प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१९

← अध्यायः ०१८ श्रीकृष्णजन्मखण्डः
अध्यायः ०१९
वेदव्यासः
अध्यायः ०२० →

श्रीनारायण उवाच ।।
एकदा बालकैः सार्धं बलदेवं विना हरिः ।।
जगाम यमुनातीरं यत्र कालियमन्दिरम् ।। १ ।।
परिपक्वफलं भुक्त्वा यमुनातीरजे वने ।।
स्वेच्छामयस्तृट्परीतः पपौ च निर्मलं जलम् ।। २ ।।
गोकुलं चारयामास शिशुभिः सह कानने ।।
विजहार च तैः सार्द्धं स्थापयामास गोकुलम् ।। ३ ।।
क्रीडानिमग्नचित्तोऽयं बालकाश्च मुदाऽन्विताः ।।
भुक्त्वा नवतृणं गावो विषतोयं पपुर्मुने ।।४ ।।
विषाक्तं च जलं पीत्वा दारुणान्तकचेष्टया ।।
ज्वालाभिः कालकूटानां सद्यः प्राणांश्च तत्यजुः ।।५।।
दृष्ट्वा मृतं गोसमूहं गोपाश्चिन्ताकुला भिया ।।
विषण्णवदनाः सर्वे तमूचुमर्धुसूदनम् ।। ६ ।।
ज्ञात्वा सर्वं जगन्नाथो जीवयामास गोकुलम् ।।
उत्तस्थुस्तत्क्षणं गावो ददृशुः श्रीहरेर्मुखम् ।।७।।
कृष्णः कदम्बमारुह्य यमुनानीरतीरजम् ।।
पपात सर्पभवने नागमध्ये नराकृतिः ।। ८ ।।
शतहस्तप्रमाणं च जलोत्थानं बभूव ह ।।
बाला हर्षं विषादं च मेनिरे तत्र नारद ।। ९ ।।
सर्पो नराकृतिं दृष्ट्वा कालियः क्रोधविह्वलः ।।
जग्राह श्रीहरिं तूर्णं तप्तलोहं यथा नरः ।। 4.19.१० ।।
दग्धकण्ठोदरो नागश्चोद्विग्नो ब्रह्मतेजसा ।।
प्राणा यान्त्येवमुक्त्वा च चकारोद्वमनं पुनः ।। ११ ।।
भग्नदन्तो रक्तमुखः कृष्णवज्राङ्गचर्वणात् ।।
रक्तवक्त्रस्य भगवानुत्तस्थौ मस्तकोपरि ।।१२।।
नागो विश्वंभराक्रान्तः स प्राणांस्त्यक्तुमुद्यतः ।।
चकार रक्तोद्वमनं पपात मूर्च्छितो मुने ।। १३ ।।
दृष्ट्वा तं मूर्छितं नागा रुरुदुः प्रेमविह्वलाः ।। १४ ।।
केचित्पलायिता भीताः केचित्प्रविविशुर्बिलम् ।।
मरणाभिमुखं कान्तं दृष्ट्वा सा सुरसा सती ।।१५।।
नागिनीभिः सह प्रेम्णा रुरोद पुरतो हरेः ।।
पुटाञ्जलियुता तूर्णं प्रणम्य श्रीहरिं भिया।।
धृत्वा पादारविन्दे च तमुवाच भियाऽऽकुला ।। १६ ।।
सुरसोवाच ।। ।।
हे जगत्कान्त मे कान्तं देहि मानं च मानद ।।
पतिः प्राणाधिकः स्त्रीणां नास्ति बन्धुश्च तत्परः ।। १७ ।।
सकलभुवननाथ प्राणनाथं मदीयं न कुरु वधमनन्त प्रेमसिन्धो सुबन्धो ।।
अखिलभुवनबन्धो राधिकाप्रेमसिन्धो पतिमिह कुरु दानं मे विधातुर्विधातः ।। १८ ।।
त्रिनयनविधिशेषाः षण्मुखश्चास्यसंघैः स्तवनविषयजाड्यात्स्तोतुमीशा न वाणी।।
खलु निखिलवेदाःस्तोतुमन्येऽपि देवाः स्तवनविषयशक्ताः सन्ति सन्तस्तवैव ।। १९।।
कुमतिरहमधिज्ञा योषितां क्वाधमा वा क्व भुवनगतिरीशश्चक्षुषोऽगोचराऽपि।।
विधिहरिहरशेषैः स्तूयमानश्च यस्त्वमतनुमनुजमीशं स्तोतुमिच्छामि तं त्वाम् ।। ।। 4.19.२० ।।
स्तवनविषयभीता पार्वती कस्य पद्मा श्रुतिगणजनयित्री स्तोतुमीशा न यं त्वाम् ।।
कलिकलुषनिमग्ना वेदवेदाङ्गशास्त्र श्रवणविषयमूढा स्तोतुमिच्छामि किं त्वाम्।।२१।।
शयानो रत्नपर्यङ्के रत्नभूषणभूषितः ।।
