प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०२४ श्रीकृष्णजन्मखण्डः
अध्यायः ०२५
वेदव्यासः
अध्यायः ०२६ →

।। नारद उवाच ।। ।।
श्रुतं किमद्भुतं ब्रह्मन् हरेश्चरितमङ्गलम् ।।
विशेषतस्तव मुखे ह्यतीव सुमनोहरम् ।। १ ।।
मृतायां मुनिकन्यायां शापाद्दुर्वाससो मुनेः ।।
किं चकार समागत्य तन्मे ब्रूहि तपोधन ।। २ ।।
।। श्रीनारायण उवाच ।। ।।
सरस्वतीनदीतीरे तपस्यां कुर्वतो मुनेः ।।
पपात धौतमूर्ध्वाच्च धार्यमाणं च वायुना ।। ३ ।।
पृथिव्यां पतिते वस्त्रे तपस्त्यक्त्वा मुनीश्वरः ।।
ध्यानेन बुबुधे सर्वं कन्यासंबन्धि संकटम्।।४।।
जगाम शोकाविष्टोऽपि तूर्णं जामातुराश्रमम्।।
सिषेच पृथिवीरेणूच्छश्वन्नयनबिन्दुना ।।५।।
गत्वाऽऽलयसमीपं च विप्रः कातरमानसः ।।
हे वत्से कन्दलीत्येवमुवाच च पुनःपुनः।। ।। ६ ।।
श्वशरस्य स्वरं ज्ञात्वा दुर्वासा भयविह्वलः ।।
बहिर्बभूव शीघ्रं च पपात चरणाम्बुजे ।। ७ ।।
प्रणम्य श्वशुरं शोकाद्विललाप भृशं पुनः ।।
प्रवृत्तिं कथयामास मूलतो मुनिसत्तमम् ।। ८ ।।
श्रुत्वा वार्तां शुचाऽऽविष्टः पपात धरणीतले ।।
मूर्च्छामाप महाज्ञानी निश्चेष्टो हि यथा मृतः ।। ९ ।।
मृतं दृष्ट्वा स दुर्वासा मुने मनसि संकटम् ।।
चेतनां कारयामास प्रयत्नेन महामुनेः ।। 4.25.१० ।।
संप्राप्य चेतनां शीघ्रमुवाच तं पुरः स्थितम् ।।
जामातरं शोकयुतं भीतं प्रणतकन्धरम् ।। ११ ।।
महाशोकादश्रुपूर्णं रक्तपङ्कजलोचनम् ।।
कोपात्कम्पितवाञ्छश्वत्संत्रस्तः स्फुरिताधरः ।। १२ ।।
और्व उवाच ।।
अये ब्रह्मन्नत्रिवंश पौत्रस्त्वं जगतीपतेः ।।
स्वल्पदोषे बहुतरः कृतो दण्डस्त्वया कथम् ।।१३।।
त्वज्जन्म शंकरांशेन शिष्यस्तस्य जगद्गुरोः ।।
वेदवेदाङ्गविज्ञश्च सर्वज्ञो गुणवान्स्वयम् ।। १४ ।।
अनसूया महासाध्वी कमलांशा तव प्रसूः ।।
न जाने केन दोषेण तव चैतादृशी मतिः ।। १५ ।।
गुणवाञ्जनको यस्य माता गुणवती सती ।।
तयोः पुत्रो दयाहीनो गतिः सूक्ष्मा श्रुतेरहो ।। १६ ।।
मम प्राणाधिका कन्या मुदा त्वयि समर्पिता।।
महागुणान्विता स्वल्पदोषेण परिमिश्रिता ।। १७ ।।
वाग्दुष्टायाश्च दण्डो हि परित्यागः श्रुतौ श्रुतः ।।
त्वया क्रोधाद्यदि त्यक्ता पित्रा यत्नेन पालिता ।।१८।।
मदपत्यं स्वल्पदोषे यतो भस्मीकृतं त्वया ।।
पराभवस्तव महान्भविष्यति न संशयः ।। १९ ।।
महतां क्षुद्रजन्तूनां सर्वेषां जीविनां सदा ।।
स्रष्टा पाता च शास्ता च भगवान्करुणानिधिः ।। 4.25.२० ।।
