प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०३६

← अध्यायः ०३५ श्रीकृष्णजन्मखण्डः
अध्यायः ०३६
वेदव्यासः
अध्यायः ०३७ →

।। श्रीराधिकोवाच ।। ।।
एतेन नियमेनैव ब्रह्मा तत्याज मोहिनीम् ।।
कथं स कुलटाशापादपूज्यः संबभूव ह ।। १ ।।
कथं तस्य दर्पभङ्गं चकार कमलापतिः ।।
कथयस्व सर्वबीजं सर्वेषामीश्वरः स्वयम् ।।२।। ।।
।। श्रीनारायण उवाच ।। ।।
रासेश्वरीवचः श्रुत्वा प्रहस्य रसिकेश्वरः ।।
निगूढमितिहासं च तां वक्तुमुपचक्रमे ।। ३ ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
ब्रह्मा चिरं तपस्तप्त्वा मत्तो लब्ध्वा वरं वरम् ।।
सृष्टिं नानाविधां कृत्वा विधाता स बभूव ह ।। ४ ।।
तपसां फलदाता च सर्वेषां शास्तिकृत्प्रभुः ।।
आत्मानमीश्वरं ज्ञात्वा महागर्वो बभूव ह ।।५।।
ब्रह्माण्डेषु च सर्वेषु गर्वपर्यन्तमुन्नतिः ।।
इति मत्वा ब्रह्मणश्च दर्पभङ्गः कृतो मया ।।६।।
येषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परः ।।
विज्ञाय सर्वं सर्वात्मा तेषां शास्ताऽहमेव च ।। ७ ।।
प्रथमे ब्रह्मणो गर्वो मया चूर्णीकृतः श्रुतः ।।
शङ्करस्य च पार्वत्याश्चन्द्रस्य च रवेस्तथा।।८।।
वह्नेर्दुर्वाससश्चैव तथा धन्वन्तरेः प्रिये।।
क्रमेण दर्पभङ्गं च कथयामि निशामय ।। ९ ।।
क्षुद्राणां महतां चैव येषां गर्वो भवेत्प्रिये ।।
एवंविधमहं तेषां चूर्णीभूतं करोमि च ।। 4.36.१०।।
।। श्रीनारायण उवाच ।। ।।
श्रीकृष्णस्य वचः श्रुत्वा शुष्ककण्ठोष्ठतालुका ।।
पप्रच्छ राधा यत्नेन संत्रस्ता भयविह्वला ।। ११ ।।
।। श्रीराधिकोवाच ।। ।।
कस्य केन प्रभावेण महादर्पो बभूव ह ।।
त्वया केन प्रभावेण तस्य भङ्गः कृतः पुरा ।। १२ ।।
कथयस्व प्राणनाथ सर्वेषां दर्पभञ्जन ।।
दर्पदो भयदः प्राणदानैककारणेश्वर ।। १३ ।।
।। श्रीकृष्ण उवाच ।। ।।
येन भूतं गर्वचूर्णं श्रुतं त्रिजगतां विधेः ।।
अन्येषां श्रूयतां राधे व्यासेन कथयामि ते ।। १४।।
स्वयं शिवो मदंशश्च संहर्ता जगतां च यः ।।
तेजसा मत्समः पूर्णो ज्ञानेन च गुणेन च ।। १९।।
ध्यायन्ति योगिनो यं स योगीन्द्राणां गुरोर्गुरुः ।।
ज्ञानानन्दस्वरूपोऽयं तस्याख्यानं शृणु प्रिये।।१६।।
युगषष्टिसहस्राणि तपस्तप्त्वा दिवानिशम् ।।
भूत्वा च मत्कलापूर्णो बभूव मत्समो विभुः।।१७।।