रत्नभूषणभूषाङ्गो राधावक्षसि संस्थितः।। ।। २२ ।।
चन्दनोक्षितसर्वाङ्गः स्मेराननसरोरुहः ।।
प्रोद्यत्प्रेमरसाम्भोधौ निमग्नः सततं सुखात् ।।२३ ।।
मल्लिकामालतीमालाजालैः शोभितशेखरः ।।
पारिजातप्रसूनानां गन्धामोदितमानसः ।। २४ ।।
पुंस्कोकिलकलध्वानैर्भ्रमरध्वनिसंयुतैः ।।
कुसुमेषु विकारेण पुलकाङ्कितविग्रहः ।।२५।।
प्रियाप्रदत्तताम्बूलं भुक्तवान्यः सदा मुदा ।।
वेदा अशक्ता यं स्तोतुं जडीभूता विचक्षणाः ।। २६।।
तमनिर्वचनीयं च किं स्तौमि नागवल्लभा ।।
वन्देऽहं त्वत्पदाम्भोजं ब्रह्मेशशेषसेवितम् ।।२७।।
लक्ष्मीसरस्वतीदुर्गा जाह्नवी वेदमातृभिः ।।
सेवितं सिद्धसंघैश्च मुनीन्द्रैर्मनुभिः सदा ।।२८।।
निष्कारणायाखिलकारणाय सर्वेश्वरायापि परात्पराय ।।
स्वयंप्रकाशाय परावराय परावराणामधिपाय ते नमः ।। २९ ।।
हे कृष्ण हे कृष्ण सुरासुरेश ब्रह्मेश शेषेश प्रजापतीश।।
मुनीश मन्वीश चराचरेश सिद्धीश सिद्धेश गणेश पाहि।।4.19.३०।।
धर्मेश धर्मीश शुभाशुभेश वेदेश वेदेष्वनिरूपितश्च।।
सर्वेश सर्वात्मक सर्वबन्धो जीवीश जीवेश्वर पाहि मत्प्रभुम् ।। ३१ ।।
इत्येवं स्तवनं कृत्वा भक्तिनम्रात्मकन्धरा ।।
विधृत्य चरणाम्भोजं तस्थौ नागेशवल्लभा ।। ३२ ।।
नागपत्नीकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।।
सर्वपापात्प्रमुक्तस्तु यात्यन्ते श्रीहरेः पदम्।।३३।।
इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम् ।।
लभते पार्षदो भूत्वा सालोक्यादिचतुष्टयम् ।। ३४ ।।
नारद उवाच ।।
नागपत्नीवचः श्रुत्वा भगवान्सर्वनन्दनः ।।
प्रहृष्टोत्फुल्लनयनः किमुवाच हरिः स्वयम् ।। ३९ ।।
कथयस्व महाभाग रहस्यं परमाद्भुतम् ।।
सूत उवाच ।।
नारदस्य वचः श्रुत्वा भगवान्सर्वदर्शनः ।। ३६ ।।
उवाच परमात्मानं मधुवृन्दं पदेपदे ।।
नारायण उवाच ।।
नागपत्नीवचः श्रुत्वा श्रीकृष्णस्तमुवाच ह ।। ३७ ।।
पुटाञ्जलियुतां पादे पतितां भयविह्वलाम् ।।
श्रीकृष्ण उवाच ।।
उत्तिष्ठोत्तिष्ठ नागेशे वरं वृणु भयं त्यज ।। ३८ ।।
गृहाण कान्तं हे मातर्मद्वरादजरामरम् ।।
कालिन्दीह्रदमुत्सृज्य स्वकीयं भवनं व्रज ।।३९।।
भर्त्रा सगोष्ठ्या सार्द्धं च गच्छ वत्से सुखी भव ।।
अद्य प्रभृति नागेशि भूता कन्या च त्वं मम ।। 4.19.४० ।।
त्वत्प्राणाधिक एवायं जामाता च न संशयः ।।
मत्पादपद्मचिह्नेन गरुडस्त्वत्पतिं शुभे ।। ४१ ।।
कृत्वा च स्तवनं भक्त्या प्रणमिष्यति मत्पदम् ।।
त्यज त्वं गरुडाद्भीतिं शीघ्रं रमणकं व्रज।।४२।।
ह्रदान्निर्गच्छ वत्से त्वं वरं वृणु यथेप्सितम् ।।
श्रीकृष्णस्य वचः श्रुत्वा प्रसन्नवदनेक्षणा ।। ४३ ।।
उवाच साश्रुनेत्रा सा भक्तिनम्रात्मकन्धरा ।।
सुरसोवाच ।। वरं दास्यसि चेदानीं वरदेश्वर मेऽपि च ।। ४४ ।।
त्वत्पादाब्जे दृढां भक्तिं निश्चलां दातुमर्हसि ।।
मन्मनस्त्वत्पदात्म्भोजे भ्रमतु भ्रमरो यथा ।। ४२।।