इत्युक्त्वा च मुनिश्रेष्ठो विलप्य च पुनः पुनः ।।
हेऽम्ब वत्से ह्ययीत्युक्त्वा जगाम स्वालयं रुषा ।।२१।।
गते मुनीन्द्रे दुर्वासा विललाप भृशं पुनः ।।
ज्ञानेन विस्मृतः शोको बभूव द्विगुणः पुनः ।। २२ ।।
शोकानलो हि कालेन विच्छिन्नो ज्ञानभस्मना ।।
बन्धुदर्शनशुष्केन्धदानेन वर्धते पुनः ।। ।। २३ ।।
स्मारंस्मारं प्रियां तत्र विलप्य च पुनःपुनः ।।
बोधयित्वा स्वमात्मानं तपस्यायां मनो दधौ ।। २४ ।।
इत्येवं कथितं सर्वं मुनेः शापस्य कारणम् ।।
बभूव तस्य कालेन दुःसहश्च पराभवः ।। २५ ।।
नारद उवाच ।।
दुर्वासाः शंकरस्यांशः शिवतुल्यश्च तेजसा ।।
तेजस्वी को महानेव चकार तत्पराभवम् ।। २६ ।।
श्रीनारायण उवाच ।।
अम्बरीषो हि राजेन्द्रः सूर्यवंशसमुद्भवः ।।
श्रीकृष्णचरणाम्भोजे तन्मनाः संततं मुने ।। २७ ।।*
न राज्येषु न भार्यासु न पुत्रेषु प्रजासु च ।।
न संपत्सु क्षणं चित्तं पुण्यकर्मार्जिंतासु च ।। २८ ।।
ध्यायतेऽहर्निशं धर्मी स्वन्ते ज्ञाने हरिं मुदा ।।
महाजितेन्द्रियः शान्तो विष्णुव्रतपरायणः ।। २९ ।।
एकादशी व्रतरतः कृष्णपूजासु तत्परः ।।
सर्वकर्मस्वलिप्तश्च कर्ता कृष्णार्पितेषु च ।।4.25.३०।।
सुतीक्ष्णं षोडशारं च हरेश्चक्रं सुदर्शनम् ।।
तेजसा हरितुल्यं च सूर्यकोटिसमप्रभम् ।। ३१ ।।
ब्रह्मादिभिः स्तूयमानं पूजितं च सुरासुरैः ।।
प्रभुणा रक्षितं शश्वद्रक्षायै नृपसन्निधौ ।। ।। ३२ ।।
एकादशीव्रतं कृत्वा द्वादशीदिवसे सति ।।
स्नात्वा विधाय पूजां च कालेन विधिपूर्वकम् ।।३३।।
दत्त्वा दानं ब्राह्मणेभ्यः सुवर्णरजतादिकम् ।।
ब्राह्मणान्भोजयित्वा च भोजनार्थमुवास ह ।। ३४ ।।
एतस्मिन्नन्तरे विप्रस्तपस्वी क्षुधितो मुने ।।
दण्डी छत्री शुक्लवासा बिभ्रत्तिलकमुत्तमम् ।। ३५ ।।
जटिलोऽतिकृशस्त्रस्तः शुष्ककण्ठोष्ठतालुकः ।।
तत्राजगाम भगवान्दुर्वासा नृपतेः पुरः ।। ३६ ।।
स च दृष्ट्वा मुनीन्द्रं तमुत्थाय च प्रणम्य च ।।
दत्त्वा पाद्यं च संप्रीत्या स्वर्णसिंहासनं ददौ ।। ३७ ।।
तस्मै दत्त्वा ऽऽशिषं विप्रः समुवास सुखासने ।।
पप्रच्छ राजा तं प्रीतः काऽऽज्ञा ते वद कामितम् ।। ३८ ।।
नृपेन्द्रवचनं श्रुत्वा तमुवाच महामुनिः।।
बुभुक्षितस्य मे राजन्देह्यन्नं विधिपूर्वकम्।।३९।।
किंत्वघमर्षणमन्त्रं तु जप्त्वाऽऽयाम्यचिरेण वै ।।
क्षणं प्रतीक्षतां राजन्नित्युक्त्वा च गतो मुनिः ।। 4.25.४० ।।
गते विप्रे तु राजर्षिश्चिन्तां प्राप दुरत्ययाम् ।।
