प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०१७ श्रीकृष्णजन्मखण्डः
अध्यायः ०१८
वेदव्यासः
अध्यायः ०१९ →

।। शौनक उवाच ।।
अहो किमद्भुतं सूत रहस्यं सुमनोहरम् ।।
श्रुतं कृष्णस्य चरितं सुखदं मोक्षदं परम् ।। १ ।।
सूत उवाच ।।
श्रुत्वा नगरनिर्माणं नारदो मुनिसत्तमः ।।
पप्रच्छ कृष्णचरितमपरं सुमनोहरम् ।। २ ।।
नारद उवाच ।।
श्रीकृष्णाख्यानचरितं पीयूषमृषिसत्तम ।।
ज्ञानसिंधो निगद मां शिष्यं च शरणागतम् ।। ३ ।।
नारदस्य वचः श्रुत्वा मुदा नारायणः स्वयम् ।।
उवाच परमीशस्य चरितं परमाद्भुतम् ।। ४ ।।
श्रीनारायण उवाच ।।
एकदा बालकैः सार्धं बलेन सह माधवः ।।
जगाम श्रीमधुवनं यमुनातीरनीरजम् ।। ५ ।।
विचेरुर्गोसहस्रैश्च चिक्रीडुर्बालकास्तदा ।।
विश्रान्तास्तृट्परीताश्च क्षुधा च परिपीडिताः ।। ६ ।।
तमूचुर्गोपशिशवः श्रीकृष्णं परया मुदा ।।
क्षुदस्मान्बाधते कृष्ण किं कुर्मो ब्रूहि किंकरान्।।७।।
शिशूनां वचनं श्रुत्वा तानुवाच दयानिधिः ।।
हितं तथ्यं च वचनं प्रसन्नवदनेक्षणः ।।८।।
श्रीकृष्ण उवाच ।।
बाला गच्छत विप्राणां यज्ञस्थानं सुखावहम् ।।
अन्नं याचत ताञ्छीघ्रं ब्राह्मणांश्च क्रतून्मुखान् ।। ९ ।।
विप्रा आंगिरसाः सर्वे स्वाश्रमे श्रीवनान्तिके ।।
यज्ञं कुर्वन्ति विप्राश्च श्रुतिस्मृतिविशारदाः ।।4.18.१०।।
निःस्पृहा वैष्णवाः सर्वे मां यजन्ति मुमुक्षवः।
मायया मां न जानन्ति मायामानुषरूपिणम् ।। ११ ।।
न चेद्ददति युष्मभ्यमन्नं विप्राः क्रतून्मुखाः ।।
तत्कान्ता याचत क्षिप्रं दयायुक्ताः शिशून्प्रति ।। १२ ।।
श्रीकृष्णवचनं श्रुत्वा ययुर्बालकपुंगवाः ।।
पुरतो ब्राह्मणानां च तस्थुरानम्रकंधराः ।। १३ ।।
इत्यूचुर्बालकाः शीघ्रमन्नं दत्त द्विजोत्तमाः ।।
न शुश्रुवुर्द्विजाः केचित्केचिच्छ्रुत्वा स्थिताः स्थिताः।।१४।।
ते ययू रन्धनागारं ब्राह्मण्यो यत्र पाचिकाः ।।
गत्वा बाला विप्रभार्याः प्रणेमुर्नतकन्धराः ।। १९ ।।
नत्वोचुर्बालकाः सर्वे विप्रभार्याः पतिव्रताः ।।
अन्नं दत्त मातरोऽस्मान्क्षुधार्तान्बालकानपि ।। १६ ।।
बालानां वचनं श्रुत्वा दृष्ट्वा तांश्च मनोहरान् ।।
पप्रच्छुः सादरं साध्व्यः स्मेराननसरोरुहाः ।।१७।।
विप्रपत्न्य ऊचुः ।।
के यूयं प्रेषिताः केन कानि नामानि कोविदाः ।।
दास्यामोऽन्नं बहुविधं व्यञ्जनैः सहितं वरम् ।। १८ ।।
ब्राह्मणीनां वचः श्रुत्वा ता ऊचुस्ते मुदाऽन्विताः ।।
स्निग्धा हसन्तः स्फीताश्च सर्वे गोपालबालकाः ।। १९ ।।
बाला ऊचुः ।।
प्रेषिता रामकृष्णाभ्यां वयं क्षुत्पीडिता भृशम् ।।
दत्तान्नं मातरोऽस्मभ्यं क्षिप्रं यामस्तदन्तिकम् ।। 4.18.२० ।।
इतो विदूरे भाण्डीरे वनाभ्यन्तरमेव च ।।