तव स्मृतर्विस्मृतिर्न कदाऽपि न भविष्यति ।।
स्वकान्ते मम सौभाग्यं कान्तोऽयं ज्ञानिनां वरः ।।४६।।
इत्येवं प्रार्थनीयं च परिपूर्णं कुरु प्रभो ।।
इत्येवमुक्त्वा सर्पस्त्री प्रतस्थौ पुरतो हरेः ।।४७।।
शरत्पार्वणचन्द्रास्यं ददर्श श्रीहरेर्मुखम्।।
लोचनाभ्यां पपौ वक्त्रं निमेषरहितं सती ।। ४८ ।।
सर्वाङ्गपुलकोद्भिन्ना सानंदाश्रुपरिप्लुता ।।
सुन्दरं बालकं दृष्ट्वा पुत्रस्नेहं प्रकुर्वती।। ।। ४९ ।।
उवाच पुनरेवेदं भक्त्युद्रेकपरिप्लुता ।।
न यास्यामि रमणकं तत्र नास्ति प्रयोजनम् ।। 4.19.५० ।।
सर्पः करोतु संसारं कुरु मां निजकिङ्करीम् ।।
न वाञ्छा मम हे कृष्ण सालोक्यादिचतुष्टये ।।५१।।
त्वत्पदाम्भोजसेवायाः कलां नार्हन्ति षोडशीम् ।।
विना त्वत्पादसेवां च यो वाञ्छति वरान्तरम्।।५२।।
भारते दुर्लभं जन्म लब्ध्वाऽसौ वञ्चितः स्वयम्।।
नागपत्न्या वचः श्रुत्वा स्मेराननसरोरुहः।।५३।।
प्रसन्नमानसः श्रीमानोमित्येवमुवाच ह ।।
एतस्मिन्नंतरे दिव्यः सद्रत्नसारनिर्मितः ।। ५४ ।।
आजगाम रथस्तूर्णमुद्दीप्तस्तेजसा मुने ।।
पार्षदप्रवरैर्युक्तो वस्त्रमालापरिच्छदः ।। ५५ ।।
शतचक्रो वायुवेगो मनोयायी मनोहरः ।।
अवरुह्य रथात्तूर्णं श्यामलाः श्याम किङ्कराः ।।५६।।
प्रणम्य कृष्णं तां नीत्वा जग्मुर्गोलोकमुत्तमम् ।।
हरिश्छायां विनिर्माय ददौ सर्पाय तेजसा ।।९७ ।।
स च किंचिन्न बुबुधे मोहितो विष्णुमायया।।
अवरुह्य सर्पमूर्ध्नः श्रीकृष्णः करुणानिधिः।।५८।।
ददौ हस्तं च कृपया शीघ्रं कालियमस्तके ।।
संप्राप्य चेतनां सद्यो ददर्श पुरतो हरिम्।।५९।।
पुटाञ्जलियुतां साश्रुपूर्णां च सुरसां सतीम् ।।
प्रणनाम हरिं सद्यो रुरोद प्रेमविह्वलः ।।4.19.६० ।।
भक्त्युद्रेकात्साश्रुनेत्रां पुलकाङ्कितविग्रहाम् ।।
तूष्णींभूतां च तां दृष्ट्वा समुवाच कृपानिधिः ।।
यदीश्वरस्य सततं योग्यायोग्ये समा कृपा ।।६१।।
श्रीकृष्ण उवाच ।।
वरं वृणु त्वं कालीय यस्ते मनसि वर्तते ।।६२।।
त्वं मे प्राणाधिको वत्स सुखं तिष्ठ भयं त्यज ।।
तस्याहमनुगृह्णाणि योऽतिभक्तो ममांशजः ।।६३।।
किंचित्तद्दमनं कृत्वा त्वत्प्रसादं करोम्यहम् ।।
त्वद्वंशजातान्सर्पांश्च हन्ति यो मानवाधमः ।। ६४।।
ब्रह्महत्यासमं पापं भविता तस्य निश्चितम् ।।
मत्पादपद्मचिह्ने यः करोति दण्डताडनम् ।।५५।।
द्विगुणं ब्रह्महत्याया भविता तस्य किल्बिषम्।।
लक्ष्मीर्यास्यति तद्गेहाच्छापं दत्त्वा सुदारुणम् ।।६६।।
वंशायुर्यशसा हानिर्भविता तस्य निश्चितम् ।।
ध्रुवं वर्षशतं कालसूत्रे यास्यति मद्गिरा ।।६७।।
त्वत्प्रमाणाः कीटसंघा दंशिष्यन्ति च संततम् ।।
भोगान्ते जन्म लब्ध्वा च तन्मृत्युस्तस्य दंशनात् ।। ६८ ।।
तस्य वंशोद्भवानां च त्वद्वंशाद्भविता भयम् ।।
ये च त्वद्वंशजान्दृष्ट्वा सुपदाङ्कं मदीयकम् ।। ६९ ।।
प्रणमिष्यन्ति भक्त्या ते मुच्यन्ते सर्वपातकात् ।।
गच्छ शीघ्रं रमणकं त्यज भीतिं खगाधिपात् ।।4.19.७०।।