विलोक्य विगतप्रायां द्वादशीं भयसंयुतः ।। ४१ ।।
एतस्मिन्नन्तरे तत्र समायान्तं गुरुं मुदा ।।
नत्वा निवेद्य सर्वं तु नृपतिः समुवाच ह ।। ४२ ।।
नायाति मुनिशार्दूलः प्रयाति द्वादशी तिथिः ।।
संकटेऽस्मिन्विधेयं च विविच्य विधिपूर्वकम् ।।
शीघ्रं वद मुनिश्रेष्ठ भद्राभद्रं च मामिति ।। ४३ ।।
श्रुत्वा नृपोक्तिं त्वरितमुवाच मुनिपुंगवः ।।
हितं तथ्यं च वेदोक्तं परिणामसुखावहम् ।। ४४ ।।
वशिष्ठ उवाच ।।
द्वादश्यां समतीतायां त्रयोदश्यां तु पारणम् ।।
उपवासफलं हत्वा व्रतिनं हन्ति निश्चितम् ।। ४५ ।।
ब्रह्महत्यासमं पापं भवेत्तस्य श्रुतौ श्रुतम्।।
भक्ष्यद्रव्यं सुरातुल्यमित्याह कमलोद्भवः ।।४६।।
न भोजयित्वा मूढश्चेदतिथिं समुपस्थितम् ।।
स त्रस्तः क्षुधितो भुङ्क्ते कुम्भीपाके व्रजेद्धुवम्।।४७।।
शतवर्षं तत्र तिष्ठन्नरश्चाण्डालतां व्रजेत् ।।
व्याधियुक्तो दरिद्रश्च भवेज्जन्मनि जन्मनि ।। ४८ ।।
अतोऽतिसूक्ष्मं किं ब्रूमोऽधुना परम संकटे ।।
रक्षां कुरु द्वयोर्धर्मं समालोक्य वदामि ते ।।४९।।
उपवासफलं रक्ष कृष्णस्य चरणोदकम् ।।
भुक्त्वा शीघ्रमपो राजंस्तद्भक्षणमभक्षणम् ।।4.25.५०।।
इत्युक्त्वा ब्रह्मणः पुत्रो विरराम महामुने ।।
बुभुजे तज्जलं किंचित्कृष्णपादाम्बुजं स्मरन्।।५१।।
एतस्मिन्नन्तरे ब्रह्मन्नाजगाम मुनीश्वरः ।।
चिच्छेद कोपात्सर्वज्ञः स्वजटां नृपतेः पुरः ।। ५२ ।।
ततः समुत्थितः शीघ्रं पुरुषोऽग्निशिखोपमः ।।
खड्ग हस्तो महाभीमो राजेन्द्रं हन्तुमुद्यतः ।।५३।।
हरेश्चक्रं च तं दृष्ट्वा सूर्यकोटिसमप्रभम्।।
चिच्छेद कृत्यापुरुषं ब्राह्मणं छेत्तुमुद्यतम् ।।५४।।
दृष्ट्वा सुदर्शनं विप्रो दुद्राव भयविह्वलः ।।
द्विजः पश्चात्तं ददर्श ज्वलदग्निशिखोपमम् ।। ५५ ।।
ब्रह्माण्डक्रमणं कृत्वा निर्विण्णोऽति भयाकुलः ।।
तं च मत्वा जगन्नाथं ब्रह्माणं शरणं ययौ ।। ५६ ।।
त्राहित्राहीत्येवमुक्त्वा विवेश ब्रह्मणः सभाम् ।।
उत्थाय ब्रह्मा विप्रेन्द्रं पप्रच्छ कुशलं मुने ।। ५७ ।।
सर्वं स कथयामास वृत्तान्तं मूलतो विधिम् ।।
श्रुत्वा ब्रह्मा निशश्वास तमुवाच भयाकुलः ।। ५८ ।।
ब्रह्मोवाच ।।
हरिदासं वत्स शप्तुं गतोऽसि कस्य तेजसा ।।
रक्षिता यस्य भगवांस्तं को हन्ता जगत्त्रये ।। ५९ ।।
क्षुद्राणां महतां चैव भक्तानां रक्षणाय च ।।
ररक्ष संततं चक्रं श्रीहरिर्भक्तवत्सलः ।। 4.25.६० ।।
यो मूढो वैष्णवं द्वेष्टि विष्णुप्राणसमं द्विज ।।