वटमूले मधुवने वसन्तौ रामकेशवौ ।। २१ ।।
विश्रान्तौ क्षुधितौ तौ च याचेतेऽन्नं च मातरः ।।
किमु देयमदेयं वा शीघ्रं वदत नोऽधुना ।। २२ ।।
गोपानां वचनं श्रुत्वा हृष्टानन्दाश्रुलोचनाः ।।
पुलकांकितसर्वांगास्तत्पादाब्जमनोरथाः ।। २३ ।।
नानाव्यञ्जनसंयुक्तं शाल्यन्नं सुमनोहरम्।।
पायसं पिष्टकं स्वादु दधि क्षीरं घृतं मधु ।। २४ ।।
रौप्ये कांस्ये राजते च पात्रे कृत्वा मुदाऽन्विताः ।।
ताः सर्वा विप्रपत्न्यश्च प्रययुः कृष्णसन्निधिम् ।। २५ ।।
नानामनोरथं कृत्वा मनसा गमनोत्सुकाः ।।
पतिव्रतास्ता धन्याश्च श्रीकृष्णदर्शनोत्सुकाः ।। २६ ।।
श्रीकृष्णं ददृशुर्गत्वा रामं च सह बालकम् ।।
वटमूले वसन्तं तमुडुमध्ये यथोडुपम् ।। २७ ।।
श्यामं किशोरवयसं पीतकौशेयवाससम् ।।
सुन्दरं सस्मितं शान्तं राधाकान्तं मनोहरम् ।।२८।।
शरत्पार्वणचन्द्रास्यं रत्नालंकारभूषितम् ।।
रत्नकुण्डलयुग्माभ्यां गण्डस्थलविराजितम् ।। २९ ।।
रत्नकेयूरवलयरत्ननूपुरभूषितम् ।।
आजानुलम्बितां शुभ्रां बिभ्रतं रत्नमालिकाम् ।। 4.18.३० ।।
मालतीमालया कण्ठवक्षःस्थलविराजितम्।।
चन्दनागुरुकस्तूरीकुङ्कुमाञ्चितविग्रहम् ।।३१ ।।
सुनखं सुकपोलं च पक्व बिम्बाधरं वरम् ।।
पक्वदाडिमबीजाभं बिभ्रतं दन्तमुत्तमम् ।। ३२ ।।
शिखिपिच्छसमायुक्तं बद्धचूडं परात्परम्।।
कदम्बपुष्पयुग्माभ्यां कर्णमूले विराजितम् ।। ३३ ।।
ध्यानासाध्यं योगिनां च भक्तानुग्रहकातरम्।।
ब्रह्मेशधर्मशेषेन्द्रैः स्तूयमानं मुनीश्वरैः ।। ३४ ।।
दृष्ट्वैवमीश्वरं भक्त्या प्रणेमुर्द्विजयोषितः ।।
स्वानां ज्ञानानुरूपं च तुष्टुवुर्मधुसूदनम् ।। ३५ ।।
विप्रपत्न्य ऊचुः ।।
त्वं ब्रह्म परमं धाम निरीहो निरहंकृतिः ।।
निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ।।३६।।
साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ।।
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम्।। ३७।।
सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ।।
ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ।। ।। ३८ ।।
यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर।।
महाविराण्महाविष्णुस्त्वं तस्य जनको विभो ।। ३९ ।।
तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः ।।
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ।। 4.18.४० ।।
महदादिसृष्टिसूत्रं पञ्चतन्मात्रमेव च ।।
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ।। ४१ ।।
सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा ।।
त्वमनीहः स्वयंज्योतिः सर्वानन्दः सनातनः ।। ४२ ।।
अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि।।
