प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २८ ब्रह्मवैवर्तपुराणम्
अध्यायः २९
वेदव्यासः
अध्यायः ३० →

नारायण उवाच ।।
ब्रह्मणो वचनं श्रुत्वा प्रणम्य च जगद्गुरुम्।।
स्फीतस्तस्माद्वरं प्राप्य शिवलोकं जगाम सः ।। १ ।।
लक्षयोजनमूर्ध्वं च ब्रह्मलोकाद्विलक्षणम् ।।
अनिर्वाच्यसुशोभाढ्यं वाय्वाधारं मनोहरम् ।। २ ।।
वैकुण्ठं दक्षिणे यस्य गौरीलोकश्च वामतः ।।
यदधो धुवलोकश्च सर्वलोकात्परः स्मृतः ।। ३ ।।
तेषामूर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ।।
अत ऊर्ध्वं न लोकश्च सर्वोपरि च स स्मृतः ।। ४ ।।
मनोयायी स योगीन्द्रः शिवलोकं ददर्श ह ।।
उपमानोपमेयाभ्यां रहितं महदद्भुतम् ।।५।।
योगीन्द्राणां वरेण्यैश्च सिद्धविद्याविशारदैः।।
कोटिकल्पतपःपूतैः पुण्यवद्भिर्निषेवितम्।।६।।
वेष्टितं कल्पवृक्षाणां समूहैर्वाञ्छितप्रदैः ।।
समूहैः कामधेनूनामसंख्यानां विराजितम् ।। ७ ।।
पारिजाततरूणां च वनराजिविराजितम् ।।
पुष्पोद्यानायुतैर्युक्तं सदा चातिसुशोभितम् ।। ८ ।।
मणीन्द्रसाररचितैः शोभितैर्मणिवेदिभिः ।।
राजमार्गशतैर्दिव्यैः सर्वतः परिभूषितम् ।।९।।
मणीन्द्रासारनिर्माणशतकोटिगृहैर्युतम् ।।
नानाचित्रविचित्राढ्यैर्मणीन्द्रकलशोज्ज्वलैः ।। १० ।।
तन्मध्यदेशे रम्ये च ददर्श शङ्करालयम् ।।
मणीन्द्रसाररचितप्राकारं सुमनोहरम् ।। ११ ।।
अत्यूर्ध्वमम्बरस्पर्शि क्षीरनीरनिभं परम् ।।
षोडशद्वारसंयुक्तं शोभितं शतमन्दिरैः ।। १२ ।।
अमूल्यरत्नरचितै रत्नसोपानभूषितैः ।।
रत्नस्तम्भकपाटैश्च हीरकेण परिष्कृतैः ।। १३ ।।
माणिक्यजालमालाभिः सद्रत्नकलशोज्ज्वलैः ।।
नानाविचित्रचित्रेण चित्रितैः सुमनोहरैः ।। १४ ।।
आलयस्य पुरस्तत्र सिंहद्वारं ददर्श सः ।।
रत्नेन्द्रसारखचितकपाटैश्च विराजितैः ।। १५ ।।
शोभितं वेदिकाभिश्च बाह्याभ्यन्तरतः सदा ।।
रचिताभिः पद्मरागैर्महामरकतैर्गृहम् ।। १६ ।।
नानाप्रकारचित्रेण चित्रितं सुमनोहरम् ।।
करालरूपावद्राक्षीद् द्वारपालौ भयंकरौ ।। ।। १७ ।।
महाकरालदन्तास्यौ विरक्तौ रक्तलोचनौ ।।
दग्धशैलप्रतीकाशौ महाबलपराक्रमौ ।। १८ ।।
विभूतिभूषितांगौ च व्याघ्रचर्माम्बरौ वरौ ।।
पिङ्गलाक्षौ विशालाक्षौ जटिलौ च त्रिलोचनौ ।।१९।।
त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा ।।
तौ दृष्ट्वा मनसा भीतस्त्रस्तः किञ्चिदुवाच ह ।। २० ।।
विनयेन विनीतश्च दुर्विनीतौ महाबलौ ।।
आत्मनः सर्ववृत्तान्तं कथयामास तत्पुरः ।। ।। २१ ।।
विप्रस्य वचनं श्रुत्वा कृपायुक्तौ बभूवतुः ।।
गृहीत्वाऽऽज्ञां चरद्वारा शंकरस्य महात्मनः ।। २२ ।।
प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ वरौ ।।
भृगुस्तदाज्ञामादाय प्रविवेश हरिं स्मरन् ।। २३ ।।
प्रत्येकं षोडश द्वारो ददर्श सुमनोहराः ।।
द्वारपालैर्नियुक्ताश्च नानाचित्रविचित्रिताः ।। २४ ।।
दृष्ट्वा ता महदाश्चर्य्यादपश्यच्छूलिनः सभाम् ।।
नानासिद्धगणाकीर्णां महर्षिगणसेविताम् ।। २५ ।।
पारिजातसुगन्धाढ्यवायुना सुरभीकृताम् ।।
ददर्श तत्र देवेशं शङ्करं चन्द्रशेखरम् ।। २६ ।।
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम्।।
विभूतिभूषितांगं तं नागयज्ञोपवीतिनम् ।।