तस्य संहारकर्तारं संहर्तुमीश्वरो हरिः ।।६१।।
शीघ्रं स्थानान्तरं गच्छ वत्स त्राणं न वाऽधुना ।।
अन्यथा त्वां मया सार्धं हनिष्यति सुदर्शनम् ।। ६२ ।।
किं ब्रह्मलोकं ब्रह्माण्डं दग्धुं शक्तं क्षणेन यत् ।।
तेजसा विष्णुतुल्यं यत्केनान्येन निवार्यते ।। ६३ ।।
ब्रह्मणो वचनं श्रुत्वा ततो दुद्राव ब्राह्मणः ।।
त्रस्तो जगाम कैलासं शंकरं शरणं भिया ।। ६४ ।।
कृपानिधान मां रक्षेत्युवाच शंकरं भिया ।।
न प्रच्छ कुशलं सर्वज्ञो ब्राह्मणं शिवः ।। ६५ ।।
उवाच दीनदीनेशः संहर्ता जगतां क्षणात् ।।
स्थिरो भव द्विजश्रेष्ठ मदीयं वचनं शृणु ।। ६६ ।।
शंकर उवाच ।।
पौत्रस्त्वं जगतां धातुरत्रेश्च तनयो मुने ।।
वेदज्ञाताऽसि सर्वज्ञ मूर्खतुल्यं तु कर्म ते ।। ६७ ।।
वेदेषु च पुराणेषु सेतिहासेषु सर्वतः ।।
निरूपितो यः सर्वेशस्तं न जानासि मूढवत् ।। ६८ ।।
अहं ब्रह्मा च इन्द्रश्च आदित्या वसवस्तथा ।।
धर्मेन्द्रौ च सुराः सर्वे मुनीन्द्रा मनवस्तथा ।।६९।।
आविर्भूतास्तिरोभूता यस्य भ्रूभङ्गलीलया ।।
तस्य प्राणाधिकं भक्तं हंसि त्वं कस्य तेजसा ।। 4.25.७० ।।
अहं ब्रह्मा च कमला दुर्गा वाणी च राधिका ।।
न हि भक्तात्पराः प्रेम्णा भक्ताश्च सर्वतः प्रियाः ।।७१।।
क्षुद्रांश्च महतो भक्ताञ्छश्वद्रक्षति यत्नतः ।।
सर्वान्तरात्मा भगवांश्चक्रेण दुःसहेन च ।। ।। ७२ ।।
नियुज्य चक्रं दुर्वार्यं स्वात्मतुल्यं च तेजसा ।।
तथाऽपि न प्रतीतिश्च स्वयं गच्छति रक्षितुम् ।। ७३ ।।
स्वकीयगुण नाम्नां च श्रवणादतिसंभ्रमः ।।
भक्तसङ्गे भ्रमत्येव छायेव सततं हरिः ।। ७४ ।।
कान्ता प्राणाधिका शश्वन्न हि कोऽपि ततोऽधिकः ।।
भक्तान्द्वेष्टि स्वयं सा चेत्तूर्णं त्यजति तां प्रभुः ।। ७५ ।।
सर्वेषां च प्रिया विप्राः स्वशरीरादपि द्विज ।।
ब्राह्मणेभ्यः प्रिया भक्ताः प्राणेभ्यश्च हरेरपि ।। ७६ ।।
ईश्वरस्य प्रियः को वाऽप्रियः को वा जगत्त्रये ।।
यः शिष्टस्तं भजेच्छश्वद्ध्यायते सततं सदा ।। ७७ ।।
महति प्रलये ब्रह्मन्ब्रह्मण्डौघे जलप्लुते ।।
न तत्र नाशो भक्तानां सर्वेषां च भविष्यति ।। ७८ ।।
भज ब्राह्मण गोविन्दं स्मर तस्य पदाम्बुजम् ।।
सर्वापदो विनश्यन्ति श्रीहरेः स्मरणादपि ।। ७९ ।।
व्रज शीघ्रं च वैकुण्ठं वैकुण्ठः शरणं तव ।।
दास्यत्येवाभयं तुभ्यं करुणासागरो विभुः ।। 4.25.८० ।।
एतस्मिन्नन्तरे व्याप्तं कैलासं चक्रतेजसा ।।