सर्वेंद्रियाणां विषयं जानासि नेन्द्रियी भवान् ।। ४३ ।।
सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे।।
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम्।। ४४ ।।
पार्वती कमला राधा सावित्री वेदसूरपि ।।
वेदश्च जडतां याति के वा शक्ता विपश्चितः ।। ४९ ।।
वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर ।।
प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु।। ।। ४६ ।।
इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे ।।
अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ।।४७।।
विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ।।
स गतिं विप्रपत्नीनां लभते नात्र संशयः ।। ४८ ।।
नारायण उवाच ।।
ताः पदाम्भोजपतिता दृष्ट्वा श्रीमधुसूदनः ।।
वरं वृणुत कल्याणं भविता चेत्युवाच ह ।। ४९ ।।
श्रीकृष्णस्य वचः श्रुत्वा विप्रपन्त्यो मुदाऽन्विताः।।
तमूचुर्वचनं भक्त्या भक्तिनम्रात्मकन्धराः ।।4.18.५०।।
द्विजपत्न्य ऊचुः ।।
वरं कृष्ण न गृह्णीमो नः स्पृहा त्वत्पदाम्बुजे ।।
देहि स्वं दास्यमस्मभ्यं दृढां भक्तिं सुदुर्लभाम् ।। ५१ ।।
पश्यामोऽनुक्षणं वक्त्रसरोजं तव केशव ।।
अनुग्रहं कुरु विभो न यास्यामो गृहं पुनः ।। ५२ ।।
द्विजपत्नीवचः श्रुत्वा श्रीकृष्णः करुणानिधिः ।।
ओमित्युक्त्वा त्रिलोकेशस्तस्थौ बालकसंसदि।। ५३ ।।
प्रदत्तं विप्रपत्नीभिर्मिष्टमन्नं सुधोपमम् ।।
बालकान्भोजयित्वा तु स्वयं च बुभुजे विभुः।।५४।।
एतस्मिन्नन्तरे तत्र शातकुम्भं रथं परम् ।।
ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो ।।५५।।
रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् ।।
रत्नस्तम्भैर्निबद्धं च सद्रत्नकलशोज्ज्वलम् ।।५६।।
श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् ।।
पारिजातप्रसूनानां मालाजालैर्विराजितम्।।५७।।
शतचक्रसमायुक्तं मनोयायि मनोहरम्।।
वेष्टितं पार्षदैर्दिव्यैर्वनमालाविभूषितैः।।।९८ ।।
पीतवस्त्रपरीधानै रत्नालंकारभूषितैः ।।
नवयौवनसंपन्नैः श्यामलैः सुमनोहरैः ।। ५९ ।।
द्विभुजैर्मुरलीहस्तैर्गोपवेषधरैर्वरैः ।।
शिखिपिच्छगुञ्जमालाबद्धवक्रिमचूडकैः ।। 4.18.६० ।।
अवरुह्य रथात्तूर्णं ते प्रणम्य हरेः पदम् ।।
रथमारोहणं कर्तुमूचुर्ब्राह्मणकामिनीः ।। ६१ ।।
विप्रभार्या हरिं नत्वा जग्मुर्गोलोकमीप्सितम् ।।
बभूवुर्गोपिकाः सद्यस्त्यक्त्वा मानुषविग्रहान् ।। ६२।।
हरिश्छायां विनिर्माय तासां च विष्णुमायया ।।
प्रस्थापयामास गृहान्ब्राह्मणानां स्वयं विभुः ।। ६३ ।।
विप्राश्च भार्या उद्दिश्य परमोद्विग्नमानसाः ।।
अन्वेषणं प्रकुर्वन्तो ददृशुः पथि कामिनीः ।। ६४ ।।