तपसा तेजसा शश्वत्तेजोराशिर्बभूव ह ।।
सूर्यकोटिप्रभावश्च भक्तानां कल्पपादपः ।।१८।।
ध्यायंध्यायं च योगीन्द्रास्तत्तेजो बहुकालतः ।।
तदन्तरे च पश्यन्ति स्वरूपमतिसुन्दरम्।।१९।।
शुद्धस्फटिकसंकाशं पञ्चवक्त्रं त्रिलोचनम् ।।
त्रिशूलपट्टिशकरं व्याघ्रचर्माम्बरं वरम्।।4.36.२०।।
जपन्तं स्वात्मनाऽऽत्मानं श्वेताब्जबीजमालया ।।
ईषद्धास्यप्रसन्नास्यं चन्द्रचूडं परात्परम् ।। २१ ।।
स्वर्णाकारं जटाभारं दधतं शिरसा मुदा।।
शान्तं कान्तं त्रिजगतां भक्तानुऽग्रहकातरम्।।२२।।
अथ स्वमीश्वरं मत्वा प्रदाता सर्वसंपदाम्।।
ददाति सर्वं सर्वेभ्यो वाञ्छितं कल्पपादपः।।२३।।
यो यं वाञ्छति तं तस्मै वरं दत्त्वा वरेश्वरः ।।
बभूव गर्वसंयुक्तः स्वात्मारामः स्वलीलया ।।२४।।
एकदा च वृको दैत्यस्तपस्तेपे शिवस्य च ।।
केदारे च कठोरेण वर्षमेकं दिवानिशम् ।। २५ ।।
नित्यं याति तत्समीपं कृपया च कृपानिधिः ।।
वरं दातुं यथाऽभीष्टं न जग्राहासुरो वरम् ।। २६ ।।
वर्षान्ते शङ्करः शश्वत्तस्थौ तत्पुरतः स्वयम् ।।
वरदो भक्तिपाशेन क्षणं गन्तुं न स क्षमः ।। २७ ।।
सर्वैश्वर्यं सर्वसिद्धिं भुक्तिं मुक्तिं हरः पदम् ।।
दैत्यः किंचिन्न गृह्णाति परितः शूलपाणिनः ।। २८ ।।
ध्यायमानं तत्पदाब्जं दृष्ट्वा त्रस्तो महेश्वरः ।।
अयाचितारं निश्चेष्टं रुरोद प्रेमविह्वलः ।। २९ ।।
अतीव रोदनात्तस्य ध्यानभङ्गो बभूव ह ।।
ददर्श पुरतः साक्षाद्दातारं सर्वसंपदाम् ।। 4.36.३० ।।
यन्मायया वरं वव्रे दैत्येन्द्रो भक्तिपूर्वकम् ।।
हस्तं दधे च यन्मूर्ध्नि स भस्म भवितेति च ।।३१ ।।
ओमित्युक्त्वा प्रयान्तं तं दुद्राव दैत्यपुंगवः।।
मृत्युञ्जयो मृत्युभयाद्दुद्राव त्रासविह्वलः ।। ३२ ।।
पपात डमरुस्तस्य व्याघ्रचर्म मनोहरम् ।।
दिगम्बरो दशदिशो भेजे दानवभीतये ।। ३३ ।।
न हन्ति तं च कृपया भक्तं च भक्तवत्सलः ।।
दुष्टानुसारं साधुश्च न करोति कदाचन ।। ३४ ।।
साधवो घ्नन्ति घ्नन्तं च भृत्यं पुत्रं प्रियां विना ।।
प्रबोधितुं न शक्तश्च स्वात्मानं कृपया समम् ।। ३५ ।।
शिवः स्वमृत्युं मत्वा च भीतश्च निरहंकृतः ।।
स्मारंस्मारं च मां भद्रे मामेव शरणं ययौ ।। ३६ ।।
दृष्ट्वा स्वाश्रममायान्तं शुष्ककण्ठोष्ठतालुकम् ।।
हे हरे रक्ष रक्षेति जपन्तं भयविह्वलम् ।।३७।।
संस्थाप्य तत्समीपे च स दैत्यो बोधितो मया ।।