मत्पदाङ्कं मूर्ध्नि दृष्ट्वा त्वां भक्त्या प्रणमिष्यति ।।
तव त्वद्वंशजानां च गरुडान्न भयं क्वचित् ।।७१।।
सर्वेषां ज्ञातिसर्पाणां वरोऽद्य भव मद्वरात् ।।
वरं किं परमं वत्स वाञ्छितं वरयाधुना ।। ७२ ।।
भयं त्यक्त्वा कथय मां त्वदीयं दुःखभञ्जनम् ।।
श्रीकृष्णवचनं श्रुत्वा कालियः कम्पितो भिया ।।
पुटाञ्जलियुतो भूत्वा तमुवाच भुजङ्गमः ।। ७३ ।।
कालिय उवाच ।।
वरेऽन्यस्मिन्मम विभो वाञ्छा नास्ति वरप्रद ।। ।। ७४ ।।
भक्तिं स्मृतिं त्वत्पदाब्जे देहि जन्मनि जन्मनि ।।
जन्म ब्रह्मकुले वाऽपि तिर्यग्योनिषु वा समम् ।। ७५ ।।
तद्भवेत्सफलं यत्र स्मृतिस्त्वच्चरणाम्बुजे ।।
तन्निष्फलः स्वर्गवासो नास्ति चेत्त्वत्पदस्मृतिः ।। ७६ ।।
त्वत्पादध्यानयुक्तस्य यत्तत्स्थानं च तत्परम् ।।
क्षणं वा कोटिकल्पं वा पुरुषायुः क्षयोऽस्तु वा ।। ७७ ।।
यदि त्वत्सेवया याति सफलो निष्कलोऽथवा ।।
तेषां चायुर्व्ययो नास्ति ये त्वत्पादाब्जसेवकाः।।७८।।
न सन्ति जन्ममरणरोगशोकार्तिभीतयः ।।
इन्द्रत्वे वाऽमरत्वे वा ब्रह्मत्वे चातिदुर्लभे।।७९।।
वाञ्छा नास्त्येव भक्तानां त्वत्पादसेवनं विना ।।
सुजीर्णपटखण्डस्य समं नूतनमेव च ।। 4.19.८० ।।
पश्यन्ति भक्ताः किं चान्यत्सालोक्यादिचतुष्टयम् ।।
संप्राप्तस्त्वन्मनुर्ब्रह्मन्ननंताद्यावदेव हि ।।८१।।
तावत्त्वद्भावनेनैव त्वद्वर्णोऽहमनुग्रहात् ।।
मां च भक्तमपक्वं वा विज्ञाय गरुडः स्वयम् ।। ।। ८२ ।।
देशाद् दूरं च न्यक्कारं चकार दृढभक्तिमान् ।।
भवता च दृढां भक्तिं दत्त्वा मे वरदेश्वर ।।८३।।
स च उक्तश्च भक्तोऽहं न मां त्यक्तुं क्षमोऽधुना ।।
त्वत्पादपद्मचिह्नाक्तं दृष्ट्वा श्रीमस्तकं मम ।।८४।।
सदोषं गुणयुक्तं मां सोऽधुना त्यक्तुमक्षमः ।।
ममाराध्याश्च नागेंद्रा न तद्वध्योऽहमीश्वर ।। ८५ ।।
भयं न केभ्यः सर्वत्र तमनंतं गुरुं विना ।।
यं देवेन्द्राश्च देवाश्च मुनयो मनवो नराः ।। ८६ ।।
स्वप्ने ध्यानेन पश्यंति चक्षुषोर्गोचरः स मे ।।
भक्तानुरोधात्साकारः कुतस्ते विग्रहो विभो ।। ८७ ।।
सगुणत्वं च साकारो निराकारश्च निर्गुणः ।।
स्वेच्छामयः सर्वधाम सर्वबीजं सनातनम् ।। ८८ ।।
सर्वेषामीश्वरः साक्षी सर्वात्मा सर्वरूपधृक् ।।
ब्रह्मेशशेषधर्मेन्द्रा वेदवेदांगपारगाः ।।८९।।
स्तोतुं यमीशं ते जाड्याः सर्पः स्तोष्यति तं विभुम् ।।
हे नाथ करुणासिंधो दीनबंधो क्षमाधमम् ।। 4.19.९० ।।
खलस्वभावादज्ञानात्कृष्ण त्वं चर्वितो मया ।।
नास्त्रलक्ष्यो यथाकाशो न दृश्यांतो न लंघ्यकः ।। ९१ ।।
न स्पृश्यो हि न चावर्यस्तथा तेजस्त्वमेव च ।।
इत्येवमुक्त्वा नागेन्द्रः पपात चरणाम्बुजे ।। ९२ ।।
ओमित्युक्त्वा हरिस्तुष्टः सर्वं तस्मै वरं ददौ ।।
नागराजकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् ।। ९३ ।।
तद्वंश्यानां च तस्यैव नागेभ्यो न भयं भवेत् ।।
