसमप्रभाम्।। ।। २४ ।।
यत्तेजः सर्वदेवानां तेजो नारायणस्य च ।।
शम्भोश्च ब्रह्मणश्चैव मायायाश्चैव नारद ।। २५ ।।
तत्रैवावाहयामास स योगी मन्त्रपूर्वकम् ।।
तेजसा द्योतयामास गगनं च दिशो दश ।।२६।।
दृष्ट्वा क्षिपन्तीं तां देवा हाहाकारेण चुक्रुशुः।।
आकाशस्थाश्च समरं पश्यन्तो दुःखिता हृदा ।। २७ ।।
चिक्षेप तां चूर्णयित्वा कार्तवीर्य्यार्जुनः स्वयम् ।।
सद्यः पपात सा शक्तिर्ज्वलन्ती मुनिवक्षसि ।। २८ ।।
विदार्य्योरो मुनेः शक्तिर्जगाम हरिसन्निधिम् ।।
दत्ताय हरिणा दत्ता शस्त्रास्त्रनिधये तदा ।। २९ ।।
मूर्च्छां सम्प्राप्य स मुनिः प्राणांस्तत्याज तत्क्षणम् ।।
तेजोऽम्बरे भ्रमित्वा च ब्रह्मलोकं जगाम ह ।।३०।।
युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः।।
हे तात तातेत्युच्चार्य्य गोलोकं सा जगाम ह ।। ३१ ।।
सर्वं सा कथयामास गोलोके कृष्णमीश्वरम् ।।
रत्नसिंहासनस्थं तं गोपैर्गोपीभिरावृतम् ।। ३२ ।।
कृष्णेन ब्रह्मणे दत्ता ब्रह्मणा भृगवे पुरा ।।
सा प्रीत्या पुष्करे ब्रह्मन्भृगुणा जमदग्नये ।। ३३ ।।
नत्वा च कामधेनूनां समूहं सा जगाम ह ।।
तदश्रुबिन्दुना मर्त्त्ये रत्नसंधो बभूव ह ।।३४।।
अथ राजा तं निहत्य बोधयित्वा स्वसैन्यकम् ।।
प्रायश्चित्तं विनिर्वर्त्य जगाम स्वपुरं मुदा ।। ३५ ।।
प्राणनाथं मृतं श्रुत्वा जगाम रेणुका सती।।
मुनिं वक्षसि संस्थाप्य क्षणं मूर्च्छा मवाप सा ।। ३६ ।।
ततः सा चेतनां प्राप्य न रुरोद पतिव्रता ।।
एहि वत्स भृगो राम राम रामेत्युवाच ह ।। ३७ ।।
आजगाम भृगुस्तूर्णं क्षणाद्वै पुष्करादहो ।।
ननाम मातरं भक्त्या मनोयायी च योगवित् ।। ३८ ।।
दृष्ट्वा रामो मृतं तातं शोकार्तां जननीं सतीम् ।।
आकर्ण्य रणवृत्तान्तं प्रयान्तीं कपिलां शुचा ।। ३९ ।।
विललाप भृशं तत्र हे तात जननीति च ।।
चितां चकार योगी न्द्रश्चन्दनैराज्यसंयुताम् ।। ४० ।।
रेणुका राममादाय तूर्णं कृत्वा स्ववक्षसि ।।
चुचुम्ब गण्डे शिरसि रुरोदोच्चैर्भृशं मुहुः ।। ४१ ।।
राम राम महाबाहो क्व यामि त्वां विहाय च ।।
वत्स वत्सेति कृत्वैवं विललाप भृशं मुहुः ।। ४२ ।।
मत्प्राणाधिक हे वत्स मदीयं वचनं शृणु ।।
पित्रोः शेषक्रियां कृत्वा याया युद्धं न पुत्रक ।। ४३ ।।
गृहे तिष्ठ सुखं वत्स तपस्यां कुरु शाश्वतीम् ।।
समरं नैव सुखदं दारुणैः क्षत्रियैः सह ।। ४४।।
मातुर्वचनमश्रुत्वा प्रतिज्ञां तां चकार ह ।।
त्रिस्सप्तकृत्वो निर्भूपां करिष्यामि ध्रुवं महीम् ।। ।। ४९ ।।
कार्तवीर्यं हनिष्यामि लीलया क्षत्रियाधमम् ।।
पितॄंश्च तर्पयिष्यामि क्षत्रियक्षतजैस्तथा ।। ४६ ।।
