प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०३९ श्रीकृष्णजन्मखण्डः
अध्यायः ०४०
वेदव्यासः
अध्यायः ०४१ →


श्रीराधिकोवाच ।।
अहो विचित्रं चरितमपूर्वं किं श्रुतं विभो ।।
सुन्दरं श्रुतिपीयूषं निगूढं ज्ञानकारणम् ।। १ ।।
न विशेषं समासं च श्रुतं न व्यासमीप्सितम् ।।
अधुना श्रोतुमिच्छामि विस्तीर्णं कथय प्रभो ।। २ ।।
किं किं तपः कठोरं च चकार पार्वती स्वयम् ।।
कं कं वरं वा संप्राप्य कथमाप महेश्वरम् ।।३।।
रतिः केन प्रकारेण जीवयामास मन्मथम् ।।
पार्वतीशिवयोः कृष्ण विवाहं वर्णय प्रभो ।। ४ ।।
तयो रहसि संभोगं पापिनां पापमोचनम् ।।
कथ्यतां करुणासिन्धो दुःखिनां दुःखमोचनम्।।५।।
दम्पतीविरहोक्तिश्च कर्णज्वाला च योषितः ।।
श्रोतुं कौतूहलं कृष्ण पुनः संमेलनं तयोः ।। ६ ।।
अग्निज्वाला विषज्वाला क्षमा सोढुं च योषितः ।।
दम्पतीविरहज्वाला न श्रोतुं च क्षणं क्षमा ।।७ ।।
राधिकावचनं श्रुत्वा विस्मितश्चकिताननः ।।
विस्तीर्णं वक्तुमारेभे हृदयेन विदूयता ।। ८ ।।
दम्पतीविरहोक्तिं च यां राधा श्रोतुमक्षमा ।।
विच्छेदे शतवर्षीये किमस्या भविता मम ।। ९ ।।
इत्येवं मानसे कृत्वा मायेशो माययाऽन्वितः ।।
कृपासिन्धुश्च कृपया कथां कथितुमुद्यतः ।। 4.40.१० ।।
श्रीकृष्ण उवाच ।।
प्राणाधिके राधिके त्वं श्रूयतां प्राणवल्लभे ।।
प्राणाधिदेवि प्राणेशि प्राणाधारे मनोहरे ।।११।।
वटमूलाद्गते रुद्रे पार्वती तपसे ययौ ।।
पुनः पुनः स्वमात्रा च पित्रा च विनिवारिता।।१२।।
गत्वा सा स्वर्णदीतीरं स्नात्वा त्रिषवणं मुदा ।।
संदेशे च मया दत्तं जजाप तं मनुं मुदा।।१३।।
वर्षमेकं च संपूर्णमनाहारा स्वभक्तितः।।
तप्त्वा तपः कठोरं च चकार जगदम्बिका ।। १४ ।।
ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम्।। ।।
कृत्वा प्रतस्थौ तन्मध्ये संततं जपती मनुम्।।१५।।
शश्वत्स्मशाने वर्षासु कृत्वा योगासनं शिवा।।
शिलां दृष्ट्वा च संसिक्ता बभूव जलधारया ।।१६।।
शीते जलान्तरे शश्वत्प्रतस्थौ भक्तिपूर्वकम् ।।
अनाहारा शरद्रौद्रनीहारासु दिशासु च।।१७।।
एवं कृत्वा परं वर्षमप्राप्य शंकरं सती।।
शुचा कृत्वाऽग्निकुण्डं च प्रवेष्टुं सा समुद्यता।।१८।।
तामग्निकुण्डं विशतीं तपसाऽतिकृशां सतीम्।।
दृष्ट्वा शिवः कृपासिन्धुः कृपया तां जगाम ह ।।१९।।
अतीव वामनो बालो विप्ररूपी स्वतेजसा ।।
प्रज्वलन्मनसा हृष्टो दण्डी छत्री जटाधरः ।। 4.40.२० ।।