स नागशय्यां कृत्वैव स्वप्तुं शक्तः सदा भुवि ।। ९४ ।।
विषपीयूषयोर्भेदो नास्त्येव तस्य भक्षणे ।।
नागग्रस्ते नागघाते प्राणान्ते विषभोजनात् ।। ९९ ।।
स्तोत्रस्मरणमात्रेण सुस्थो भवति मानवः ।।
भूर्जे कृत्वा स्तोत्रमिदं कण्ठे वा दक्षिणे करे ।।९६।।
बिभर्ति यो भक्तियुक्तो नागेभ्योऽपि न तद्भयम् ।।
यत्र गेहे स्तोत्रमिदं नागस्तत्र न तिष्ठति ।। ९७ ।।
विषाग्निवज्रभीतिश्च न भवेत्तत्र निश्चितम् ।।
इह लोके हरेर्भक्तिं स्मृतिं च सततं लभेत् ।।
अन्ते च स्वकुलं पूत्वा दास्यं च लभते ध्रुवम् ।। ९८ ।।
श्रीनारायण उवाच ।।
नागेन्द्राय वरं दत्त्वा पुनस्तं जगदीश्वरः ।।
उवाच मधुरं वाक्यं परिणामसुखावहम् ।। ९९ ।।
श्रीकृष्ण उवाच ।।
गच्छ त्वं च रमणकं यथेन्द्रनगरं परम् ।। ।। 4.19.१०० ।।
सार्द्धं स्वगोष्ठ्या नागेन्द्र यमुनाजलवर्त्मना।।
श्रुत्वा नागो हरेराज्ञां रुरोद प्रेमविह्वलः ।। १०१ ।।
कदा द्रक्ष्यामि त्वत्पादपद्मं नाथेत्युवाच ह ।।
प्रणम्य शतकृत्वश्च स्त्रिया गोष्ठ्या सहेश्वरम् ।। १०२ ।।
जगाम जलमार्गेण नागेन्द्रो विरहातुरः ।।
यमुना ह्रदतोयं च बभूवामृतकल्पकम् ।। १०३ ।।
प्रसन्ना जन्तवः सर्वे बभूवुस्तेन नारद ।।
गत्वा ददर्श भवनं यथेन्द्रनगरं परम् ।। १०४ ।।
आज्ञया च कृपासिन्धोर्निर्मितं विश्वकर्मणा ।।
तत्र तस्थौ च नागेन्द्रः स्त्रिया पुत्रगणैः सह ।।१०५।।
निःशङ्को हर्षयुक्तश्च हरिभावन तत्परः ।।
इत्येवं कथितं सर्वं हरेश्चरितमद्भुतम् ।।
सुखदं मोक्षदं सारं परं किं श्रोतुमिच्छसि ।। १०६ ।।
सूत उवाच ।।
महर्षेर्वचनं श्रुत्वा नारदो हर्षविह्वलः ।।
ऋषिं पप्रच्छ संदेहं सर्वसंदेहभञ्जनम् ।। १०७ ।।
नारद उवाच ।।
कथं विहाय कालीयः स्वपूर्वभवनं परम् ।।
जगाम यमुनातीरं तन्मे ब्रूहि जगद्गुरो ।। १०८ ।।
श्रीनारायण उवाच ।।
शृणु नारद वक्ष्येऽहमितिहासं पुरातनम् ।। १०९ ।।
यच्छ्रुतं धर्मवक्त्रान्मे मलये सूर्यपर्वणि ।।
कृष्णाख्यानप्रसङ्गेन सुप्रभा पश्चिमे तटे ।। 4.19.११० ।।
पप्रच्छ धर्मं पुलहः कथितं मुनिसंसदि ।।
इदमाख्यानमाश्चर्यमुवाच तं कृपानिधिः ।। १११ ।।
तत्र श्रुतं मया विप्र निबोध कथयामि ते ।।
शेषाज्ञया नागगणा प्रतिसंवत्सरं भिया ।। ११२ ।।
कार्तिकीपूर्णिमायां तु कुर्वन्ति गरुडार्चनम् ।।
पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्बलिभिर्मुदा ।। ११३ ।।
पुष्करे च महातीर्थे सुस्नाता भक्तिसंयुताः ।।
तस्य पूजां च कालीयो न चकारात्यहंकृतः ।। ११४ ।।
नागपूजोपकरणं बलाद्भक्षितुमुद्यतः ।।
चक्रुर्निवारणं नागा नीतिमूचुर्मदोद्धतम् ।।११५।।
न शक्ता वारणे ते चेत्याविर्भूतः खगेश्वरः ।।
दृष्ट्वा खगेश्वरं नागाः कालीयप्राणरक्षया ।।११६।।
प्राणशक्त्या च युयुधुर्यावत्सूर्योदयं मुने ।।
पक्षीन्द्रतेजसा सर्वे समुद्विग्नाः पलायिताः ।। ११७ ।।
अनन्तं शरणं जग्मुः सर्वेषामभयप्रदम् ।।
पलायनपरान्दृष्ट्वा नागांश्च करुणानिधिः ।। ११८ ।।
