प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २७ ब्रह्मवैवर्तपुराणम्
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

रेणुकोवाच ।।
ब्रह्मन्ननुगमिष्यामि प्राणनाथस्य साम्प्रतम् ।
ऋतोश्चतुर्थदिवसे मृतोऽयं चाद्य मानदः ।। १ ।।
कर्त्तव्या का व्यवस्थाऽत्र वद वेदविदां वर।।
त्वमागतो मे सहसा पुण्येन कतिजन्मनाम् ।।२।।
भृगुरुवाच ।। अहो पुण्यवतो भर्तुरनुगच्छ महासति ।।
चतुर्थदिवसं शुद्धं स्वामिनः सर्वकर्मसु ।। ३ ।।
शुद्धा भर्त्तुश्चतुर्थेऽह्नि न शुद्धा दैवपित्र्ययोः ।।
दैवे कर्मणि पित्र्ये च पञ्चमेऽह्नि विशुद्ध्यति ।। ४ ।।
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् ।।
तद्वत्स्वामिनमादाय साध्वी स्वर्गं प्रयाति च ।।५।।
मोदते स्वामिना तत्र यावदिन्द्राश्चतुर्दश ।।
अत ऊर्ध्वं कर्मभोगं भुङ्क्ष्व साध्वि शुभाशुभम् ।। ६ ।।
स पुत्रो भक्तिदाता यः सा च स्त्री याऽनुगच्छति ।।
स बन्धुर्दानदाता यः स शिष्यो गुरुमर्चयेत् ।। ७ ।।
सोऽभीष्टदेवो यो रक्षेत्स राजा पालयेत्प्रजाः ।।
स च स्वामी प्रियां धर्मे मतिं दातुमिहेश्वरः ।। ८ ।।
स गुरुर्धर्मदाता यो हरिभक्तिप्रदायकः ।।
एते प्रशंस्या वेदेषु पुराणेषु च निश्चितम् ।। ९ ।।
रेणुकोवाच ।।
गन्तुं स्वस्वामिना सार्द्धं का शक्ता भारते मुने ।।
का वाऽप्यशक्ता नारीषु तन्मे ब्रूहि तपोधन ।। १० ।।
भृगुरुवाच ।।
बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ।।
रजस्वला च कुलटा गलितव्याधिसंयुता ।। ११ ।।
पतिसेवाविहीना या ह्यभक्ता कटुभाषिणी ।।
एता गच्छन्ति चेद्दैवान्न कान्तं प्राप्नुवन्ति ताः ।। १२ ।।
संस्कृताग्निं पुरो दत्त्वा चितासु शयितं पतिम् ।।
कान्तास्तमनुगच्छन्ति कान्ताश्चेत्प्राप्नुवन्ति ताः ।। १३ ।।
अनुगच्छन्ति याः कान्तं तमेव प्राप्नुवन्ति ताः ।।
सार्द्धं कृत्वा पुण्यभोगं दिवि जन्मनि जन्मनि ।। १४ ।।
इयं ते कथिता साध्वि व्यवस्था गृहिणां ध्रुवम् ।।
तीर्थे ज्ञानमृतानां च वैष्णवानां गतिं शृणु।। ।। १५ ।।
या साध्वी वैष्णवं कान्तं यत्र यत्रानुगच्छति ।।
प्रयाति स्वामिना सार्द्धं वैकुण्ठे हरिसन्निधिम् ।। १६ ।।
विशेषो नास्ति भक्तानां तीर्थे वाऽन्यत्र नारद ।।
मरणेन फलं तुल्यं मुक्तानां कृष्णभाविनाम् ।। १७ ।।
तयोः पातो नास्ति तस्मान्महति प्रलयं सति ।।
नारायणं तं भजेत पुमान्स्त्री कमलालयाम् ।। १८ ।।
तीर्थे ज्ञानमृतश्चापि वैकुण्ठं याति निश्चितम् ।।
सभार्यो मोदते तत्र यावद्वै ब्रह्मणां शतम् ।। १९ ।।
