प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३६ श्रीकृष्णजन्मखण्डः
अध्यायः ०३७
वेदव्यासः
अध्यायः ०३८ →

श्रीराधिकोवाच ।।
एवंभूतस्य च विभोः सर्वेशस्य महात्मनः ।।
न शस्तं कथमुच्छिष्टं ब्रूहि संदेहभञ्जन ।। १ ।।
श्रीकृष्ण उवाच ।।
शृणु देवि प्रवक्ष्येऽहमितिहासं पुरातनम् ।।
पापेन्धनानां दहने ज्वलदाग्निशिखोपमम् ।।२।।
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह ।।
ददर्श भुक्तवन्तं च नाथं नारायणं द्विजः ।।३।।
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा ।।
अवशेषं ददौ तस्मै संतुष्टो भक्तवत्सलः ।। ४ ।।
प्राप्तमात्रेण तत्रैव भुक्तं तेनैव किंचन।।
किंचिद्ररक्ष बंधूनां भक्षणाय च दुर्लभम् ।।५।।
सिद्धाश्रमे च यद्दत्तं गुरवे शूलपाणिने ।।
भक्त्युद्रेकाच्च तत्सर्वं भुक्तं च प्राप्तिमात्रतः।।६।।
भु्क्त्वा सुदुर्लभं वस्तु ननर्त प्रेमविह्वलः ।।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो मुदाऽन्वितः ।।७।।
गायन्मम गुणान्भक्त्या सुकण्ठः पंचवक्त्रतः ।।
रागभेदैकतानेन तालमानेन सुंदरम् ।। ८ ।।
पपात डमरुर्हस्ताच्छृङ्गं च व्याघ्रचर्म च ।।
स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप ह ।। ९ ।।
अतीव कमनीयं तद्रूपं ध्यात्वैकमानमः ।।
सहस्रदलमध्यस्थं मां पश्यन्हृत्सरोरुहे ।। 4.37.१० ।।
एतस्मिन्नन्तरे देवी दुर्गा दुर्गार्तिनाशिनी ।।
मुदाऽऽजगाम शीघ्रं तत्प्रसन्नवदनेक्षणा ।। ११ ।।
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तं च भक्तितः ।।
प्रहस्य वार्तां पप्रच्छ कुमारं शूलपाणिनः ।। १२ ।।
सर्वं तां कथयामास कुमारः संपुटाञ्जलिः ।।
श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ।। ।। १३ ।।
तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः ।।
बोधयामास विविधं तुष्टाव संपुटाञ्जलिः ।। १४ ।।
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा ।।
दुष्टं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ।। १५ ।।
न लोकानां प्रभावश्च तपःसौभाग्यतेजसाम् ।।
ब्रह्माण्डे सर्वसंहर्ता चकंपे पार्वतीभये ।। १६ ।।
उवाच तं जगन्माता नीतिसारं परं वचः ।।
गणप्रसूः सकोपा च रक्तपङ्कजलोचना ।। १७ ।।
अहो तपःप्रभावश्च तेजसश्च न जीविनाम् ।।
स ब्रह्माण्डस्य संहर्ता चकम्पे शैलकन्यका ।। १८ ।।
पार्वत्युवाच।।
त्वं पोष्टा जगतां पाता ममैव च विशेषतः ।।
वक्ता चतुर्णां वेदानां जनकश्च स्वयं विभुः ।। १९ ।।
मुक्तिप्रदाता भक्तानां दाता च सर्वसंपदाम् ।।
त्वं चेत्करोषि दुर्नीतिं को वा धर्मं च पाति वै ।।4.37.२०।।
सदा ते परिपाल्याऽहं पोष्या भक्त्या च किंकरी ।।
वंचिता कर्मदोषेण हरनिर्माल्यभक्षणे ।। २१ ।।
किंचिच्छुद्धं हिरण्येन किंचिद्वस्तु च वायुना ।।
किंचित्प्रक्षालनेनैव सर्वं विष्णोर्निवेदनात् ।। २२ ।।
विष्णोर्निवेदितान्नेन यष्टव्याः सर्वदेवताः ।।
पितरोऽतिथयश्चैवमिति वेदेषु निश्चितम् ।। २३ ।।
अनिवेद्यमभक्ष्यं च नैवेद्यमुदरे हरेः ।।
त्यक्त्वा करोति यो भक्त्या पार्षदप्रवरो भवेत् ।। २४ ।।
अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम् ।।
विष्णोर्निवेदितान्नस्य कलां नार्हति षोडशीम् ।। २५ ।।
हन्त्यकालिकमृत्युं तदमृतं मूढरंजनम् ।।
नैवेद्यं च हरेरेव हरितुल्यं करोत्यहो ।। २६ ।।
यदृच्छया तं नैवेद्यं यो भुङ्क्ते साधुसंगतः ।।
षष्टिवर्षसहस्राणां प्राप्नोति तपसः फलम् ।। २७ ।।