पृष्टश्च सर्ववृत्तान्तमुवाच मां क्रमेण च ।। ३८ ।।
तदा ममाज्ञया तूर्णं वञ्चितो माययाऽसुरः ।।
दत्त्वा स्वमूर्ध्नि हस्तं च सद्यो भस्म बभूव ह ।।३९।।
तदा सिद्धाः सुरेन्द्राश्च मुनीन्द्रा मनवो मुदा ।।
तुष्टुवुर्मां सुभक्त्या च लज्जया लज्जितः शिवः ।।4.36.४०।।
बभूव चूर्णस्तद्गर्वो जगाम बोधितो मया ।।
वरं ददाति वरदस्ततो बोध्यो ह्यहं शिवः ।। ४१ ।।
अथ गर्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्बणम् ।।
मत्वा मनसि संहर्ता सर्वेषां जगतामिति ।। ४२ ।।
कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम् ।।
विहाय शूलं मद्दत्तं मदीयकवचं परम् ।। ४३ ।।
चिरं बभूव समरं वर्षमेकं दिवानिशम् ।।
न कोऽपि जेतुं कं शक्तो द्वौ समौ समरे तदा ।।४४।।
पृथिव्यां चरणं कृत्वा दैत्येन्द्रो मायया प्रिये ।।
अत्यूर्ध्वं च समुत्तस्थौ पञ्चाशत्कोटियोजनम् ।। ४५ ।।
उत्तस्थौ शंकरस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः ।।
बभूव तत्र युद्धं च मासमेकं निराश्रये ।। ।। ४६ ।।
अस्त्राणि चापं चिच्छेद शङ्करस्यासुरो बली ।।
रथं बभञ्ज दैत्येन्द्रश्चापमस्त्राणि शङ्करात् ।। ४७ ।।
जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः ।।
वज्रमुष्टिप्रहारेण सद्यो मूर्च्छामवाप सः ।। ४८ ।।
क्षणेन चेतनां प्राप्य कोपाद्दानवपुंगवः ।।
शिवं शयानमुत्तोल्य पातयामास भूतले ।। ४९ ।।
सरथे पातिते रुद्रे देवा देवर्षयो भिया ।।
तुष्टुवुर्मां परित्राहि कृष्णेत्युक्त्वा पुनःपुनः ।। 4.36.५० ।।
हरः सस्मार मामेव निर्भयो भयकारणम् ।।
तुष्टाव भक्त्या स्तोत्रेण मया दत्तेन संकटे ।। ५१ ।।
तदाऽहं कलया शीघ्रं वृषरूपं विधाय च ।।
शयानं शंकरं धृत्वा विषाणाभ्यामुरुक्रमम् ।। ५२ ।।
ददौ तस्मै स्वकवचं स्वशूलमरिमर्दनम् ।।
प्राप्य तद्दानवस्थानमत्यूर्ध्वं च निराश्रयम् ।। ५३ ।।
मया दत्तेन शूलेन जघान त्रिपुरं हरः ।।
मामेव दर्पहन्तारं तुष्टाव व्रीडितः पुनः ।। ५४ ।।
सद्यः पपात दैत्येन्द्रश्चूर्णीभूतश्च भूतले ।।
देवता मुनयः सर्वे तुष्टुवुः शङ्करं मुदा ।।५५।।
तत्याज शङकरो दर्पं विघ्नबीजं ततो विभुः ।।
ज्ञानानन्दस्वरूपश्च निर्लिप्तः सर्वकर्मसु।।५६।।
ततोऽहं वृषरूपेण वहामि तेन तं प्रियम् ।।