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ।।२७।।
महाशिवं शिवकरं शिवबीजं शिवाश्रयम्।।
आत्मारामं पूर्णकामं सूर्य्यकोटिसमप्रभम् ।। २८ ।।
ईषद्धास्यं प्रसन्नास्यं भक्तानुग्रहकातरम् ।।
शश्वज्ज्योतिस्स्वरूपं च लोकानुग्रहविग्रहम्।।२९।।
धृतवन्तं जटाजालं दक्षकन्यासमन्वितम् ।।
तपसां फलदातारं दातारं सर्वसम्पदाम् ।।३०।।
शुद्धस्फटिकसंकाशं पञ्च वक्त्रं त्रिलोचनम् ।।
गुह्यं ब्रह्म प्रवोचन्तं शिष्येभ्यस्तत्त्वमुद्रया ।। ३१ ।।
स्तूयमानं च योगीन्द्रैः सिद्धेन्द्रैः परिसेवितम् ।।
पार्षदप्रवरैश्शश्वत्सेवितं श्वेतचामरैः।।३२।।
ध्यायमानं परं ब्रह्म परिपूर्णतमं परम्।।
स्वेच्छामयं गुणातीतं जरामृत्युहरं परम्।।३३।।
ज्योतीरूपं च सर्वाद्यं श्रीकृष्णं प्रकृतेः परम् ।।
ध्यायन्तं परमानन्दं पुलकाञ्चितविग्रहम् ।।
सुस्वरं साश्रुनेत्रं तमुद्गायन्तं गुणार्णवम् ।। ३४ ।।
भूतेन्द्रैर्वै रुद्रगणैः क्षेत्रपालैश्च वेष्टितम् ।।
मूर्ध्ना ननाम परशुरामो दृष्ट्वा तमादरात् ।। ३५ ।।
तद्वामे कार्त्तिकेयं च दक्षिणे च गणेश्वरम् ।।
नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः ।।
अंके ददर्श कान्तां तां गौरीं शैलेन्द्रकन्यकाम् ।। ३६ ।।
ननाम सर्वान्मूर्ध्ना च भक्त्या च परया मुदा ।।
दृष्ट्वा हरं परं तोषात्स्तोतुं समुपचक्रमे ।।३७।।
सगद्गदपदं दीनस्साश्रुनेत्रोऽतिकातरः ।।
कृताञ्जलिपुटः शान्तः शोकार्तः शोकनाशनम् ।। ३८ ।।
परशुराम उवाच ।।
ईश त्वां स्तोतुमिच्छामि सर्वथा स्तोतुमक्षमः ।।
अक्षराक्षयबीजं च किं वा स्तौमि निरीहकम् ।।३९।।
न योजनां कर्त्तुमीशो देवेशं स्तौमि मूढधीः ।।
वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ।। ।।४०।।
वाग्बुद्धिमनसां दूरं सारात्सारं परात्परम् ।।
ज्ञानमात्रेण साध्यं च सिद्धं सिद्धैर्निषेवितम्।। ४१।।
यमाकाशमिवाद्यन्तमध्यहीनं तथाऽव्ययम् ।।
विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ।। ४२ ।।
ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम् ।।
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ।। ४३ ।।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।।
स्वप्नेऽप्यदृष्टं भक्तैश्चाधुना पश्यामि चक्षुषा ।। ४४ ।।
शक्रादयः सुरगणाः कलया यस्य सम्भवाः ।।
चराचराः कलांशेन तं नमामि महेश्वरम् ।। ४५ ।।
स्त्रीरूपं क्लीबरूपं च पौरुषं च बिभर्ति यः ।।
सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ।। ४६ ।।
यं भास्करस्वरूपं च शशिरूपं हुताशनम् ।।
जलरूपं वायुरूपं तं नमामि महेश्वरम् ।। ४७ ।।
अनन्तविश्वसृष्टीनां संहर्तारं भयंकरम् ।।
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ।।४८।।
यः कालः कालकालश्च कलिर्बीजं च कालजः।।
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम्।।४९।।
इत्येवमुक्त्वा स भृगुः पपात चरणाम्बुजे ।।
आशिषं च ददौ तस्मै सुप्रसन्नो बभूव सः ।। ५० ।।
जामदग्न्यकृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।।
सर्वपापविनिर्मुक्तः शिवलोकं स गच्छति ।। ५१ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे परशुरामस्य कैलासगमननामैकोनत्रिंशोऽध्यायः ।। २९ ।।