यथा च सूर्यकिरणैः सुप्रदीप्तं महीतलम् ।। ८१ ।।
दग्धा ज्वालाकरालैश्च सर्वे कैलासवासिनः ।।
त्राहि त्राहीत्येवमुक्त्वा शंकरं शरणं ययुः ।। ८२ ।।
दृष्ट्वा चक्रं दुर्विषहं शंकरः करुणानिधिः ।।
पार्वत्या सह संप्रीत्या ब्राह्मणायाशिषं ददौ ।। ८३ ।।
तेजः सत्यं तपः सत्यं यदि चेच्चिरसंचितम् ।।
कृतापराधो भीतश्च द्विजो भवतु विज्वरः ।। ८४ ।।
पार्वत्युवाच ।।
यत्प्रभोर्मम पुण्येषु ब्राह्मणः शरणागतः ।।
ममाशिषा महाभीत्या शीघ्रं भवतु विज्वरः ।। ८५।।
इत्येवमुक्त्वा कृपया विरराम शिवा शिवः ।।
मुनिः प्रणम्य देवेशं वैकुण्ठं शरणं ययौ ।। ८६ ।।
गत्वा वैकुण्ठभवनं मनोयायी मुनीश्वरः ।।
दृष्ट्वा सुदर्शनं पश्चाद्विवेशान्तःपुरं हरेः ।। ८७ ।।
ददर्श श्रीहरिं विप्रो रत्नसिंहासनस्थितम् ।।
शङ्खचक्रगदापद्मधरं पीताम्बरं परम् ।। ८८ ।।
श्यामं चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् ।।
रत्नालंकारशोभाढ्यं रत्नमालाविभूषितम् ।। ८९ ।।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ।।
सद्रत्नसाररचितं किरीटोज्ज्वलशेखरम् ।। 4.25.९० ।।
पार्षदप्रवरेन्द्रैश्च सेवितं श्वेतचामरैः ।।
पद्मासेवितपादाब्ज सरस्वत्या स्तुतं पुरः ।। ९१ ।।
सुनन्दनन्दकुमुदप्रचण्डादिभिरावृतम् ।।
गुणानुवादं गायन्तं तन्त्रैः पश्यन्तमीप्सितम् ।। ९२ ।।
एवंभूतं प्रभुं दृष्ट्वा दण्डवत्प्रणनाम च ।।
तुष्टाव सामवेदोक्तस्तोत्रेण परमेश्वरम् ।। ९३ ।।
।। दुर्वासा उवाच ।। ।।
त्राहि मां कमलाकान्त त्राहि मां करुणानिधे ।।
दीनबन्धोऽतिदीनेश करुणासागर प्रभो ।। ९४ ।।
वेदवेदाङ्गसंस्रष्टुर्विधातुश्च स्वयं विधे ।।
मृत्योर्मृत्युः कालकाल त्राहि मां संकटार्णवे ।। ९५ ।।
संहारकर्तुः संहारः सर्वेशः सर्वकारणः ।।
महाविष्णुतरोर्बीजं रक्ष मां भवसागरे ।। ९६ ।।
शरणागतशोकार्तभयत्राणपरायण ।।
भगवन्नव मां भीतं नारायण नमोऽस्तु ते ।। ९७ ।।
वेदेष्वाद्यं च यद्वस्तु वेदाः स्तोतुं न च क्षमाः ।।
सरस्वती जडीभूता किं स्तुवन्ति विपश्चितः ।। ।। ९७ ।।
शेषः सहस्रवक्त्रेण यं स्तोतुं जडतां व्रजेत् ।।
पञ्चवक्त्रो जडीभूतो जडीभूतश्चतुर्मुखः ।। ९९ ।।
श्रुतयः स्मृतिकर्तारो वाणी चेत्स्तोतुमक्षमा ।।
कोऽहं विप्रश्च वेदज्ञः शिष्यः किं स्तौमि मानद ।। 4.25.१०० ।।
मनूनां च महेन्द्राणामष्टाविंशतिमे गते ।।
दिवानिशं यस्य विधेरष्टोत्तरशतायुषः ।। १०१ ।।
तस्य पातो भवेद्यस्य चक्षुरुन्मीलनेन च ।।