मम प्रियतमो नास्ति त्रैलोक्येषु शिवात्परः ।।५७।।
मनःस्वरूपो ब्रह्मा मे ज्ञानरूपो महेश्वरः ।।
बुद्धिर्भगवती दुर्गा मूलप्रकृतिरीश्वरी ।। ५८ ।।
निद्रादयः शक्तयो यास्ताः सर्वाः प्रकृतेः कलाः ।।
वागधिष्ठातृदेवी या सा स्वयं च सरस्वती ।।५९।।
मम कल्याणाधिदेवो हर्षरूपो गणेश्वरः ।।
परमार्थः स्वयं धर्मो मम भक्तो हुताशनः ।। 4.36.६० ।।
सर्वैश्वर्याधिदेवी मे सर्वगोलोकवासिनः ।।
प्राणाधिष्ठातृदेवी त्वं सदा प्राणाघिका मम ।। ६१ ।।
गोपाङ्गनास्तव कला अत एव मम प्रियाः ।।
मल्लोमकूपजा गोपाः सर्वे गोलोकवासिनः ।। ६२ ।।
तेजःस्वरूपः सूर्यश्च प्राणा मे वायवः स्मृताः ।।
जलाधिदेवो वरुणः पृथिवी मे मलोद्भवा ।। ६३ ।।
मम शून्यो महाकाशो मदनो मानसोद्भवः ।।
इन्द्रादयः सुराः सर्वे मत्कलांशांशसंभवाः ।। ६४ ।।
एतानि सृष्टिबीजानि महदादीनि चैव हि ।।
सर्वेषां बीजरूपोऽहं स्वयमात्मा निराश्रयः ।। ६५ ।।
जीवो मे प्रतिबिम्बश्च कर्मभोगाधिकारकः ।।
अहं साक्षी निरीहश्च न भोगी सर्वकर्मसु ।। ६६ ।।
भक्तध्यानार्थदेहोऽयं मम स्वेच्छामयस्य च ।।
प्रकृतिः पुरुषोऽहं च एक एव परात्परः ।। ६७ ।।
इत्येवं कथितं राधे शिवदर्पविमोचनम् ।।
सृष्टिबीजं च शृणु मे पार्वतीदर्पमोचनम् ।।६८।।
श्रीनारायण उवाच ।।
इत्युक्तवन्तं श्रीकृष्णं परमात्मानमीश्वरम् ।।
पप्रच्छ राधिका देवी निगूढमभिवाञ्छितम् ।। ६९ ।।
श्रीराधिकोवाच ।।
भगवन्सर्वतत्त्वज्ञ सर्वबीज सनातन ।।
वद मे वाञ्छितं प्रश्नं सर्वसंदेहभञ्जनम् ।। 4.36.७० ।।
सर्वज्ञानाधिदेवश्च शंकरः सर्वतत्त्ववित् ।।
मृत्युंजयः कालकालो भगवांस्त्वत्समो महान् ।।७१।।
कथं विभूतिगात्रश्च पञ्चवक्त्रस्त्रिलोचनः ।।
दिगम्बरो जटाधारी नागसंघातभूषणः ।। ७२ ।।
वृषेणाटति देवेन्द्रो विहाय वरवाहनम् ।।
न बिभर्ति कथं रत्नसारनिर्माणभूषणम् ।।७३।।
वह्निशुद्धांशुकं त्यक्त्वा धत्ते शार्दूलचर्मकम् ।।
धत्ते धत्तूरकुसुमं पारिजातं विहाय च ।।७४।।
नास्ति रत्नकिरीटेच्छा जटायां प्रीतिरुत्तमा ।।
दिव्यलोकं परित्यज्य श्मशानेषु स्पृहा विभोः ।। ७५ ।।
चन्दनागुरुकस्तूरीसुगंधिकुसुमानि च ।।
त्यक्त्वा स्पृहा बिल्वपत्रे बिल्वकाष्ठानुलेपने।।७६।।
एतद्वेदितुमिच्छामि व्यासेन कथय प्रभो ।।
श्रोतुं कौतूहलं नाथ वर्द्धते मे मनःस्पृहा ।। ७७ ।।