शुक्लयज्ञोपवीती च शुक्लवासाश्च सस्मितः ।।
श्वेताब्जबीजमालां च बिभ्रत्तिलकमुज्ज्वलम् ।। २१ ।।
निर्जने बालकं दृष्ट्वा स्निग्धा सापि जगाद ह ।।
तत्तेजसाऽतिप्रच्छन्ना तत्याज च तपः स्वयम् ।।२२।।
को भवानिति पप्रच्छ तं शिशुं पुरतः स्थितम् ।।
मनसाऽलिङ्गनं कर्तुमिच्छन्ती परमादरम्।।२३।।
श्रुत्वा शैलसुता प्रश्नं प्रहस्य परमेश्वरः ।।
उवाचातीव मधुरं कर्णपीयूषमीश्वरीम् ।। २४ ।।
शंकर उवाच ।।
इच्छागामी बटुरहं तपस्वी विप्रबालकः ।।
का त्वं कान्ताऽतिकान्तारे तपश्चरसि सुन्दरि ।। २५ ।।
वद कस्य कुले जाता कस्य कन्या च काऽभिधा ।।
तपसः फलदात्री त्वं कस्माद्धेतोस्तपस्तव ।। २६ ।।
अहो वा तपसां राशिः स्वयं मूर्तिमती सती। ।।
तपो वा लोकशिक्षार्थं करोषि कमलेक्षणे ।। २७ ।।
स्वयं तेजःस्वरूपा वा मूलप्रकृतिरीश्वरी ।।
विधाय भक्तध्यानार्थं विग्रहं भारते जनुः ।। २८ ।।
किं वा त्रिलोके लक्ष्मीस्त्वं संपद्रूपा सनातनी ।।
रक्षां विधातुं जगतामागता धातुरन्तिके ।।२९।।
किं वाम्बिका त्वं देवानां स्वयं मूर्तिमती सती ।।
सावित्री भारते जन्म स्वेच्छया लब्धुमागता ।। 4.40.३० ।।
रागाधिष्ठातृदेवी वा स्वयं साक्षात्सरस्वती ।।
सर्वविद्याः प्रकटितुं स्वेच्छया जन्म भारते।।३१।।
एतासु मध्ये का वा त्वं नाहं तर्कितुमीश्वरः ।।
या सा भवति कल्याणि परितुष्टा च मां भव ।। ३२ ।।
सति त्वयि प्रसन्नायां प्रसन्नः परमेश्वरः ।।
पतिव्रतायां तुष्टायां तुष्टो नारायणः स्वयम् ।। ३३ ।।
तुष्टे नारायणे देवे शश्वत्तुष्टं जगत्त्रयम् ।।
तरुमूलेषु सिक्तेषु शाखाः सिक्ता यथा प्रिये ।। ३४ ।।
शिशोस्तद्वचनं श्रुत्वा प्रहस्य परमेश्वरी ।।
उवाच वचनं चारु कर्णपीयूषमीश्वरी ।। ३५ ।।
पार्वत्युवाच ।। नाहं वेदप्रसूर्लक्ष्मीर्वागधिष्ठातृदेवता ।।
जन्म मे भारते वर्षे साम्प्रतं शैलकन्यका ।। ३६ ।।
पूर्वं जन्म दक्षगेहे सती शंकरकामिनी ।।
योगेन त्यक्तदेहाऽहं तातभर्तृविनिन्दया ।। ३७ ।।
अत्र जन्मनि पुण्येन सम्प्राप्ते शंकरे द्विज ।।
मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह ।। ३८ ।।
प्रयाते शंकरे तापाद्व्रीडयाऽहं पितुर्गृहात् ।।
आगमत्तपसे चित्तं ममेदं स्वर्णदीतटे ।। ३९ ।।
तपः कृत्वा कठोरं च सुचिरं प्राणवल्लभम् ।।
अप्राप्याग्निं प्रवेष्टुं च त्वां च दृष्ट्वा क्षणं स्थिता ।। 4.40.४० ।।
