प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३७ ब्रह्मवैवर्तपुराणम्
अध्यायः ३८
वेदव्यासः
अध्यायः ३९ →

नारायण उवाच ।।
सुचन्द्रे पतिते ब्रह्मन्राजेन्द्राणां शिरोमणौ ।।
अगमत्पुष्कराक्षस्तु सेनात्र्यक्षौहिणीयुतः ।। १ ।।
सूर्य्यवंशोद्भवो राजा सुचन्द्रतनयो महान् ।।
महालक्ष्मीसेवकश्च लक्ष्मीवान्सूर्य्यसन्निभः ।। २ ।।
महालक्ष्म्याश्च कवचं गले यस्य मनोहरम् ।।
परमैश्वर्य्यसंयुक्तस्त्रैलोक्यविजयी ततः ।।३।।
तं दृष्ट्वा भ्रातरः सर्वे रैणुकेयस्य धीमतः ।।
आययुः समरं कर्त्तुं नानाशस्त्रास्त्रपाणयः ।।।४।।
राजेन्द्रः शरजालेन च्छेदयामास तांस्तथा ।।
चिच्छिदुः शरजालं च ते वीराश्चैव लीलया ।। ५ ।।
चिच्छिदुः स्यन्दनं राज्ञस्ते वीराः पञ्चबाणतः ।।
सारथिं पञ्चबाणेन रथाश्वं दशबाणतः ।। ६ ।।
तद्धनुः सप्तबाणेन तूर्णं वै पञ्चबाणतः ।।
चिच्छिदुस्तद्भ्रातृवर्गान्विप्राः शङ्करशूलतः ।।७।।
ते च त्र्यक्षौहिणीं सेनान्निजघ्नुश्चापि लीलया ।।
हन्तुं नृपेन्द्रं ते वीराः शिवशूलं निचिक्षिपुः ।।
गले बभूव तच्छूलं राज्ञः पुष्करमालिका ।। ८ ।।
शक्तिं च परिघं चैव भुशुण्डीं मुद्गरं तथा ।।
गदां च चिक्षिपुर्विप्राः कोपेन ज्वलदग्नयः ।। ९ ।।
तानि शस्त्राणि चूर्णानि क्ष्माभृतो देहयोगतः ।।
विस्मिता भ्रातरः सर्वे भृगोरेव महामुने ।।3.38.१०।।
रथं धनुश्च शस्त्राणि चास्त्राणि विविधानि च ।।
सेनां प्रस्थापयामास कार्त्तवीर्य्यार्जुनः स्वयम्।।११।।
राजा स्यन्दनमारुह्य पुष्कराक्षो महाबलः ।।
चकार शरजालं च महाघोरतरं मुने ।। १२ ।।
चिच्छिदुः शरजालं ते वीराः शस्त्रास्त्रपाणयः ।।
राजा प्रस्वापनेनैव निद्रितांस्तांश्चकार ह ।। १३ ।।
भ्रातॄंश्च निद्रितान्दृष्ट्वा जामदग्न्यो महाबलः ।।
क्षतविक्षतसर्वांगान्बोधयामास तत्त्वतः ।।१४।।
बोधयित्वा तान्निवार्य्य जगाम रणमूर्द्धनि ।।
चिक्षेप पर्शुं कोपेन शीघ्रं राजजिघांसया।।१५।।
छित्त्वा राज्ञः किरीटं च पर्शुर्भूमौ पपात ह।।
जग्राह परशुं शीघ्रं जामदग्न्यो महाबलः।।१६।।
तदा शङ्करशूलं च चिक्षिपे मन्त्रपूर्वकम् ।।
नृपस्य कुण्डलं छित्त्वा जगाम शिवसन्निधिम्।।१७।।
राजा निहन्तुं तं रामं शरजालं चकार ह ।।
चिच्छेद शरजालं च रेणुकेयश्च लीलया ।।१८।।
क्रमेण राजा नानास्त्रं चिक्षिपे मन्त्रपूर्वकम्।।
तच्चिच्छेद क्रमेणैव भृगुः शस्त्रभृतां वरः।।१९।।
भृगुश्चिक्षेप नानास्त्रं महासन्धानपूर्वकम् ।।
तच्चिच्छेद महाराजः सन्धानेनैव लीलया ।। 3.38.२० ।।
रामश्चिक्षेप सन्धाय ब्रह्मास्त्रं मन्त्रपूर्वकम् ।।