राधिकावचनं श्रुत्वा प्रहस्य मधुसूदनः।।
कथां कथितुमारेभे कृत्वा राधां स्ववक्षसि ।। ७८ ।।
श्रीकृष्ण उवाच ।।
युगषष्टिसहस्राणि तपः कृत्वा महेश्वरः ।।
विरराम पूर्णतमो ध्यात्वा मां मनसा मुदा ।।७९।।
एतस्मिन्नन्तरे मां च ददर्श पुरतः स्थितम् ।।
अतीव कमनीयाङ्गं किशोरं श्यामसुन्दरम्।। ।।4.36.८०.।।
अहोनिर्वचनीयं च दृष्ट्वा रूपमनुत्तमम् ।।
न बभूव वितृष्णश्च लोचनाभ्यां त्रिलोचनः ।। ८१ ।।
पश्यन्निमेषरहित इति मत्वा स्वमानसे ।।
भक्त्युद्रेकान्महाभक्तो रुरोद प्रेमविह्वलः ।। ८२ ।।
सहस्रवदनोऽनन्तो भाग्यवांश्च चतुर्मुखः ।।
बहुभिर्लोचनैर्दृष्ट्वा तुष्टाव बहुभिर्मुखैः ।। ८३ ।।
पश्यामि किं वा किं स्तौमि संप्राप्य नाथमीदृशम् ।।
आस्यैकेन लोचनाभ्यां चतुर्द्धा स पुनः पुनः ।। ८४ ।।
स्व मानसे कुर्वतीदं शंकरे च तपस्विनि ।।
तद्बभूव चतुर्वक्त्रं पूर्वेण सह पञ्चमम् ।। ८५ ।।
एकैकवक्त्रं शुशुभे लोचनैश्च त्रिभिस्त्रिभिः।
बभूव तेन तन्नाम पञ्चवक्त्रस्त्रिलोचनः ।। ८६ ।।
स्तवनादधिकप्रीतिः शिवस्य दर्शने मम ।।
तेनाधिकानि तस्यैवं बभूवुर्लोचनानि च।। ।। ८७ ।।
चक्षूंषि गुणरूपाणि तस्य ब्रह्मस्वरूपिणः ।।
सत्त्वं रजस्तम इति तस्य हेतुं निशामय ।। ८८ ।।
सत्त्वांशेन दृशा शंभुः पश्यन्पाति च सात्त्विकान् ।।
राजसेन राजसिकांस्तामसेन च तामसान् ।। ८९ ।।
चक्षुषस्तामसात्पश्चाल्ललाटस्थाद्धरस्य च ।।
संहारकाले संहर्तुरग्निराविर्भवेत्क्रुधा ।। 4.36.९० ।।
कोटितालप्रमाणश्च सूर्यकोटिसमप्रभः ।।
लेलिहानो दीर्घशिखस्त्रैलोक्यं दग्धुमीश्वरः ।।९१।।
विभूतिगात्रः स विभुः सतीसंस्कारभस्मना ।।
धत्ते तस्या अस्थिमालां प्रेमभावेन भस्म च ।। ९२ ।।
स्वात्मारामो यद्यपीशस्तथाऽपि पूर्णमब्दकम् ।।
सतीशवं गृहीत्वा च भ्रामंभ्रामं रुरोद ह ।। ९३ ।।
प्रत्यङ्गं चापि तस्याश्च पपात यत्र यत्र ह ।।
सिद्धपीठस्तत्र तत्र बभूव मन्त्रसिद्धिकृत् ।। ९४ ।।
तदा शवावशेषं च कृत्वा वक्षसि शंकरः ।।
पपात मूर्च्छितो भूत्वा सिद्धिक्षेत्रे च राधिके ।।९५।।
तदा गत्वा महेशं तं कृत्वा क्रोडे प्रबोध्य च ।।
अददां दिव्यतत्त्वं च तस्मै शोकहरं परम्।।९६।।
तदा शिवश्च संतुष्टः स्वं लोकं च जगाम ह ।।
मूर्त्यन्तरेण कालेन तां संप्राप प्रियां सतीम् ।। ९७ ।।
दिव्यस्रग्धारियोगेन नेच्छा नित्ये परे विभोः ।।
