प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३८ श्रीकृष्णजन्मखण्डः
अध्यायः ०३९
वेदव्यासः
अध्यायः ०४० →


।। श्रीकृष्ण उवाच ।।
इति स्तुत्वा हिमगिरिर्वसतः शङ्करस्य च ।।
उवास पुरतो दूरे लब्धाज्ञः सर्वसंमतः ।। १ ।।
मधुपर्कादिकं तस्मै प्रददौ भक्तिपूर्वकम् ।।
मुनीन्संपूजयामास ततः शङ्करपार्षदान् ।। २ ।।
तदा तत्र समागत्य मेनका स्त्रीगणैः सह ।।
ददर्श वटमूलस्थं शङ्करं चन्द्रशेखरम् ।। ३ ।।
ईषद्धास्यप्रसन्नास्यं वसन्तं व्याघ्रचर्मणि ।।
मध्ये मुनिगणानां च ज्वलन्तं ब्रह्मतेजसा ।।४।।
यथाऽऽकाशे तारकाणां द्विजराजं विराजितम् ।।
परमाह्लादकं रूपं कंदर्पकोटिसन्निभम् ।।५।।
विहाय वार्द्धकावस्थां दधतं नवयौवनम् ।।
अतीव सुन्दरं रम्यं चित्तचोरं च योषिताम् ।। ६ ।।
कामं कामातुराणां च सतीनां च सुतं यथा ।।
वैष्णवानां महाविष्णुं शैवानां च सदाशिवम् ।। ७ ।।
शक्तिस्वरूपं शाक्तानां सौराणां सूर्यरूपिणम् ।।
कालस्वरूपं दुष्टानां शिष्टानां परिपालकम्।।८।।
कालकालसमं मृत्योर्मृत्युमृत्यु भयानकम् ।।
व्याघ्रचर्म चारुवस्त्रं बभूव भस्म चंदनम्।।९।।
सर्पाः सुंदरमाल्यानि कस्तूरी या विषप्रभा ।।
जटासु ललिता चूडा चंद्रस्त्वलिकचंदनम् ।। 4.39.१० ।।
सुचार्वी मालतीमाला गंगाधारा मनोहरा ।।
अस्थिमाला रत्नमाला धत्तूरं चारुचंपकम् ।।११।।
एकीभूतं पंचवक्त्रं नेत्रयुग्माब्जशोभितम् ।।
शरत्पार्वणचंद्राभं प्रच्छाद्य दीप्तमुत्तमम्।। १२ ।।
बंधुजीवविनिंद्यैकमोष्ठाधरमनोहरम् ।।
श्वेतश्चन्द्रो वृषेंद्रश्च भूताद्या नर्तका इव ।।१३।।
सद्यो व्यतिक्रमं सर्वं महेशस्य महेश्वरि ।।
दृष्ट्वैवं शिवरूपं च मेना तुष्टा बभूव ह ।।१४।।
काश्चिन्निमेषरहिताः कामेन पुलकांचिताः ।।
अतिकामातुराः सत्यः प्रापुर्मूर्च्छां च काश्चन ।। ।। १९ ।।
काश्चिद्विनिंद्य कांतांश्च प्रशशंसुर्महेश्वरम् ।।
मनोरथेन मनसा समाश्लिष्यंति काश्चन ।। १६ ।।
काचिन्मानसिकं कामात्कुर्वन्ती चुम्बनं मुदा ।।
ध्रुवं कामं करिष्यामो वयं च कामसागरे ।। १७ ।।
अस्माकमेव भर्ता चेत्परत्रैव यशो भवेत् ।।
इहैवं किं करिष्यामो वयं कांतैरतैरलम् ।। १८ ।।
दृष्ट्वा तमेवं सुचिरमिति जल्पंति काश्चन ।।
काश्चिद्दृष्ट्वा शिवं किंचिन्मुखमाच्छाद्य वाससा ।। १९ ।।
सस्मिता वक्रनयनाः पश्यंत्येव पुनःपुनः ।।
वयं गृहं न यास्यामो यास्यामः शिवसन्निधिम् ।। 4.39.२० ।।
शरत्सुधांशुवदनं द्रक्ष्यामोऽहर्निशं मुदा ।।
संसारं न करिष्यामः प्रविशामो हुताशनम् ।।२१ ।।
भविता नः शिवः स्वामीत्येवं जल्पंति काश्चन ।।