दृष्ट्वोचुर्ब्राह्मणाः सर्वे तास्ते च विनयान्विताः ।।
पुलकाङ्कितसर्वाङ्गाः प्रसन्नवदनेक्षणाः ।। ।। ६५ ।।
ब्राह्मणा ऊचुः ।।
अहोऽतिधन्या यूयं च दृष्टो युष्माभिरीश्वरः ।।
अस्माकं जीवनं व्यर्थं वेदपाठोऽप्यनर्थकः ।। ६६ ।।
वेदे पुराणे सर्वत्र विद्वद्भिः परिकीर्तिताः ।।
हरेर्विभूतयः सर्वाः सर्वेषां जनको हरिः ।। ६७ ।।
तपो जपो व्रतं ज्ञानं वेदा ध्ययनमर्चनम् ।।
तीर्थस्नानमनशनं सर्वेषां फलदो हरिः ।। ६८ ।।
श्रीकृष्णः सेवितो येन किं तस्य तपसां फलैः ।।
प्राप्तः कल्पतरुर्येन किं तस्यान्येन शाखिना ।। ६९ ।।
श्रीकृष्णो हृदये यस्य तस्य किं कर्मभिः कृतैः ।।
किं वा न सागरस्यैव पौरुषं कूपलङ्घने।। ।।4.18.७०।।
इत्येवमुक्त्वा विप्राश्च गृहीत्वा कामिनीवराः ।।
आजग्मुः स्वगृहं हृष्टास्ताभिः सार्धं च रेमिरे ।।७१।।
तासां ततोऽधिकं प्रेम क्रीडासु सर्वकर्मसु ।।
दाक्षिण्यं मायया शक्त्या ब्राह्मणानामतर्कितम् ।।७२।।
अथ नारायणः सोऽयं बलेन शिशुभिः सह ।।
जगाम स्वालयं तूर्णं पूर्णब्रह्म सनातनः ।।७३।।
इत्येवं कथितं सर्वं हरेर्माहात्म्यमुत्तमम् ।।
पुरा श्रुतं धर्मवक्त्रात्किं भूयः श्रोतुमिच्छसि ।। ।। ७४ ।।
नारद उवाच ।।
ऋषीन्द्र केन पुण्येन बभूव विप्रयोषिताम् ।।
मुनीन्द्रयोगसिद्धानां दुर्लभा गतिरीश्वरी ।। ७५ ।।
इमाः का वा पुण्यवत्यः पुरा तस्थुर्महीतलम् ।।
आजग्मुः केन दोषेण वद संदेहभञ्जनम् ।। ७६ ।।
।। श्रीनारायण उवाच।।
सप्तर्षीणां रमण्यश्च रूपेणाप्रतिमाः पराः ।।
गुणवत्यः सुशीलाश्च धर्मिष्ठाश्च पतिव्रताः ।। ७७ ।।
नवीनयौवनाः सर्वाः पीनश्रोणि पयोधराः ।।
दिव्यवस्त्रपरीधाना रत्नालंकारभूषिताः ।। ७८ ।।
तप्तकाञ्चनवर्णाभाः स्मेराननसरोरुहाः ।।
मुनीनां मोहितुं शक्ता मानसं वक्रचक्षुषा ।। ७९ ।।
दृष्ट्वा तासां स्तनश्रोणिमुखानि सुन्दराणि च ।।
अनलश्चकमे ताश्च मदनानलपीडितः ।। 4.18.८० ।।
अग्निस्थानस्थितानां च शिखया सुरतोन्मुखः ।।
स्पृष्ट्वा चाङ्गानि तासां च बभूव हृतचेतनः ।। ८१ ।।
पतिव्रता न जानन्ति पतिपादाब्जमानसाः ।।
अग्निरङ्गानि तासां च दर्शंदर्शं मुमोह च ।। ८२ ।।
वह्नेश्च मानसं ज्ञात्वा भगवानङ्गिरा मुनिः ।।
शशाप तं चेत्युवाच सर्वभक्षो भवेति ह ।। ८३ ।।
वह्निः सचेतनो भूत्वा तुष्टाव मुनिपुंगवम् ।।
व्रीडया नम्रवदनश्चकम्पे ब्रह्मतेजसा ।।८४ ।।
क्रुद्धो मुनिवरः स्पृष्टाः कामिन्यश्च शशाप ह ।।
यात यूयं पापयुक्ता मानुषीं योनिमेव च ।। ८५ ।।
भारते ब्राह्मणानां च गृहे लभत जन्म वै ।।
करिष्यन्ति विवाहं च युष्माकं कुलजा द्विजाः ।। ८६ ।।
श्रुत्वा वाक्यं मुनेस्ताश्च रुरुदुः प्रेमविह्वलाः ।।
पुटाञ्जलियुताः सर्वा ऊचुस्तं विदुषां वरम् ।। ८७ ।।