जटां तपस्याकालीनां धत्तेऽद्यापि विवेकतः ।।९८।।
न चेच्छा केशसंस्कारे स्वाङ्गवेषेण योगिनः ।।
समता चन्दने पङ्के लोष्टे रत्ने मणीश्वरे।।९९।।
गरुडद्वेषिणो नागाः शंकरं शरणं ययुः ।।
बिभर्ति कृपया स्वाङ्गे तानेव शरणागतान्।।4.36.१००।।
वाहनं वृषरूपोऽहमन्यस्तं वोढुमक्षमः ।।
त्रिपुरस्य वधे पूर्वं मत्कलांशसमुद्भवः ।।१।।
पारिजातादिकं पुष्पसुगन्धि चन्दनादिकम्।।
मयि संन्यस्य तेष्वेवं प्रीतिर्नास्ति कदाचन।।२।।
धत्तूरे तत्सदा प्रीतिर्बिल्वपत्रानुलेपने ।।
गन्धहीने सुगन्धे च योगीष्टे व्याघ्रचर्मणि ।।३।।
दिव्यलोके दिव्यतल्पे जनतायां न तन्मनः।।
श्मशानेऽतीवरहसि ध्यायते मामहर्निशम्।।४।।
आब्रह्मस्तम्बपर्यन्तं समं च मन्यते शिवः।।
ममानिर्वचनीयेऽत्र रूपे तन्मग्नमानसम्।।५।।
ब्रह्मणः पतनेनापि शूलपाणेः क्षणो भवेत् ।।
तस्यायुषः प्रमाणं च नाहं जानामि का श्रुतिः।।६।।
ज्ञानं मृत्युंजयः शूलं धत्ते मत्तेजसा समम् ।।
विना मया न कश्चित्तं शंकरं जेतुमीश्वरः ।। ७ ।।
शंकरः परमात्मा मे प्राणेभ्योऽपि परः शिवः।।
त्र्यम्बके मन्मनः शश्वन्न प्रियो मे भवात्परः ।। ८ ।।
ब्रह्माण्डनिकरं छन्नं मया मन्मायया सदा ।।
स कम्पति हरं शश्वन्न च तं मोहितुं क्षमः ।।९।।
न संवसामि गोलोके वैकुण्ठे तव वक्षसि ।।
सदा शिवस्य हृदये निबद्धः प्रेमपाशतः ।।4.36.११०।।
स्वरसिद्धं सुतानेन पञ्चवक्त्रेण शंकरः ।।
शश्वद्गायति मद्गाथां तेनाहं तत्समीपतः ।।११।।
स्रष्टुं शक्तो हि नष्टुं च भ्रूभङ्गलीलयाऽपि यः।।
ब्रह्माण्डनिकरं योगान्न योगी शंकरात्परः ।।१२।।
दिव्यज्ञानेन यः स्रष्टुं नष्टुं भ्रूभङ्गलीलया ।।
मृत्युं कालादिकं भक्तो न ज्ञानी शंकरात्परः ।। १३।।
मम भक्तिं च दास्यं च मुक्तिं च सर्वसंपदः।।
सर्वसिद्धिं दातुमीशो न दाता शंकरात्परः ।।१४।।
पञ्चवक्त्रेण मन्नाम यो हि गायत्यहर्निशम् ।।
मद्रूपं ध्यायते शश्वन्न भक्तः शंकरात्परः ।। १५ ।।
अहं सुदर्शनं शंभुस्तेजसा च वयं समाः ।।
ब्रह्मा स्रष्टा च योगेन नास्माभिस्तेजसा समः ।।१६।।
इत्येवं कथितं सर्वे शंकरस्य यशोऽमलम् ।।
तथाऽप्यस्य दर्पभङ्गं किं भूयः श्रोतुमिच्छसि ।।११७।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णकृतशंकरप्रशंसा नाम षट्त्रिंशोऽध्यायः ।।३६।।