अहो पुण्यवती दुर्गा श्लाघ्यते जन्म भारते ।। २२ ।।
यस्या अयं शिवः स्वामीत्येवं जल्पंति काश्चन ।।
मुदा मेना शिवं दृष्ट्वा गृहं ताभिर्जगाम ह ।। २३ ।।
शिवं संपूज्य शैलेंद्रः प्रणम्य स्वगृहं ययौ ।।
कृत्वाऽनुमानं रहसि गिरीशो मेनया सह ।। २४ ।।
दुर्गां प्रस्थापयामास शिवाय शिवसन्निधिम् ।।
पार्वती सखिभिः सार्द्धं वेषं कृत्वा मनोहरम् ।। २५ ।।
भावानुरक्ता हर्षेण जगाम शिवसंनिधिम् ।।
दृष्ट्वा शिवा शिवं शांतं प्रसन्नवदनेक्षणम् ।। २६ ।।
सप्तप्रदक्षिणं कृत्वा सस्मिता प्रणनाम सा ।।
अनन्यभावं गुणिनमपरं ज्ञानिनां वरम् ।। २७ ।।
सुंदरं लभ भर्तारं सुन्दरीत्याशिषं ददौ ।।
भविता तव सौभाग्यं शुभे स्वामिनि संततम् ।। २८।।
पुत्रस्ते भविता साध्वि नारायणसमो गुणैः ।।
भविता ते परा पूजा त्रैलोक्ये जगदम्बिके ।।२९।।
ब्रह्माण्डेषु च सर्वेषु सर्वेषां च परा भव ।।
सप्तप्रदक्षिणाः कृत्वा यतो भक्त्या त्वया नतम् ।।4.39.३०।।
सप्तजन्मनि तुष्टोऽहं तत्फलं लभ सुन्दरि ।।
तीर्थे कान्तेऽभीष्टदेवे गुरौ मन्त्रे तथौषधे ।। ३१ ।।
आस्था च यादृशी यासां सिद्धिस्तासां च तादृशी ।।
इत्युक्त्वा शङ्करस्तूर्णं ब्रह्मज्योतिः परं च माम् ।। ३२ ।।
दध्यौ योगासनं कृत्वा योगीशो व्याघ्रचर्मणि ।।
प्रक्षाल्य चरणौ देवी पपौ तच्चरणोदकम् ।। ३३ ।।
चकार मार्जनं भक्त्या वह्निशौचेन वाससा ।।
रत्नसिंहासनं रम्यं विश्वकर्मादिनिर्मितम् ।।३४।।
अपूर्वं कांस्यपात्रस्थं नैवेद्यं प्रददौ किल ।।
अर्घ्यं मंदाकिनीतोय संयुक्तं चरणे ददौ ।।३५।।
सुगन्धिचन्दनं चारु कस्तूरीकुङ्कुमान्वितम् ।।
प्रददौ मालतीमालां गले गरलसुन्दरे ।।३६।।
भक्त्या पूजां चकाराथ पुष्पवृष्टिं च तुष्टये ।।
पीयूषं स्वर्णपात्रस्थं प्रददौ मधुरं मधु ।। ३७ ।।
रत्नप्रदीपशतकं समन्ताद्धूपमुत्तमम् ।।
त्रैलोक्यदुर्लभं वस्त्रं स्वर्णयज्ञोपवीतकम् ।। ३८ ।।
सुगन्धिशीततोयं च पानार्थं पार्वती ददौ ।।
अतीव सुन्दरं रम्यं रत्नसारेन्द्रभूषणम्।।३९।।
दुर्लभां कामधेनुं च स्वर्णशृङ्गसमन्विताम् ।।
स्नानीयं तीर्थतोयं च ताम्बूलं च मनोहरम् ।। 4.39.४० ।।
दत्त्वा षोडशोपचारं प्रणनाम पुनः पुनः ।।
संपूज्य शूलिनं भक्त्या ययौ नित्यं पितुर्गृहम् ।।४१।।
शुश्रावाप्सरसां वक्त्राद्देवीमिन्द्रो महेश्वरः ।।
श्रुत्वा वार्तां शुनासीरो ननर्त हर्षसंयुतः ।। ४२ ।।
दूतद्वारा कामदेवमानिनाय त्वरान्वितः ।।
इन्द्राज्ञया कामदेवः प्रजगामामरावतीम् ।। ४३ ।।
तूर्णं प्रस्थापयामास तं च यत्र शिवः शिवा ।।