गच्छ त्वं प्रविशाम्यग्नौ प्रलयाग्निशिखोपमे ।।
कृत्वा स्वकामनां विप्र हरप्राप्तिमनीषितम् ।। ४१ ।।
यत्र यत्र जनुर्लब्ध्वा लभिष्यामि शिवं परम् ।।
प्राणाधिकं प्रियं कान्तं विभुं जन्मनि जन्मनि ।।४२।।
सर्वा हि स्वप्रियं लब्धुं लभन्ति जन्म वाञ्छितम् ।।
तज्जन्म पतिलाभार्थं सर्वासां च श्रुतौ श्रुतम् ।। ४३ ।।
प्राक्तनीयो हि यो भर्ता स तासां प्रतिजन्मनि ।।
या स्त्री येषां सुनियता सा तेषां जन्मजन्मनि ।। ४४ ।।
तद्देहमिह न प्राप्य कृत्वा घोरतरं तपः ।।
कृत्वाऽग्निकुण्डे काम्यं च लभिष्यामि परत्र तम् ।।४५।।
इत्युक्त्वा पार्वती तत्र तत्पुरः प्रविवेश ह ।।
निषिध्यमाना पुरतो ब्राह्मणेन पुनः पुनः।।४६।।
वह्निप्रवेशं कुर्वन्त्याः पार्वत्याः परमेश्वरि ।।
बभूव तपसा सद्यो वह्निश्चन्दनवद्ध्रुवम्।। ।। ४७ ।।
क्षणं तदन्तरे स्थित्वा चोत्पतन्तीं शिवां शिवः ।।
पुनः प्रपच्छ सहसा वृन्दावनविनोदिनि ।।४८ ।।
श्रीमहादेव उवाच ।।
अहो तपस्ते किं भद्रे न बुद्धं किंचिदेव हि ।।
न दग्धो वह्निना देहो न च प्राप्तो मनीषितः ।। ४९ ।।
शिवं कल्याणरूपं च भर्तारं कर्तुमिच्छसि।।
अविग्रहं पतिं कृत्वा किं वा ते वाञ्छितं भवेत् ।।4.40.५०।।
संहर्तारं च भर्तारं यदीच्छसि शुचिस्मिते ।।
कान्तमिच्छति का वा स्त्री सर्वसंहारकारणम् ।।५१।।
मोक्षं वाञ्छसि चेद्देवि कृत्वा कान्तं स्वरूपिणम् ।।
सर्वमुक्तिप्रदा त्वं च तपस्या विफला तव।। ।। ५२ ।।
शिवश्च मङ्गले मोक्षे संहर्ता न च दृश्यते ।।
शिवशब्दस्य चान्योऽर्थो न हि वेदे निरूपितः ।। ५३ ।।
तं च संहारकर्तारं यदि वाञ्छसि सुन्दरि ।।
लभिष्यसे रतं रुद्रं सर्वलोकभयंकरम् ।।५४।।
न भविष्यति मोक्षस्ते स्वाभीष्टं देवसेवनम् ।।
हरिस्मृतिरमोघा च सर्वमंगलदा सदा ।।५५ ।।
शीघ्रं पितुर्गृहं गच्छ तत्र द्रक्ष्यसि शंकरम् ।।
ममाशिषा स्वतपसां फलेन च सुदुर्लभम्।।५६।।
इत्युक्त्वा पार्वतीं विप्रस्तत्रैवान्तरधीयत ।।
दुर्गा ययौ पितुर्गेहं महादेवेति वादिनी।।५७।।
पार्वत्यागमनं श्रुत्वा मेनका च हिमालयः ।।
दिव्यं यानं पुरस्कृत्य प्रययौ हर्षविह्वलः ।। ५८ ।।
संस्थाप्य मंगलघटान्राजवर्त्मनि राधिके ।।
चन्दनागुरुकस्तूरीफलशाखासमन्वितान् ।। ५९ ।।
पट्टसूत्रसन्निबद्धरसालपल्लवान्वितैः ।।
परितः परितो रम्भास्तम्भवृन्दसमन्विते ।। 4.40.६० ।।
पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ।।