इत्युदीर्य्य पुरो मातुर्विललाप मुहुर्मुहुः ।।
हितं तथ्यं नीतिसारं बोधयामास मातरम् ।। ४७ ।।
राम उवाच ।।
पितुः शासनहन्तारं पितुर्वधविधायकम् ।।
यो न हन्ति महामूढो रौरवं स व्रजेद् ध्रुवम् ।।४८।।
अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।।
क्षेत्रदारापहारी च पितृबन्धुविहिंसकः ।। ४९ ।।
सततं मन्दकारी च निन्दकः कटुजल्पकः।।
एकादशैते पापिष्ठा वधार्हा वेदसम्मताः ।।५० ।।
द्विजानां द्रविणादानं स्थानान्निर्वासनं सति ।।
वपनं ताडनं चैव वधमाहुर्मनीषिणः ।। ५१ ।।
एतस्मिन्नन्तरे तत्र चाजगाम भृगुः स्वयम् ।।
अतित्रस्तो मनस्वी च हृदयेन विदूयता ।। ५२ ।।
दृष्ट्वा तं रेणुकारामौ विनतौ संबभूवतुः ।।
स तावुवाच वेदोक्तं परलोकहिताय च ।। ९३ ।।
भृगुरुवाच ।।
मद्वंशजातो ज्ञानी त्वं कथं विलपसे सुत ।।
जलबुद्बुदवत्सर्वं संसारे च चराचरम् ।। ५४ ।।
सत्यसारं सत्यबीजं कृष्णं चिन्तय पुत्रक ।।
यद् गतं तद्गतं वत्स गतं नैवागमिष्यति ।। ५५ ।।
यद्भवेत्तद्भवत्येव भविता यद्भविष्यति ।।
पूर्वार्जितं स्वीयकर्म फलं केन निवार्य्यते ।। ५६ ।।
भूतं भव्यं भविष्यं च यत्कृष्णेन निरूपितम् ।।
निरूपितं यत्तत्कर्म केन वत्स निवार्यते ।। ५७ ।।
मायाबीजं मायिनां च शरीरं पाञ्चभौतिकम् ।।
संकेतपूर्वकं नाम प्रातः स्वप्नसमं सुत ।। ५८ ।।
क्षुधा निद्रा दया शान्तिः क्षमा कान्त्यादयस्तथा ।।
यान्ति प्राणा मनो ज्ञानं प्रयाते परमात्मनि ।। ५९ ।।
बुद्धिश्च शक्तयः सर्वा राजेन्द्रमिव किंकराः ।।
सर्वे तमनुगच्छन्ति तं कृष्णं भज यत्नतः ।। ६० ।।
के वा केषां च पितरः के वा केषां सुताः सुत ।।
कर्मभिः प्रेरिताः सर्वे भवाब्धौ दुस्तरे परम् ।। ६१ ।।
ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्र साम्प्रतम् ।।
रोदनाश्रुप्रपतनान्मृतानां नरकं धुवम् ।। ६२ ।।
संकेताख्योच्चारणेन यद्रुदन्ति च बान्धवाः ।।
शतवर्षं रुदित्वा तं प्राप्नुवन्ति न निश्चितम् ।।
पार्थिवांशं च पृथिवी गृह्णात्यस्थित्वचादिकम् ।। ६३ ।।
तोयांशं च तथा तोयं शून्यांशं गगनं तथा ।।
वाय्वंशं च तथा वायुस्तेजस्तेजोंशकं तथा ।। ६४ ।।
सर्वे विलीनाः सर्वेषु को वाऽऽयास्यति रोदनात् ।।
नामश्रुतियशःकर्म कथामात्रावशेषितः ।। ६५ ।।
वेदोक्तं चैव यत्कर्म कुरु तत्पारलौकिकम् ।।
स च बन्धुः स पुत्रश्च परलोकहिताय यः ।। ६६ ।।
भृगोस्तद्वचनं श्रुत्वा शोकं तत्याज तत्क्षणम् ।।
रेणुका च महासाध्वी तं वस्तुमुपचक्रमे ।। ६७ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे जमदग्निसंहारपरशुरामप्रतिज्ञादिवर्णनंनाम सप्तविंशोऽध्यायः ।। २७ ।।