तमनिर्वचनीयं च किं स्तौमि पाहि मां प्रभो ।। १०२ ।।
इत्येवं स्तवनं कृत्वा पपात चरणाम्बुजे ।।
नयनाम्बुजनीरेण सिषेच भयविह्वलः ।।१०३।।
दुर्वाससा कृतं स्तोत्रं हरेश्च परमात्मनः ।।
पुण्यदं सामवेदोक्तं जगन्मङ्गलनामकम् ।। १०४ ।।
यः पठेत्संकटग्रस्तो भक्तियुक्तश्च संयतः ।।
नारायणस्तं कृपया शीघ्रमागत्य रक्षति ।। १०५ ।।
राजद्वारे श्मशाने च कारागारे भयाकुले ।।
शत्रुग्रस्ते दस्युभीतौ हिंस्रजन्तुसमन्विते ।। ।। १०६।।
वेष्टिते राजसैन्येन मग्ने पोते महार्णवे।।
स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः ।। १०७ ।।
इति श्रीब्रह्मवैवर्ते दुर्वाससा कृतं श्रीकृष्णस्तोत्रं समाप्तम् ।।
नारायण उवाच ।।
मुनेश्च स्तवनं श्रुत्वा भगवान्भक्तवत्सलः ।।
प्रहस्योवाच मधुरं पीयूषवृष्टिवन्मुदा ।। १०८ ।।
श्रीभगवानुवाच ।।
उत्तिष्ठोत्तिष्ठ भद्रं ते भविष्यति वरेण मे ।।
किं तु मे वचनं नित्यं शृणु सत्यं सुखावहम् ।। १०९ ।।
अन्येषां च भवेज्ज्ञानं श्रुत्वा शास्त्रं सतां मुखात् ।।
स्वमूर्तिमन्ति शास्त्राणि भवेत्सन्तश्चरन्ति हि ।। 4.25.११० ।।
कर्म वेदविरुद्धं च सर्वेषामतिगर्हितम् ।।
करोति विद्वांश्चेज्ज्ञात्वा स च जीवन्मृताधिकः ।। १११ ।।
पुराणेषु च वेदेषु चेतिहासेषु ब्राह्मण ।।
वैष्णवानां च महिमा श्रुतः सर्वैश्च सर्वतः ।।११२।।
अहं प्राणा वैष्णवानां मम प्राणाश्च वैष्णवाः ।।
तानेव द्वेष्टि यो मूढो ममासूनां च हिंसकः ।। ११३ ।।
पुत्रान्पौत्रान्कलत्रांश्च राज्यं लक्ष्मीं विहाय च ।।
ध्यायन्ते सततं ये मां को मे तेभ्यः परः प्रियः ।। ।। ११४ ।।
परा भक्तान्न मे प्राणा न च लक्ष्मीर्न शङ्करः ।।
न भारती न च ब्रह्मा न दुर्गा न गणेश्वरः ।। ११५ ।।
न ब्राह्मणा न वेदाश्च न वेदजननी परा ।।
न गोपी न च गोपाला न राधा प्रणतः प्रियाः ।।११६।।
इत्येवं कथितं सर्वं सत्यं सारं च वास्तवम् ।।
न प्रशंसापरं तेषां ते च प्राणाधिकाः प्रियाः ।। ११७ ।।
मां द्विषन्ति च ये मूढा ज्ञानहीनाश्च वञ्चिताः ।।
आत्मानं ये न जानन्ति ते यान्ति निरयं चिरम् ।।११८।।
ये द्विषन्ति च मद्भक्तान्प्राणानामधिकं प्रियान्।।
तेषां शास्ता त्वहं तूर्णं परत्र निरयं चिरम् ।। ११९ ।।
प्रभावोऽहं च सर्वेषामीश्वरः परिपालकः।।
न च व्यापी स्वतन्त्रोऽहं भक्ताधीनो दिवानिशम्।।4.25.१२०।।
गोलोके वाऽथ वैकुण्ठे द्विभुजं च चतुर्भुजम् ।।