राजा निर्वापणं चक्रे सन्धानेनैव लीलया ।।२१।।
सर्वाण्यस्त्राणि शस्त्राणि रामः पाशुपतं विना ।।
चिक्षेप कोपविभ्रांतो भूपश्चिच्छेद तानि च ।। २२ ।।
रामः स्तुत्वा शिवं नत्वाऽऽददे पाशुपतं मुने ।।
नारायणश्च भगवानवोचद् विप्ररूपधृक् ।। २३ ।।
ब्राह्मण उवाच ।।
किं करोषि भृगो वत्स त्वमेवं ज्ञानिनां वरः ।।
नरं हन्तुं पाशुपतं कोपात्किं क्षिपसि भ्रमात् ।। २४ ।।
विश्वं पाशुपतेनैव भवेद्भस्म च सत्वरम् ।।
सर्वघ्नं स्याच्छस्त्रमिदं विना श्रीकृष्णमीश्वरम् ।। २५ ।।
अहो पाशुपतं जेतुं नालमेव सुदर्शनम् ।।
हरेः सुदर्शनं चैव सर्वास्त्रपरिमर्दकम् ।।२६।।
खट्वांगिनः पाशुपातं हरेरेव सुदर्शनम् ।।
एते प्रधाने सर्वेषामस्त्राणां च जगत्त्रये ।। २७ ।।
त्यज पाशुपतं ब्रह्मन्मदीयं वचनं शृणु ।।
यथा जेष्यसि राजानं पुष्कराक्षं महाबलम् ।। २८ ।।
कार्त्तवीर्य्यमजेतारं यथा जेष्यसि साम्प्रतम् ।।
श्रूयतां सावधानेन तत्सर्वं कथयामि ते ।। २९ ।।
महालक्ष्म्याश्च कवचं त्रिषु लोकेषु दुर्लभम् ।।
भक्त्या च पुष्कराक्षेण धृतं कण्ठे विधानतः ।। 3.38.३० ।।
परं दुर्गतिनाशिन्याः कवचं परमाद्भुतम् ।।
धृतं च दक्षिणे बाहौ पुष्कराक्षसुतेन च ।। ३१ ।।
कवचस्य प्रभावेण विश्वं जेतुं क्षमौ च तौ ।।
को जेता च त्रिभुवने देहे च कवचे स्थिते ।। ३२ ।।
अहं यास्यामि भिक्षार्थं सन्निधाने तयोर्मुने ।।
करिष्यामि च तद्भिक्षां प्रतिज्ञा सफलाऽस्तु ते ।। ३३ ।।
ब्राह्मणस्य वचः श्रुत्वा रामः संत्रस्तमानसः ।।
उवाच ब्राह्मणं वृद्धं हृदयेन विदूयता ।। ३४ ।।
परशुराम उवाच ।।
न जानामि महाप्राज्ञ कस्त्वं ब्राह्मणरूपधृक् ।।
शीघ्रं च ब्रूहि मां मूढं तदा गच्छ नृपान्तिकम् ।। ३५ ।।
जामदग्न्यवचः श्रुत्वा प्रहस्य ब्राह्मणः स्वयम् ।।
उक्त्वा चाहं विष्णुरिति ययौ भिक्षितुमीश्वरः ।। ३६ ।।
गत्वा तयोः सन्निधानं ययाचे कवचे च तौ ।।
ददतुस्तौ च कवचे विष्णवे विष्णुमायया ।।
गृहीत्वा कवचे विष्णुर्वैकुण्ठं निर्जगाम सः ।। ३७ ।।
नारद उवाच ।।
महालक्ष्म्याश्च कवचं केन दत्तं महामुने ।।
पुष्कराक्षाय भूपाय श्रोतुं कौतूहलं मम ।। ३८ ।।
कवचं चापि दुर्गायाः पुष्कराक्षसुताय च ।।
दुर्ल्लभं केन वा दत्तं तद्भवान्वक्तुमर्हसि ।। ३९ ।।
कवचं चापि किम्भूतं तयोर्वा तस्य किं फलम् ।।
मन्त्रौ तु किंप्रकारौ च तन्मे ब्रूहि जगद्गुरो।। ।।। 3.38.४० ।।
नारायण उवाच ।।
दत्तं सनत्कुमारेण पुष्कराक्षाय धीमते ।।
महालक्ष्म्याश्च कवचं मन्त्रश्चापि दशाक्षरः ।। ४१ ।।
स्तवनं चापि गोप्यं वै प्रोक्तं तच्चरितं च यत् ।।
ध्यानं च सामवेदोक्तं पूजां चैव मनोहराम् ।। ४२ ।।