तत्र तस्थौ च निःशङ्कः कालीयस्तं ददर्श ह ।।
स्मृत्वा हरिपदाम्भोजं कालीयो युयुधे मुने ।। ११९ ।।।
मुहूर्तं च तयोर्युद्धं बभूवातीव दारुणम् ।।
पराजितश्च नागेन्द्रस्तेजसा गरुडस्य च ।। 4.19.१२० ।।
भिया पलायनं कृत्वा जगाम यमुना ह्रदम् ।।
न तं सौभरिशापेन खगेन्द्रो गन्तुमीश्वरः ।।
तत्र तस्थौ भिया नागो जग्मुः पश्चाच्च तद्गणाः ।। १२१ ।।
नारद उवाच ।।
कथं तु सौभरेः शापो बभूव गरुडाय वै ।।
कथं न शक्तो गन्तुं तं ह्रदमीश्वरवाहनः ।। १२२ ।।
श्रीनारायण उवाच ।।
दिव्यं वर्षसहस्रं च वर्षाणां तत्र सौभरिः ।।१२३।।
तपस्तप्त्वा महासिद्धो दध्यौ कृष्णपदाम्बुजम् ।।
समीपे ध्यायमानस्य कूले च यमुना जले ।। १२४ ।।
गणेन सार्धं निःशंकः करोति भ्रमणं मुदा ।।
पुच्छमुत्फाल्य बहुधा परितः परमेच्छया ।। १२५ ।।
मुनिं प्रदक्षिणी कृत्य यात्यायाति मुदाऽन्वितः ।।
सकुलं सुमहात्मानं दर्शंदर्शं खगाधिपः ।।१२६।।
जग्राह चञ्चुना मीनं मुनीन्द्रस्य समीपतः ।।
गच्छन्तं तं मीनमुखं ददर्श कोपचक्षुषा ।। १२७ ।।
प्रकोपितो मुनेर्दृष्ट्या मीनस्तोये पपात ह ।।
तमुवाच मुनीन्द्रश्च पुनरादातुमुद्यतम् ।।
मीनश्च गरुडत्रासात्तस्थौ मुनिसमीपतः ।। १२८ ।।
सौभरिरुवाच ।।
गच्छ दूरं गच्छ दूरं खगेन्द्र मत्समीपतः ।। १२९ ।।
का योग्यता मत्पुरस्ते ग्रहीतुं जीवमुल्बणम्।।
श्रीकृष्णवाहनं ज्ञात्वा चात्मानं बहु मन्यसे ।।4.19.१३०।।
त्वद्विधान्कोटिशः कृष्णः स्रष्टुं शक्तश्च वाहकान् ।।
करोमि भस्मसात्तूर्णं त्वां च भ्रूभङ्गलीलया ।। १३१ ।।
वाहनं च त्वमीशस्य न वयं तव किंकराः ।।
अद्य प्रभृति पक्षीन्द्र यद्यागच्छसि मे ह्रदम् ।। १३२ ।।
मदीयशापात्तूर्णं च भस्मसाद्भविता ध्रुवम् ।।
मुनीन्द्रस्य वचः श्रुत्वा प्रचचाल खगेश्वरः ।। १३३ ।।
स्मारंस्मारं कृष्णपादं तं प्रणम्य जगाम ह ।।
अद्यप्रभृति विप्रेन्द्र पतगेन्द्रस्य संततम् ।। १३४ ।।
ह्रदस्य श्रुतिमात्रेण कम्पो भवति निश्चितम् ।।
इतिहासश्च कथितो यः श्रुतो धर्मवक्त्रतः ।। १३५ ।।
सरहस्यं श्रुतिसुखं प्रकृतं शृणु मङ्गलम् ।।
विज्ञाय सुचिरं बाला नोत्तस्थौ तज्जलाद्धरिः ।। १३६ ।।
चक्रुर्विषादं मोहाच्च रुरुदुर्यमुनातटे ।।
स्ववक्षोघातनं चक्रुः केचिद्बालाः शुचाऽऽकुलाः ।। १३७ ।।
केचिन्निपत्य भूमौ च मूर्च्छां प्रापुहरिं विना ।।
ह्रदं प्रवेष्टुं केचिच्च विरहेण समन्विताः।।१३८।।
केचिद्गोपालबालाश्च चक्रुश्च तन्निवारणम् ।।
कृत्वा विलापं केचिच्च प्राणांस्त्यक्तुं समुद्यताः ।।१३९।।
तेषां केचिज्ज्ञानवन्तो रक्षां चक्रुः प्रयत्नतः ।।
केचिदूचुश्च हाहेति कृष्ण कृष्णेति केचन ।। 4.19.१४० ।।
केचिद्वक्तुं प्रवृत्तिं च प्रययुर्नन्दसन्निधिम् ।।
केचित्संमीलितास्तत्र शोकमोहभयातुराः ।। १४१ ।।
इत्यूचुः किं करिष्यामः कुतोऽस्माकं गतो हरिः ।।
हे नन्दसूनो हे कृष्ण प्राणेभ्योऽप्यधिकप्रिय ।। १४२ ।।