पूर्णैर्लाजाधान्यदूर्वाफलपुष्पसमन्वितैः ।।६१।।
सुपुण्यैर्ब्राह्मणैश्चापि मुनिभिर्ब्रह्मचारिभिः ।।
नटीभिर्नर्तकीभिश्च गजेन्द्रैः परिशोभिते ।। ६२ ।।
पुरोहितैश्च संयुक्तैः कुर्वद्भिर्मङ्गलध्वनिम् ।।
सुचारुमालतीमालाहस्तैः शस्तैः प्रशंसितैः ६३ ।।
नानाप्रकारवाद्यैश्च शंखध्वनिसुनादितैः।।
सिन्दूररेणुभिश्चारुचन्दनद्रवपङ्किलम् ।। ६४ ।।
प्रविश्य नगरं दुर्गा ददर्श पितरौ पुरः ।।
सुप्रसन्नौ प्रधावन्तौ हर्षाश्रुपुलकान्वितौ ।। ६५ ।।
प्रसन्नवदना देवी चालिभिः प्रणनाम तौ ।।
संयुज्याथाशिषं तौ च चक्रतुस्तां च वक्षसि ।। ।। ६६ ।।
हे वत्से वत्सेत्युच्चार्य रुदन्तौ प्रेमविह्वलौ।।
तदा तां च रथे कृत्वा जग्मतुर्निजमन्दिरम् ।। ६७ ।।
स्त्रियो निर्मंच्छनं चक्रुर्विप्रा युयुजुराशिषम्।।
ब्राह्मणेभ्यश्च बन्दिभ्यः पर्वतेन्द्रो धनं ददौ।।६८।।
मङ्गलं कारयामास पाठयामास छान्दसम् ।।
एवं स्वकन्यया सार्द्धं तस्थतुस्तौ स्वमन्दिरे ।। ६९ ।।
सुखेन वसतौ तौ हि हर्षनिर्भरमानसौ ।।
एकदा च तपः कर्तुं जगाम स्वर्णदीं गिरिः ।। 4.40.७० ।।
मेनकाकन्यया सार्द्धमुवास प्राङ्गणे मुदा ।।
एतस्मिन्नन्तरे भिक्षुर्नर्तकश्च सुगायनः ।।७१।।
सहसैक आजगाम मेनकासन्निधिं मुदा ।।
शृङ्गवाद्यं वामहस्ते डमरुं दक्षिणे तथा ।।७२।।
कृत्वा विभूतिगात्रोऽतिवृद्धोऽतीव जरातुरः ।।
पृष्ठकन्थो रक्तवासाः सुकण्ठोऽतिमनोहरः ।। ७३ ।।
जगौ मम गुणाख्यानं कृत्वा नृत्यं मनोहरम् ।।
वादयामास शृङ्गं च क्षणं डमरुकं तथा ।। ७४ ।।
आजग्मुर्नागरा बाला बालिका हर्षविह्वलाः ।।
वृद्धा युवानो युवतीसमूहो वृद्धयोषितः ।। ७५ ।।
श्रुत्वा तु सुन्दरं गीतं सुतानस्वरसंयुतम् ।।
सहसा मुमुहुः सर्वे तेन मूर्च्छामवाप्नुवन् ।।७६।।
मूर्छां संप्राप सा दुर्गा ददर्श हृदि शङ्करम् ।।
त्रिशूलपट्टिशकरं व्याघ्रचर्मधरं परम् ।।७७।।
विभूतिभूषणं रम्यमस्थिमालां सुनिर्मलाम् ।।
ईषद्धास्यप्रसन्नास्यं सुप्रसन्नं त्रिलोचनम् ।। ७८ ।।
मालाहस्तं पंचवक्त्रं नागयज्ञोपवीतकम्।।
वरं वृण्वित्युक्तवन्तं सुन्दरं चन्द्रशेखरम्।।७९।।
हृदयस्थं हरं दृष्ट्वा मनसा तं ननाम सा ।।
वरं वव्रे मानसे सा त्वं पतिर्मे भवेति च ।। 4.40.८० ।।
एवं दत्त्वा शिवस्तस्य चान्तर्धानं चकार सः ।।
न दृष्ट्वा हृदि तं दुर्गा संप्राप्य चेतनां पुनः ।। ८१ ।।
ददर्श चक्षुरुन्मील्य भिक्षुकं गायकं पुरः ।।