दुर्गायाश्चापि कवचं दत्तं दुर्वाससा पुरा।।
स्तवनं चापि गोप्यं च मन्त्रश्चापि दशाक्षरः।।४३।।
पश्चाच्छ्रोष्यसि तत्सर्वं देव्याश्च परमाद्भुतम्।।
महायुद्धसमारम्भे दत्तं प्रार्थनया च यत् ।।४४।।
महालक्ष्म्याश्च मन्त्रं च शृणु तं कथयामि ते ।।
ॐ श्रीं कमलवासिन्यै स्वाहेति परमाद्भुतम् ।। ४५।।
ध्यानं च सामवेदोक्तं शृणु पूजाविधिं मुने ।।
दत्तं तस्मै कुमारेण पुष्कराक्षाय धीमते ।। ४६ ।।
सहस्रदलपद्मस्थां पद्मनाभप्रियां सतीम् ।।
पद्मालयां पद्मवक्त्रां पद्मपत्राभलोचनाम् ।। ४७।।
पद्मपुष्पप्रियां पद्मपुष्पतल्पाधिशायिनीम् ।।
पद्मिनीपद्महस्तां च पद्ममालाविभूषिताम् ।। ४८ ।।
पद्मभूषणभूषाढ्यां पद्मशोभाविवर्द्धनीम् ।।
पद्माटवीं प्रपश्यन्तीं सस्मितां तां भजे मुदा ।। ४९ ।।
चन्दनाष्टदले पद्मे पद्मपुष्पेण पूजयेत् ।।
गणं सम्पूज्य दत्त्वा चैवोपचारांश्च षोडश ।। 3.38.५० ।।
ततः स्तुत्वा च प्रणमेत्साधको भक्तिपूर्वकम् ।।
कवचं श्रूयतां ब्रह्मन्सर्वसारं वदामि ते ।। ५१ ।।
शृणु विप्रेन्द्र पद्मायाः कवचं परमं शुभम् ।।
पद्मनाभेन यद्दत्तं ब्रह्मणे नाभिपद्मके ।। ५२ ।।
सम्प्राप्य कवचं ब्रह्मा तत्पद्मे ससृजे जगत् ।।
पद्मालयाप्रसादेन सलक्ष्मीको बभूव सः ।। ५३ ।।
पद्मालयावरं प्राप्य पाद्मश्च जगतां प्रभुः ।।
पाद्येन पद्मकल्पे च कवचं परमाद्भुतम् ।।५४।।
दत्तं सनत्कुमाराय प्रियपुत्राय धीमते ।।
कुमारेण च यद्दत्तं पुष्कराय च नारद ।। ५५ ।।
यद्धृत्वा पाठनाद् ब्रह्मा सवसिद्धेश्वरो महान् ।।
परमैश्वर्य्यसंयुक्तः सर्वसम्पत्समन्वितः ।। ५६ ।।
यद्दत्वा च धनाध्यक्षः कुबेरश्च धनाधिपः ।।
स्वायम्भुवो मनुः श्रीमान्पठनाद्धारणाद्यतः ।। ५७ ।।
प्रियव्रतोत्तानपादौ लक्ष्मीवन्तौ यतो मुने ।।
पृथुः पृथ्वीपतिः सद्यो ह्यभवद्वारणाद्यतः ।। ५८ ।।
कवचस्य प्रसादेन स्वयं दक्षः प्रजापतिः ।।
धर्म्मश्च कर्म्मणां साक्षी पाता यस्य प्रसादतः ।। ५९ ।।
यद्धृत्वा दक्षिणे बाहौ विष्णुः क्षीरोदशायितः ।।
भक्त्या विधत्ते कण्ठे च शेषो नारायणांशकः ।। 3.38.६० ।।
यद्धृत्वा वामनं लेभे कश्यपश्च प्रजापतिः ।।
सर्वदेवाधिपः श्रीमान्महेन्द्रो धारणाद्यतः ।। ६१ ।।
राजा मरुत्तो भगवानभवद्धारणाद्यतः ।।
त्रैलोक्याधिपतिः श्रीमान्नहुषो यस्य धारणात् ।। ६२ ।।
विश्वं विजिग्ये खट्वाङ्गः पठनाद्धारणाद्यतः ।।
मुचुकुन्दो यतः श्रीमान्मान्धातृतनयो महान्।। ६३ ।।
सर्वसम्पत्पदस्यास्य कवचस्य प्रजापतिः ।।
ऋषिश्छन्दश्च बृहती देवी पद्मालया स्वयम् ।। ६४ ।।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।।