हे बन्धो दर्शनं देहीत्यूचुः प्राणाः प्रयान्ति हि ।।
एतस्मिन्नन्तरे केचिद्बालका नन्दसन्निधिम् ।। १४३ ।।
संप्रापुरतिलोलाश्च रुदन्तः शोकविह्वलाः ।।
प्रवृत्तिमूचुस्तं शीघ्रं यशोदां मूलतो बलम् ।।१४४।।
गोपान्गोपालिकाश्चैव रक्तपङ्कजलोचनाः ।।
श्रुत्वा वार्तां च ते सर्वे शीघ्रं जग्मुः शुचाऽन्विताः ।।१४५।।
कलिन्दनन्दिनीतीरं रुरुदुर्बालकैर्युताः ।।
गत्वा संमीलिताः सर्वे रुरुदुः शोकमूर्च्छिताः।।१४६।।
ह्रदं विशन्तीमम्बां तां केचिच्चक्रुर्निवारणम् ।।
गोपा गोपालिकाश्चैव जघ्नुरङ्गानि शोकतः ।।१४७।।
केचिद्विललपुस्तत्र मूर्च्छां प्रापुश्च केचन ।।
ह्रदं विशन्तीं तां राधां वारयामास काचन ।। १४८ ।।
मूर्च्छां च प्राप सा शोकान्मृतेव च सरित्तटे ।।
विलप्यातिभृशं नन्दो मूर्च्छां प्राप पुनः पुनः ।। १४९ ।।
भूयोऽपि रोदनं कृत्वा भूयो मूर्च्छामवाप ह ।।
विलपन्तं भृशं नन्दं यशोदां शोककर्शिताम् ।। 4.19.१५० ।।
गोपाश्च गोपिकाश्चैव राधिकामतिमूर्च्छिताम् ।।
रुदतो बालकान्सर्वान्बालिकाश्च शुचाऽन्विताः ।।
सर्वांश्च बोधयामास बलश्च ज्ञानिनां वरः ।। १५१ ।।
श्रीबलदेव उवाच ।।
गोपा गोपालिका बालाः सर्वे शृणुत मद्वचः ।। १५२ ।।
हे नन्द ज्ञानिनां श्रेष्ठ गर्गवाक्यस्मृतिं कुरु ।।
जगद्बिभर्तुः शेषस्य संहर्तुः शंकरस्य च ।।१५३।।
विधातुः संविधातुश्च भुवि कस्मात्पराजयः ।।
परमाणुः परो व्यूहः स्थूलात्स्थूलः परात्परः ।। १५४ ।।
विद्यमानोऽप्यविदृश्यः संयोगो योगिनामपि ।।
दिशां नास्ति समाहारः स्पृश्यो नाकाश एव च ।। १५५ ।।
अपि सर्वेश्वरो बाध्य इत्यूचुः श्रुतयः स्फुटम् ।।
नात्मा दृश्यो नास्त्रलक्ष्यो न वध्यो न हि दृश्यकः ।। १५५ ।।
नाग्निग्रस्तो न हिंस्यश्चापीदमाध्यात्मिका विदुः ।।
विग्रहोऽस्यैव कृष्णस्य भक्तध्यानार्थमेव च ।। १५७ ।।
ज्योतिःस्वरूपस्य विभोर्नाद्यन्तमध्यमात्मनः ।।
जलप्लुते च ब्रह्माण्डे जलशायी जनार्दनः ।। १५८ ।।
यन्नाभिपद्मजो ब्रह्मा तस्येशस्य ह्रदे विपत् ।।
मशकश्चेत्क्षमो ग्रस्तुं ब्रह्माण्डमखिलं पितः ।। १५९ ।।
न तथाऽपि तदीशं तं ग्रस्तुं सर्पः क्षमो भवेत् ।।
इत्येवं कथितं सर्वमाध्यात्मिकमनुत्तमम् ।। 4.19.१६० ।।
निगूढं योगिनां सारं संशयच्छेदकारणम् ।।
बलदेववचः श्रुत्वा गर्गवाक्यमनुस्मरन् ।। १६१ ।।
तत्याज शोकं नन्दश्च व्रजश्च व्रजयोषितः ।।
प्रबोधं मेनिरे सर्वे न यशोदा न राधिका ।। १६२ ।।
बन्धुविच्छेदविषये प्रबोधे न स्थितं मनः ।।
एतस्मिन्नन्तरे कृष्णमुत्पतन्तं जलान्मुने ।। १६३ ।।
ददृशुस्तं सुप्रसन्ना व्रजाश्च व्रजयोषितः ।।
शरत्पार्वणचन्द्रास्यं सस्मितं सुमनोहरम् ।। १६४ ।।
अस्निग्धवस्त्रमस्निग्धमलुप्तचन्दनाञ्जनम् ।।
सर्वाभरणसंयुक्तं ज्वलन्तं ब्रह्मतेजसा ।। १६५ ।।
मयूरपिच्छचूडं च वंशीवदनमच्युतम् ।।
यशोदा बालकं दृष्ट्वा कृत्वा वक्षसि सस्मिता ।। १६६ ।।