मुनिपत्न्य ऊचुः ।।
न त्यजास्मान्मुनिश्रेष्ठ निष्पापाश्च पतिव्रताः ।।
अजानन्त्यः परस्पृष्टा न च नस्त्यक्तुमर्हसि ।। ८८।।
भक्तानां किंकरीणां च न दण्डं कर्तुमर्हसि।।
युष्माकं चरणाम्भोजं कदा द्रक्ष्यामहे वयम्।। ।। ८९ ।।
खड्गच्छेदाद्वज्रपातात्सर्वप्रहरणान्मुने ।।
दारुणः कान्तविच्छेदः साध्वीनां दुःसहः सदा ।। 4.18.९० ।।
ब्रह्मिष्ठानां गुणवतां परान्कान्तान्महामुनीन् ।।
एवंभूतान्कथं त्यक्त्वा यास्यामः पृथिवीतलम्।।९१।।
यास्यामो यदि विप्रेश कदाऽत्रागमनं वद ।।
अज्ञानस्पर्शदोषश्च न स्यान्नो विधिबोधितः।। ९२।।
अहल्यया पुनः प्राप्तः स्वामीन्द्रस्य प्रधर्षणात् ।।
सा संभोगात्पुनः शुद्धा स्पर्शनाद्वर्जिता वयम् ।।९३।।
विचारं कुरु धर्मिष्ठ वेदवेदाङ्गपारग।।
विश्वकर्तुश्च पुत्रस्त्वं सर्ववेदविदां वर।।९४ ।।
अन्येषां च भयात्कान्ता व्रजन्ति शरणं पतिम्।।
स्वकान्तभयसंविग्नाः शरणं कं व्रजन्ति ताः ।।९५।।
अभयं देहि धर्मिष्ठ भययुक्ताभ्य एव च।।
पुत्रे शिष्ये कलत्रे च को दण्डं कर्तुमक्षमः ।। ९६ ।।
दुर्बलः सबलो वापि स्ववस्तूनामपीश्वरः ।।
स्वद्रव्यविक्रयं कर्तुं न चान्यो रक्षितुं क्षमः ।।९७ ।।
कामिनीनां वचः श्रुत्वा दयालुर्मुनिपुंगवः ।।
प्रेम्णा रुरोद तासां च निरीक्ष्य मुखपङ्कजम् ।।९८।।
वेदवेदाङ्गपारज्ञो ज्ञानिनां योगिनां वरः ।।
पत्नीविच्छेदविषये मूर्च्छां प्राप तथापि सः ।।९९।।
सर्वे बभूवुः शोकार्ता विरहोद्विग्नमानसाः।।
निरीक्ष्य तासां वक्त्राणि तस्थुः पुत्तलिका यथा।। ।। 4.18.१०० ।।
कृत्वा विलापं सुचिरं सर्ववेदविदां वरः ।।
भ्रातृभिश्च सहालोच्य ता उवाच शुचाऽऽतुरः ।।१०१।।
अङ्गिरा उवाच ।।
यूयं शृणुत वक्ष्यामि वचनं सत्यमेव च ।।
स्वकर्मभोगिनां भोगमाकर्माच्च श्रुतौ श्रुतम् ।। १०२ ।।
गतो भोगश्च युष्माकमस्माभिः सह निश्चितम् ।।
गते भोगे पुनर्भोगो न हि वेदे निरूपितः ।। १०३ ।।
शुभाशुभं च यत्कर्म भारते कृतिभिः सह ।।
नाभुक्तं क्षीयते कर्म जन्मकोटिशतैरपि ।। १०४ ।।
परभुक्तां च कान्तां च यो भुङ्क्ते स नराधमः ।।
स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ ।। १०९ ।।
न सा दैवे न सा पैत्र्ये पाकार्हा पापसंयुता ।।
तस्या आलिंगने भर्ता भ्रष्टश्रीस्तेजसा हतः ।। १०६ ।।
देवताः पितरस्तस्य हव्यदाने च तर्पणे ।।
सुखिनो न भवन्त्येवमित्याह कमलोद्भवः ।। १०७ ।।
तस्माद्यत्नेन भार्याया रक्षणं कुरुते सुधीः ।।
अन्यथा पापभाग्भर्ता निश्चितं नरकं व्रजेत् ।। १०८।।
पदेपदे सावधानः कान्तां रक्षति पण्डितः ।।
न व्रती न स्थली योषा दोषाणां च करण्डिका ।। १०९ ।।
कलत्रं पाकपात्रं च सदा रक्षितुमर्हति ।।