पुण्यबीजं च महतां कवचं परमाद्भुतम् ।।६५।।
ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम्।।
श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः।६६।।।
ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु।।
ॐ श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम।६७।।
ॐ श्रीं पद्मालयायै च स्वाहा दन्तान्सदाऽवतु ।।
ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु।।६८।।
ॐ श्रीं नारायणेशायै मम कण्ठं सदाऽवतु।।
ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु।। ।।६९।।
ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु।।
ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु।।3.38.७०।।
ओं श्रीं मों कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु ।।
ओं ह्रीं श्रीं श्रियै स्वाहा च मम हस्तौ सदाऽवतु ।। ७१ ।।
ॐ श्रीनिवासकान्तायै मम पदौ सदाऽवतु ।।
ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ।। ७२ ।।
प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया ।।
पद्मा मां दक्षिणे पातु नैर्ऋत्यां श्रीर्हरिप्रिया ।। ७३ ।।
पद्मालया पश्चिमे मां वायव्यां पातु सा स्वयम् ।।
उत्तरे कमला पातु चैशान्यां सिन्धुकन्यका ।। ७४ ।।
नारायणी च पातूर्ध्वमधो विष्णुप्रियाऽवतु ।।
सन्ततं सर्वतः पातु विष्णुप्राणाधिका मम ।। ।। ७९ ।।
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।।
सर्वैश्वर्य्यप्रदं नाम कवचं परमाद्भुतम् ।। ७६ ।।
सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये ।।
यत्फलं लभते धर्मी कवचेन ततोऽधिकम् ।। ७७ ।।
गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः ।।
कण्ठे वा दक्षिणे बाहौ स श्रीमान्प्रतिजन्मनि ।। ७८ ।।
अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपूरुषम् ।।
देवेन्द्रैश्चासुरेन्द्रैश्च सोऽवध्यो निश्चितं भवेत् ।। ७९ ।।
स सर्वपुण्यवान्धीमान्सर्वयज्ञेषु दीक्षितः ।।
स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले ।। 3.38.८० ।।
यस्मै कस्मै न दातव्यं लोभमोहभयैरपि ।।
गुरुभक्ताय शिष्याय शरण्याय प्रकाशयेत् ।। ८१ ।।
इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रभुम् ।।
कोटिसंख्यं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। ८२ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे श्रीलक्ष्मीकवचवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः ।। ३८ ।।