इत्युक्त्वा रेणुकां तत्र जामदग्न्यमुवाच ह ।।
वेदोक्तं वचनं सर्वं स भृगुः समयोचितम् ।। २० ।।
एहि वत्स महाभाग त्यज शोकममङ्गलम् ।।
उत्तानं कुरु तातं च दक्षिणाशिरसं भृगो ।। २१ ।।
वस्त्रयज्ञोपवीतं च नूतनं परिधापय ।।
अनश्रुनयनो भूत्वा सन्तिष्ठन्दक्षिणामुखः ।। २२ ।।
अरणीसंभवाग्निं च गृहाण प्रीतिपूर्वकम् ।।
पृथिव्यां यानि तीर्थानि सर्वेषां स्मरणं कुरु ।। २३ ।।
गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः ।।
कुरुक्षेत्रं च गङ्गां च यमुनां च सरिद्वराम् ।।२४।।
कौशिकीं चन्द्रभागां च सर्वपापप्रणाशिनीम् ।।
गण्डकीमथ काशीं च पनसां सरयूं तथा ।। २५ ।।
पुष्पभद्रां च भद्रां च नर्मदां च सरस्वतीम् ।।
गोदावरीं च कावेरीं स्वर्णरेखां च पुष्करम् ।। २६ ।।
रैवतं च वराहं च श्रीशैलं गन्धमादनम् ।।
हिमालयं च कैलासं सुमेरुं रत्नपर्वतम् ।। २७ ।।
वाराणसीं प्रयागं च पुण्यं वृन्दावनं वनम् ।।
हरिद्वारं च बदरीं स्मारंस्मारे पुनः पुनः ।। २८ ।।
चन्दनागरुकस्तूरीसुगन्धिकुसुमं तथा ।।
प्रदाय वाससाऽऽच्छाद्य स्थापयैनं चितोपरि ।। २९ ।।
कर्णाक्षिनासिकास्ये त्वं शलाकां च हिरण्मयीम् ।।
कृत्वा निर्मन्थनं तात विप्रेभ्यो देहि सादरम् ।।३०।।
सतिलं ताम्रपात्रं च धेनुं च रजतं तथा ।।
सदक्षिणं सुवर्णं च दत्त्वाऽग्निं देह्यकातरः ।। ३१ ।।
ॐ कृत्वा दुष्कृतं कर्म्म जानता वाऽप्यजानता ।।
मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ।। ३२ ।।
धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ।।
दह सर्वाणि गात्राणि दिव्याँल्लोकान्स गच्छतु ।। ।। ३३ ।।
इमं मन्त्रं पठित्वा तु तातं कृत्वा प्रदक्षिणम् ।।
मन्त्रेणानेन देह्यग्निं जनकाय हरिं स्मरन् ।। ३४ ।।
ॐ अस्मत्कुले त्वं जातोऽसि त्वदीयो जायतां पुनः ।।
असौ स्वर्गाय लोकाय स्वाहेति वद साम्प्रतम् ।।३५।।
अग्निं देहि शिरःस्थाने हे भृगो भ्रातृभिः सह ।।
तच्चकार भृगुः सर्वं सगोत्रैराज्ञया भृगोः ।। ३६ ।।
अथ पुत्रं रेणुका सा कृत्वा तत्र स्ववक्षसि ।।
उवाच किंचिद्वचनं परिणामसुखावहम् ।। ३७ ।।
अविरोधो भवाब्धौ च सर्वमङ्गलमङ्गलम् ।।
विरोधो नाशबीजं च सर्वोपद्रवकारणम् ।। ३८ ।।
अकर्तव्यो विरोधो वै दारुणैः क्षत्रियैः सह ।।
प्रतिज्ञा चैव कर्त्तव्या मदीये वचने श्रुते ।।३९ ।।
आलोच्य ब्रह्मणा सार्द्धं भृगुणा दिव्यमन्त्रिणा ।।
यथोचितं च कर्तव्यं सद्भिरालोचनं शुभम् ।।४०।।
इत्युक्त्वा तं परित्यज्य कान्तं कृत्वा स्ववक्षसि।।