परस्पर्शादशुद्धां च शुद्धां स्वस्पर्शने सदा ।। 4.18.११० ।।
स्वकान्तं च परित्यज्य परं गच्छति याऽधमा ।।
कुम्भीपाकं सा प्रयाति यावच्चन्द्रदिवाकरौ ।। १११ ।।
तामेव यमदूताश्च संस्थाप्य नरकान्तरे ।।
उत्तिष्ठति विदूराच्चेत्कुर्वन्ति दण्डताडनाम् ।। ११२ ।।
सर्पप्रमाणाः कीटाश्च तीक्ष्णदंष्ट्राः सुदारुणाः ।।
दशन्ति पुंश्चलीं तत्र सततं च दिवानिशम् ।। ११३ ।।
विकृताकारशब्दं च करोति शाश्वतं भिया ।।
न ममार प्रहारेण सूक्ष्मदेहविधारिणी ।। ११४ ।।
मुहूर्तार्धं सुखं भुक्त्वा लोकेऽत्र यशसा हता ।।
पतिता परलोके च गतिमेतादृशीं लभेत् ।। ११५ ।।
परस्पृष्टा च वै नारी या स्पृहां कुरुते परम् ।।
साऽपि दुष्टा परित्याज्या चेत्याह कमलोद्भवः ।। ११६ ।।
तस्मान्नारी परैर्यत्नाददृष्टा कृतिभिः कृता ।।
असूर्यंपश्या या दाराः शुद्धास्ताश्च पतिव्रताः ।। ११७ ।।
स्वच्छन्दगामिनी या च स्वतन्त्रा सूकरीसमा ।।
अन्तर्दुष्टा सदा सैव निश्चितं परगामिनी ।। ११८ ।।
स्वामिसाध्या च या नारी कुलधर्मभिया स्थिता ।।
कान्तेन सार्द्धं सा कान्ता वैकुण्ठं याति निश्चितम् ।। ११९ ।।
यात यूयं च पृथिवीं मानुषीं योनिमीप्सिताम् ।।
कृष्णदर्शनमात्रेण गोलोकं यास्यथ ध्रुवम् ।।4.18.१२०।।
हरिणा निर्मिताश्छाया युष्माकं योगमायया ।।
ता विप्रमन्दिरे स्थित्वा चागमिष्यन्ति नो ध्रुवम् ।।१२१।।
पुनरंशेन नः पत्न्यो भविष्यथ न संशयः ।।
युष्माकं मम शापश्च बभूव च वराधिकः ।। १२२ ।।
इत्येवमुक्त्वा स मुनिर्विरराम शुचाऽन्वितः ।।
ता आगत्य महीं शापाद्बभूवुर्विप्रयोषितः ।। १२३ ।।
दत्त्वाऽन्नं हरये भक्त्या प्रजग्मुर्हरिमन्दिरम् ।।
बभूव निश्चितं तासां शापश्च संपदोऽधिकः ।। १२४ ।।
निन्द्या नीचा च संपत्तिर्विपत्तिर्महतो वरा ।।
अहो सद्यः सतां कोपश्चोपकाराय कल्पते ।। १२५ ।।
विना विपत्तेर्महिमा कुतः कस्य भवेद्भुवि ।।
भूताः कान्तपरित्यागान्मुक्ता ब्राह्मणयोषितः ।। १२६ ।।
इत्येवं कथितं सर्वं हरेश्चरितमुत्तमम् ।।
अहो पुण्यवतीनां च मोक्षाख्यानं मनोहरम् ।। १२७ ।।
श्रीकृष्णाख्यानं विप्रेन्द्र नूत्नं नूत्नं पदेपदे ।।
न हि तृप्तिः श्रुतवतां केन श्रेयसि तृप्यते ।। १२८ ।।
यावद्रम्यं तत्कथितं यच्छ्रुतं गुरुवक्त्रतः ।।
वद मां वाञ्छितं यत्ते किं भूयः श्रोतुमिच्छसि ।। १२९ ।।
नारद उवाच ।।
यद्यच्छ्रुतं त्वया पूर्वं गुरुवक्त्रात्कृपानिधे ।।
मङ्गलं कृष्णचरितं तन्मे ब्रूहि जगद्गुरो ।। 4.18.१३० ।।
सूत उवाच ।।
श्रुत्वा देवर्षिवचनमृषिर्नारायणः स्वयम् ।।
अपरं कृष्णमाहात्म्यं प्रवक्तुमुपचक्रमे।। १३१ ।।
इति श्रीब्रह्मवैवर्ते महापुराण्रे श्रीकृष्णजन्मखण्डे विप्रपत्नीमोक्ष णप्रस्तावोनामाष्टादशोऽध्यायः ।। ।। १८ ।।