पञ्चसायकसंयुक्तो जगाम पञ्चसायकः ।।४४।।
प्रसन्नवदनः श्रीमान्यत्र शक्तियुतः शिवः।।
गत्वा ददर्श मदनः शिवायुक्तं शिवं विभुम्।।४५।।
शान्तं त्रैलोक्यकान्तं च प्रसन्नवदनेक्षणम्।।
कामः स्थितोऽन्तरिक्षे च धृत्वा च सशरं धनुः ।। ४६ ।।
चिक्षेपास्त्रं दुर्निवार्यममोघं शंकरे मुदा ।।
बभूवामोघमस्त्रं च मोघं तत्परमात्मनि।।४७।।
आकाश इव निर्लिप्ते निर्लिप्ते परमात्मनि ।।
मोघीभूते च शस्त्रे च भयमाप च मन्मथः ।। ४८ ।।
चकम्पे पुरतः स्थित्वा दृष्ट्वा मृत्युंजयं विभुम् ।।
सस्मार त्रिदशान्कामः शक्रादीन्भयविह्वलः ।।।४९।।।
आययुर्देवताः सर्वाः शंभुकोपेन वेपिताः।।
चक्रुः स्तुतिं च स्तोत्रेण शंकरं त्रिदशेश्वरम् ।।4.39.५०.।।
कोपाग्निमुद्गिरन्तं तं कपाललोचनादहो ।।
स्तुतिं कुर्वत्सु देवेषु स वह्निः शंभुसंभवः।।५१।।
जज्वालोर्ध्वशिखो दीप्तः प्रलयाग्निशिखोपमः ।।
उत्पत्य गगने घूर्णन्निपत्य धरणीतले ।।
भ्रामंभ्रामं च परितः पपात मदनोपरि ।। ५२ ।।
बभूव भस्मसात्कामः क्षणेन हरकोपतः।।
विषण्णा देवताः सर्वा नतवक्त्रा च पार्वती ।।५३।।
विललाप बहुतरं हरस्य पुरतो रतिः ।।
तुष्टुवुर्देवताः सर्वाः कम्पिताश्चन्द्रशेखरम् ।। ५४ ।।
रतिमूचुः सुराः सर्वे रुरुदुश्च मुहुर्मुहुः ।।
किंचिद्भस्म गृहीत्वा च रक्ष मातर्भयं त्यज ।।५५।।
वयं तं जीवयिष्यामो लभिष्यसि प्रियं पुनः ।।
हरकोपापनयने सुप्रसन्ने दिने तथा ।।५६।।
दृष्ट्वा रतेर्विलापं च मूर्च्छां संप्राप पार्वती ।।
अतीन्द्रियं गुणातीतं तुष्टाव चन्द्रशेखरम्।।५७।।
रुदन्तीं पार्वतीं त्यक्त्वा स्वस्थानं प्रययौ शिवः।।
सद्यो बभूव तत्रैव पार्वतीदर्पमोक्षणम्।।५८।।
रूपयौवनयोर्गर्वं तत्याज शैलकन्यका ।।
मुखं दर्शयितुं लज्जा तद्बभूव सखीगणे ।। ५९ ।।
सुराश्च रतिमाश्वास्य सर्वे जग्मुः स्वमन्दिरम् ।।
प्रणम्य दण्डवद्रुद्रं शोकादुद्विग्नमानसाः ।।4.39.६०।।
स्तुत्वा रुदित्वा शोकेन भयेन कामकामिनी ।।
कोपरक्तेक्षणं रुद्रं राधिके स्वालयं ययौ ।। ६१ ।।
न जगाम पितुर्गेहं पार्वती सा तु लज्जया ।।
स्वालिभिर्वार्यमाणाऽपि जगाम तपसे वनम् ।। ६२ ।।
प्रजग्मुः सहचारिण्यस्तत्पश्चाच्छोकविह्वलाः ।।
मातृभिर्वार्यमाणा सा स्वर्णदीतीरजं वनम् ।।६३।।
सुचिरं च तपस्तप्त्वा सा संप्राप त्रिलोचनम् ।।
रतिः संप्राप मदनं शंकरस्य वरेण च ।। ६४ ।।
इत्येवं कथितं सर्वं पार्वतीदर्पमोक्षणम् ।।
निगूढचरितं राधे किं भूयः श्रोतुमिच्छसि ।। ६५ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे एकोनचत्वारिंशोऽध्यायः ।। ३९ ।।