सा सुष्वाप चितायां च पश्यन्ती तं हरिस्मृतिः ।।४१।।
वह्निं ददौ चितायां च स रामो भ्रातृभिः सह ।।
भ्रातृभिः पितृशिष्यैश्च सार्द्धं स विललाप च ।। ४२ ।।
राम रामेति रामेति वाक्यमुच्चार्य्य सा सती ।।
पुरस्ताज्जामदग्न्यस्य भस्मीभूता बभूव सा।।४३।।
भर्तुर्नाम समाकर्ण्य तत्राजग्मुर्हरेश्चराः।।
रथस्थाः श्यामवर्णाश्च सर्वे चारुचतुर्भुजाः ।। ४४ ।।
शङ्खचक्रगदापद्मधारिणो वनमालिनः ।।
किरीटिनः कुण्डलिनः पीतकौशेयवाससः ।।४५।।
रथे कृत्वा रेणुकां तां गत्वा ते ब्रह्मणः पदम् ।।
जमदग्निं समादाय प्रजग्मुर्हरिसन्निधिम् ।।४६।।
तौ दम्पती च वैकुण्ठे तस्थतुर्हरिसन्निधौ ।।
कृत्वा दास्यं हरेः शश्वत्सर्वमङ्गलमङ्गलम् ।। ४७ ।।
अथ रामो ब्राह्मणैश्च भृगुणा सह नारद ।।
पित्रोः शेषक्रियां कृत्वा ब्राह्मणेभ्यो धनं ददौ ।। ४८ ।।
गोभूहिरण्यवासांसि दिव्यशय्यां मनोरमाम् ।।
सुवर्णाधारसहितां जलमन्नं च चन्दनम् ।। ४९ ।।
रत्नदीपं रौप्यशैलं सुवर्णासनमुत्तमम् ।।
सुवर्णाधारसहितं ताम्बूलं च सुवासितम् ।।५०।।
छत्रं च पादुके चैव फलं माल्यं मनोहरम् ।।
फलं मूलादिकं चैव मिष्टान्नं च मनोहरम् ।।
ब्राह्मणेभ्यो धनं दत्त्वा ब्रह्मलोकं जगाम सः ।। ५१ ।।
ददर्श ब्रह्मलोकं स शातकुम्भविनिर्मितम् ।।
स्वर्णप्राकारसंयुक्तं स्वर्णस्तम्भैर्विभूषितम् ।। ५२ ।।
ददर्श तत्र ब्रह्माणं ज्वलन्तं ब्रह्मतेजसा।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।। ५३ ।।
सिद्धैस्तपश्चान्द्रायणैर्ऋषीन्द्रैः परिवेष्टितम् ।।
विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा ।।५४।।
संगीतमुपशृण्वन्तं गीयमानं च गायकैः ।।
चन्दनागरुकस्तूरीकुंकुमेन विराजितम् ।।५५।।
तपसां फलदातारं दातारं सर्वसम्पदाम् ।।
धातारं सर्वजगतां कर्तारं चेश्वरं परम् ।। ५६ ।।
परिपूर्णतमं ब्रह्म जपन्तं कृष्णमीश्वरम् ।।
गुह्ययोगं प्रवोचन्तं पृच्छन्तं शिष्यमण्डलम् ।। ५७ ।।
दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगुः पुरः ।।
उच्चैश्च रोदनं कृत्वा स्ववृत्तान्तमुवाच ह।। ।। ५८ ।।
भृगुरुवाच ।। ब्रह्मंस्त्वद्वंशजातोऽहं जमदग्निसुतो विधे ।।
पितामहस्त्वमस्माकं सर्वज्ञं कथयामि किम् ।। ५९ ।।
मृगयामागतं भूपं पिता मे चोपवासिनम् ।।
पारणां कारयामास कपिलादत्तवस्तुना ।। ६० ।।
स राजा कपिलालोभात्कार्तवीर्य्यार्जुनः स्वयम् ।।
घातयामास मत्तातमित्युक्त्वोच्चै रुरोद सः ।।६१।।
निरुध्य बाष्पं स पुनरुवाच करुणानिधिः ।।
माता मेऽनुगता साध्वी मां विहाय जगद्गुरो ।। ६२ ।।