रूपमात्रमिदं शश्वत्प्राणा मे भक्तसन्निधौ ।। १२१ ।।
यदुक्तं भक्तदत्तं च भक्षणीयं च तन्मम ।।
अभक्ष्यं द्रव्यमन्येन दत्तं चेदमृतोपमम् ।। १२२ ।।
अंबरीषं नृपश्रेष्ठं निरीहं तमहिंसकम् ।।
कथं हंसि दयाशीलं सर्वप्राणिहिते रतम् ।। १२३ ।।
दयां कुर्वंति ये सन्तः सततं सर्वजन्तुषु ।।
तान्द्विषन्ति च ये मूढास्तेषां हन्ताऽहमेव च ।।१२४।।
भक्तानां हिंसकं शत्रुमहं रक्षितुमक्षमः।।
अम्बरीषालयं गच्छ स त्वां रक्षितुमीश्वरः ।। १२५ ।।
नारायण उवाच ।।
इदं वाक्यं च तच्छ्रुत्वा ब्राह्मणो भयविह्वलः ।।
विषण्णमानसस्तस्थौ स्मरन्कृष्णपदाम्बुजम् ।।१२६।।
एतस्मिन्नन्तरे ब्रह्मा भवान्या सह शंकरः ।।
धर्मश्चेन्द्रादयो देवा आजग्मुर्मुनिपुङ्गवाः।।। ।। १२७ ।।
प्रणम्य तुष्टुवुः सर्वे परमात्मानमीश्वरम् ।।
पुलकाञ्चितसर्वाङ्गा भक्तिनम्रात्मकंधराः ।। १२८ ।।
ब्रह्मोवाच ।।
स्वात्मस्वरूप निर्लिप्त भक्तानुग्रहकातर ।।
भक्तापराधजनकं रक्ष ब्राह्मणपुङ्गवम् ।। १२९ ।।
महादेव उवाच ।।
दीनबन्धो जगन्नाथ नायं विप्रो जगद्बहिः ।।
कृतापराधं दीनं च पाहीमं शरणागतम् ।। 4.25.१३० ।।
पार्वत्युवाच ।।
भक्त एवांबरीषस्ते न द्विजा न सुरा वयम् ।।
सर्वेषामीश्वरस्त्वं च रक्ष विप्रं कृतागसम् ।। १३१ ।।
धर्म उवाच ।।
सर्वेषां जनकस्त्वं च पाता दण्डकृदीश्वरः।।
शिशुहेतोः शिशुं हन्ति पितेत्येवं कुतः प्रभो ।। १३२ ।।
इंद्र उवाच ।।
कृपया समता शश्वत्सर्वेषु जीविषु प्रभो ।।
अपराधफलं भूतमधुना पातुमर्हसि ।। १३३ ।।
रुद्र उवाच ।।
शान्तिं कर्तुं समुचितमुचितं सांप्रतं कुरु ।।
कृतकुण्ठस्य मूलस्य पालनं कर्तुमर्हसि ।। १३४ ।।
दिक्पाल उवाच ।।
कृतापराधं विप्रं च छेत्तुमर्हसि न श्रुतौ ।।
अपराधशमं कृत्वा सदा पाति सदीश्वरः ।। १३५ ।।
ग्रहा ऊचुः ।।
यो द्वेष्टि वैष्णवं मूढस्तं रुष्टा सर्वदेवताः ।।
पीडां कुर्मो वयं शश्वत्पश्चात्त्वं पातुमर्हसि ।। १३६ ।।
मुनय ऊचुः ।।
नाथ विप्रे पराभूते सर्वे जीवन्मृता वयम् ।।
दण्डं विधातुमेकस्य भवेल्लज्जा स्वजातिषु ।। १३७ ।।
अत्रिरुवाच ।।
त्वयैव दत्तः पुत्रो मे क्रोधी त्वत्सेवकः सदा ।।
न कं बिभेति त्रैलोक्ये तेजस्वी तेजसा तव ।। १३८ ।।
लक्ष्मीरुवाच ।।
क्षमापराधं भगवन् ब्राह्मणं शरणागतम् ।।
स्तुवन्ति देव विप्राश्च न विप्रं हन्तुमर्हसि ।। १३९ ।।
सरस्वत्युवाच ।।
बोधयिष्यामि देवानां जनकं कामदं श्रुतिम् ।।
भगवन्स्वामी सर्वेषां सर्वांश्च पातुमर्हसि ।। 4.25.१४० ।।