यो निवेद्य हरिं भुङ्क्ते भक्त्या भक्तश्च नित्यशः।।
किं वा तपस्यां कर्ता च स हरेस्तेजसा समः ।।२८।।
श्रुतं पुरा त्वन्मुखतः पुष्करे मुनिसंसदि ।।
अहं वेदविधाता न किमहं वक्तुमीश्वरी ।। ।। २९ ।।
सुचिरं च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ।।
त्वया विष्णोः प्रसादेन वंचिताऽहं कथं प्रभो ।। 4.37.३० ।।
यतो न दत्तं नैवद्यं विष्णोर्मह्यं त्वयाऽधुना।।
अतो मत्तो गृहाणैतत्फलमेव महेश्वर ।। ३१ ।।
अद्यप्रभृति ये लोका नैवेद्यं भुञ्जते तव ।।
ते जन्मैकं सारमेया भविष्यन्त्येव भारते ।।३२।।
इत्युक्त्वा पार्वती माता रुरोद पुरतो विभोः ।।
दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव ह ।।३३।।
तदा शिवः शिवां भक्त्या कृत्वा वक्षसि सादरम् ।।
तन्मानभङ्गं स्तोत्रेण विनयेन चकार ह ।। ३४ ।।
करेण चक्षुषोर्नीरं संमृज्य च पुनःपुनः ।।
बोधयामास विविधैर्नीतिवाक्यैर्मनोहरैः ।। ३५ ।।
परितुष्टा च सा देवी भर्तारं समुवाच ह ।।
कलेवरं च त्यक्ष्यामि नैवेद्येन विना हरेः ।। ३६ ।।
बिभर्ति देहं सततं तव सौभाग्यवर्द्धनम् ।।
कथं वहामि सौभाग्यरहितं च कलेवरम् ।। ३७ ।।
अपूर्वं तव नैवेद्यं जन्ममृत्युजराहरम् ।।
कृतं दुष्टं च यत्तस्मात्पश्य देहं त्यजामि च ।। ३८ ।।
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ।।
सुपवित्रं भवेत्तस्य विष्णोर्नैवेद्यमिश्रितम् ।। ३९ ।।
इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता ।।
त्रस्तो हरस्तत्पुरतः स्तुत्वा च स्वीचकार ह ।। 4.37.४० ।।
शंकर उवाच ।।
स्थिरा भव महादेवि चण्डिके जगदंबिके ।।
ममापराधमखिलं क्षन्तुमर्हसि सुन्दरि ।। ।। ४१ ।।
मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि ।।
ब्रह्मविष्णुमहेशानां बीजभूते सनातनि ।। ४२ ।।
अहो गोलोकनाथस्थ गुणातीतस्य निर्गुणे ।।
सर्वशक्तिस्वरूपे च सदैव सहचारिणि ।। ४३ ।।
साकारे च निराकारे नित्ये स्वेच्छामये प्रिये ।।
कृपया तद्विभोरेव मम वक्षसि सांप्रतम् ।। ४४ ।।
सर्वबीजस्वरूपे च महामाये मनोहरे ।।
सर्वसिद्धिप्रदे देवि मुक्तिदे कृष्णभक्तिदे ।। ४५
इच्छैव श्रीहरेः साक्षान्नाहं दातुमपि क्षमः ।।
तदा देहं परित्यज्य निर्गुणं व्रज निर्गुणे ।। ४६ ।।
इत्येवमुक्त्वा पुरतस्तस्थौ च चन्द्रशेखरः ।।
बभूव सुप्रसन्ना सा प्रणनाम हरं परम् ।। ४७ ।।
इत्येवं पार्वतीस्तोत्रं शङ्करेण कृतं पुरा ।।
यः पठेद्विपदा ग्रस्तः स भयादेव मुच्यते।।४८।।
मित्रभेदो भवेद् दूरं तत्संम्प्रीतिर्भवेत्पुरा ।।
पार्वती परितुष्टा च न त्यजेत्तस्य मन्दिरम् ।। ४९ ।।
।। श्रीकृष्ण उवाच ।।
श्रुत्वा प्रतिज्ञां नाथस्य परितुष्टा बभूव सा ।।
जगाम स्वर्णदीं तूर्णं स्नानार्थं शंकराज्ञया ।। 4.37.५० ।।
स्नात्वा संपूज्य भक्त्या च सुरमिष्टं च निर्गुणम् ।।
चकार प्रस्तुतं शीघ्रं मिष्टान्नं व्यञ्जनानि च ।। ५१ ।।
शिवः स्नात्वा च संपूज्य ब्रह्मज्योतिः सनातनम् ।।
तुष्टाव परया भक्त्या मामेव हृदयस्थितम् ।। ५२ ।।
गत्वा सर्वमहं भुक्त्वा तस्मै दत्त्वाऽभिवाञ्छितम् ।।
नैवेद्यं पार्वती लेभे तव मूलं समागता ।। ५३ ।।
भुक्त्वाऽवशेषं सा देवी सह भर्त्रा मुदाऽन्विता ।।
तुष्टाव शङ्करं भक्त्या प्रणनाम मुहुर्मुहुः ।। ५४ ।।
इत्येवं कथितं सर्वं त्वया पृष्टं सुरेश्वरि ।।
अभिशप्तं शङ्करस्य निर्माल्यं येन हेतुना ।। ५५ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे हरनिर्माल्यशापप्रसङ्गो नाम सप्तत्रिंशोऽध्यायः ।।३७ ।।