अधुनाऽहमनाथश्च त्वं मे माता पिता गुरुः ।।
कर्ता पालयिता दाता पाहि मां शरणागतम् ।।६३।।
आगतोऽहं तव सभां प्रमातुर्मातुराज्ञया ।।
उपायेन जगन्नाथ मद्वैरिहननं कुरु ।।६४।।
स राजा स च धर्मिष्ठः स दयालुर्यशस्करः ।।
स पूज्यः स स्थिरश्रीश्च यो दीनं परिपालयेत् ।। ६५ ।।
धनिदीनौ समं दृष्ट्वा यः प्रजां न च पालयेत् ।।
तद्देहाद्याति रुष्टा श्रीः स भवेद्भ्रष्टराज्यकः ।। ६६ ।।
श्रुत्वा विप्रबटोर्वाक्यं करुणासागरो विधिः ।।
दत्त्वा शुभाशिषं तस्मै वासयामास वक्षसि ।। ६७ ।।
श्रुत्वा भृगोः प्रतिज्ञां च विस्मितश्चतुराननः ।।
अतीव दुष्करां घोरां बहुजीवविघातिनीम् ।। ६८ ।।
कर्मणा तद्भवेत्सर्वमिति कृत्वा तु मानसे ।।
उवाच जामदग्न्यं तं परिणामसुखावहम् ।।६९।।
ब्रह्मोवाच ।।
प्रतिज्ञा दुष्करा वत्स वहुजीवविघातिनी।।
सृष्टिरेषा भगवतः सम्भवेदीश्वरेच्छया ।। ७० ।।
सृष्टिः सृष्टा मया पुत्र क्लेशेनैवेश्वराज्ञया ।।
सृष्टिलुप्तौ प्रतिज्ञा ते दारुणाऽकरुणा परा ।। ७१ ।।
त्रिस्सप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम् ।।
एकक्षत्त्रियदोषेण तज्जातिं हन्तुमिच्छसि ।। ७२ ।।
ब्रह्मक्षत्त्रियविट्छूद्रैर्नित्या सृष्टिश्चतुर्विधैः ।।
आविर्भूता तिरोभूता हरेरेव पुनः पुनः ।। ७३ ।।
अन्यथा त्वत्प्रतिज्ञा च भविता प्राक्तनेन ते ।।
बह्वायासेन ते कार्य्यसिद्धिर्भवितुमर्हति ।। ७४ ।।
शिवलोकं गच्छ वत्स शङ्करं शरणं व्रज ।।
पृथिव्यां बहवो भूपाः सन्ति शङ्करकिङ्कराः ।। ।। ७५ ।।
विनाऽज्ञया महेशस्य को वा तान्हन्तुमीश्वरः ।।
बिभ्रतः कवचं दिव्यं शक्तेर्वै शङ्करस्य च ।। ७६ ।।
उपायं कुरु यत्नेन जयबीजं शुभावहम् ।।
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः ।। ७७ ।।
श्रीकृष्णमन्त्रकवचग्रहणं कुरु शङ्करात् ।।
दुर्लभं वैष्णवं तेजः शैवं शाक्तं विजेष्यति ।। ७८ ।।
गुरुस्ते जगतां नाथः शिवो जन्मनि जन्मनि ।।
मन्त्रो मत्तो न युक्तस्ते यो युक्तः स भवेद्विधिः ।। ७९ ।।
कर्मणा लभ्यते मन्त्रः कर्मणा लभ्यते गुरुः ।।
स्वयमेवोपतिष्ठन्ते ये येषां तेषु ते धुवम् ।। ८० ।।
त्रैलोक्य विजयं नाम गृहीत्वा कवचं वरम् ।।
त्रिस्सप्तकृत्वो निर्भूपां करिष्यसि महीं भृगो ।। ८१ ।।
दिव्यं पाशुपतं तुभ्यं दाता दास्यति शंकरः ।।
तेन दत्तेन मन्त्रेण क्षत्रसंघं विजेष्यसि ।। ८२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे भृगोर्ब्रह्मलोकगमने ब्रह्मोक्तोपायवर्णनं नामाष्टाविंशोऽध्यायः ।। २८ ।।