पार्षदा ऊचुः ।।
भवतः स्मृतिमात्रेण सर्वेषां सर्वमङ्गलम् ।।
भवेत्सर्वापदो यान्ति पाहीमं शरणागतम् ।। १४१ ।।
नर्तका ऊचुः ।।
दारिद्र्यभंजन वयं भिक्षुकास्तव संततम् ।।
भिक्षां नः सांप्रतं देहि परित्राणं द्विजस्य च ।। १४२ ।।
एतेषां स्तवनं श्रुत्वा प्रभुः शरणवत्सलः ।।
प्रहस्योवाच वचनं सर्वसन्तोषकारणम् ।। १४३ ।।
श्रीभगवानुवाच ।।
सर्वे शृणुत मद्वाक्यं नीतियुक्तं सुखावहम्।।
विप्ररक्षां करिष्यामि युष्माकमाज्ञया ध्रुवम् ।।१४४।।
किं त्वयं यातु वैकुण्ठादम्बरीषालयं पुनः ।।
करोतु पारणं तत्र राज्ञः सुप्रीतये मुनिः ।। १४५ ।।
विप्रस्तस्यातिथिर्भूत्वा निर्दोषं शप्तुमुद्यतः ।।
सुदर्शनं तु तं रक्ष्यं ब्राह्मणं हन्तुमुद्यतम् ।।१४६।।
पूर्णं वर्षमयं भीतो भ्रमत्येव भुवं मुदा ।।
उपवासी स राजेन्द्रः सस्त्रीकश्च शुचाऽन्वितः ।।१४७।।
ततोऽहमुपवासी च भक्तोपवासकारणात् ।।
स्तनान्धं बालकं दृष्ट्वा न भुङ्क्ते जननी यथा ।। १४८ ।।
ममाशिषा मुनिश्रेष्ठः सद्यो भवतु विज्वरः ।।
पथि तत्रास्य हिंसां च मच्चक्रं न करिष्यति ।। १४९ ।।
अहमेवाद्य निश्चिन्तः सुखं भोक्ष्यामि निश्चितम् ।।
भक्तदत्तं च यद्वस्तु प्रीत्या कृत्वा सुधोपमम् ।।4.25.१५०।।
लक्ष्मीदत्तं च यद्द्रव्यं न चाहं भोक्तुमीश्वरः ।।
विना भक्तप्रदानेन न तृप्तिं दातुमीश्वरः ।। ।। १५१ ।।
हे मुनीन्द्र महाप्राज्ञ गच्छ वत्स नृपालयम् ।।
सर्वे देवाश्च देव्यश्च गच्छन्तु मुनयो गृहम् ।।१५२।।
इत्युक्त्वा श्रीहरिस्तूर्णं ययौ स्वान्तःपुरं मुदा ।।
ययुः सर्वे मुदा युक्ताः प्रणम्य जगदीश्वरम् ।। १५३ ।।
ब्राह्मणश्च मनोयायी जगाम नृपमन्दिरम् ।।
सुदर्शनं च तच्चक्रं सूर्यकोटिसमप्रभम् ।। १५४ ।।
उपोष्य वत्सरं राजा शुष्ककण्ठोष्ठतालुकः ।।
सिंहासनस्थः पुरतो ददर्श मुनिपुङ्गवम् ।। १५५ ।।
उत्थाय संभ्रमात्सद्यः प्रणम्य सादरं मुदा ।।
भोजयित्वा तु मिष्टान्नं ब्राह्मणं बुभुजे स्वयम् ।। १५६ ।।
भुक्त्वा तुष्टो द्विजश्रेष्ठो युयुजे परमाशिषम् ।।
जगाम स्वालयं तूर्णं प्रशशंस पुनःपुनः ।। १५७ ।।
उवाच पथि विप्रेन्द्रो मनसा विस्मयाकुलः।।
माहात्म्यं दुर्लभमहो वैष्णवानामिति द्विजः ।। १५८ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे मुनिमो क्षणप्रस्तावो नाम पञ्चविंशोऽध्यायः ।। २५ ।।

सम्पाद्यताम्

  • तुलनीय - श्रीमद्भागवतपुराणे ९.४ अंबरीष-दुर्वासोपाख्यानम्