चुचुम्ब वदनाम्भोजं प्रसन्नवदनेक्षणा ।।
क्रोडे चकार नन्दश्च बलश्च रोहिणी मुदा ।। १६७ ।।
निमेषरहिताः सर्वे ददृशुः श्रीमुखं हरेः ।।
प्रेमान्धा बालकाः सर्वे चक्रुरालिङ्गनं हरेः ।। १६८ ।।
पपुश्चक्षुश्चकोरैश्च मुखचन्द्रं च गोपिकाः ।।
एतस्मिन्नन्तरे तत्र सहसा काननांतरम् ।। १५९ ।।
दावाग्निर्वेष्टयामास तैः सर्वैः सह गोकुलम् ।।
दृष्ट्वा शैलप्रमाणाग्निं परितः काननान्तरे ।। 4.19.१७० ।।
प्रणाशं मेनिरे सर्वे भयमापुश्च संकटे ।।
श्रीकृष्णं तुष्टुवुः सर्वे संपुटाञ्जलयो व्रजाः ।।
बाला गोप्यश्च संत्रस्ता भक्तिनम्रात्मकन्धराः ।। १७१ ।।
बाला ऊचुः ।।
यथा संरक्षितं ब्रह्मन्सर्वापत्स्वेव नः कुलम् ।। ।। १७२ ।।
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ।।
त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता ।। १७३ ।।
स्रष्टा पाता च संहर्ता जगतां च जगत्पते ।।
वह्निर्वा वरुणो वाऽपि चन्द्रो वा सूर्य एव च ।। १७४ ।।
यमः कुबेरः पवन ईशानाद्याश्च देवताः ।।
ब्रह्मेशशेषधर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः ।। १७५ ।।
मानवाश्च तथा दैत्या यक्षराक्षसकिंनराः ।।
ये ये चराचराश्चैव सर्वे तव विभूतयः ।। १७६ ।।
आविर्भावस्तिरोभावः सर्वेषां च तथेच्छया।।
अभयं देहि गोविंद वह्निसंहरणं कुरु ।। १७७ ।।
वयं त्वां शरणं यामो रक्ष नः शरणागतान् ।।
इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् ।। १७८ ।।
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः ।।
दूरीभूते च दावाग्नौ ननृतुस्ते मुदाऽन्विताः ।। १७९ ।।
सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः ।।
इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ।। 4.19.१८० ।।
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि ।।
शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसङ्कटे ।। १८१ ।।
स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशयः ।।
शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् ।।
इह लोके हरेर्भक्तिमन्ते दास्यं लभेद्ध्रुवम् ।। १८२ ।।
श्रीनारायण उवाच ।।
दावाग्निमोक्षणं कृत्वा तैः सार्द्धं शृणु नारद ।।
जगाम श्रीहरिर्गेहं कुबेरभवनोपमम् ।। १८३ ।।
ब्राह्मणेभ्यो धनं नन्दः परिपूर्णं ददौ मुदा ।।
भोजनं कारयामास ज्ञातिवर्गांश्च बान्धवान् ।। १८४ ।।
नानाविधं मङ्गलं च हरेर्नामानुकीर्तनम्।।
वेदांश्च पाठयामास विप्रद्वारा मुदाऽन्वितः ।। १८५ ।।
एवं मुमुदिरे सर्वे वृन्दारण्ये गृहेगृहे ।।
श्रीकृष्णचरणाम्भोजध्यानैकतानमानसाः ।।१८६।।
इत्येवं कथितं सर्वं हरेश्चरितमङ्गलम् ।।
कलिकिल्बिषकाष्ठानां दहने दहनोपमम् ।।१८७।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्म खण्डे नारायणनारदसंवादे कालीयदमनदावाग्निमोक्षणं नामैकोनविंशोऽध्यायः ।। १९ ।।