नृत्यसंगीततः सा तु भिक्षुकस्य च मेनका ।।८२।।
दातुं ययौ सा रत्नानि स्वर्णपात्रस्थितानि च ।।
भिक्षां ययाचे भिक्षुस्तां दुर्गां नान्यां गृहीतवान् ।। ८३ ।।
पुनश्च नर्तनं कर्तुमुद्यतः कौतुकेन च ।।
मेना तद्वचनं श्रुत्वा चुकोप विस्मयं ययौ ।। ८४ ।।
भिक्षुकं भर्त्सयामास बहिः कर्तुमुवाच तम् ।।
पत्नी त्रिलोकनाथस्य शिवस्य परमात्मनः ।। ८५ ।।
याञ्चामिमां प्रकुर्वन्तं दूरं कुरु सुभाषिणम्।।
एतस्मिन्नन्तरे तप्त्वा गिरिः स्वालयमाययौ।।८६।।
ददर्श पुरतो भिक्षुं प्राङ्गणस्थं मनोहरम्।।
कृत्वा नारायणार्चां च गङ्गातीरे मनोहरे ।।८७।।
तन्मूर्तिध्यानविश्लेषशोकादुद्विग्नमानसः ।।
श्रुत्वा मेनामुखाद्वार्तां जहास च चुकोप सः ।।८८।।
आज्ञां चकार स्वचरं बहिः कर्तुं च भिक्षुकम् ।।
आकाशामिव दुःस्पर्शं प्रज्वलन्तं स्वतेजसा ।।।८९।।
न शशाक बहिः कर्तुं समीपं गन्तुमक्षमः।।
ददर्श भिक्षुकं शैलः क्षणं चारुचतुर्भुजम्।।4.40.९०।।
किरीटिनं कुण्डलिनं पीताम्बरधरं परम्।।
सुवेषं सुन्दरश्याममीषद्धास्यं मनोहरम् ।। ९१ ।।
चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकातरम् ।।
यद्यत्पुष्पं प्रदत्तं च पूजाकाले गदाभृते ।। ९२ ।।
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ।।
धूपः प्रदीपो यो दत्तो नैवेद्यं वा मनोहरम् ।। ९३ ।।
ददर्श शैलस्तत्सर्वं भिक्षुकस्य पुरः स्थितम्।।
क्षणं ददर्श द्विभुजं विनोदमुरलीकरम् ।। ९४ ।।
गोपवेषं किशोरं च सस्मितं श्यामसुन्दरम् ।।
मयूरपिच्छचूडं च रत्नालंकारभूषितम् ।। ।। ९५ ।।
चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम् ।।
क्षणं ददर्श स्वच्छं च शंकरं चंद्रशेखरम्।। ९६ ।।
त्रिशूलपट्टिशकरं व्याघ्रचर्माम्बरं परम् ।।
विभूतिगात्रममलमस्थिमालाविभूषितम् ।। ९७ ।।
नागयज्ञोपवीतं च तप्तस्वर्णजटाधरम् ।।
डमरुशृंगहस्तं च सुप्रशस्तं मनोहरम् ।। ९८ ।।
प्रजपन्तं हरेर्नाम श्वेताब्जबीजमालया ।।
ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकातरम् ।। ९९ ।।
स्वतेजसा प्रज्वलन्तं पञ्चवक्त्रं त्रिलोचनम् ।।
क्षणं ददर्श जगतां स्रष्टारं च चतुर्मुखम् ।। 4.40.१०० ।।
जपन्तं श्रीहरेर्नाम स्वच्छस्फटिकमालया ।।
क्षणं सूर्य स्वरूपं च ददर्श त्रिगुणात्मकम् ।। १ ।।
ददर्श तमतीव्रं तु ज्वलन्तं ब्रह्मतेजसा ।।
क्षणमग्निस्वरूपं च ज्वलन्तमतितेजसा ।। २ ।।
क्षणमाह्लादजनकं चन्द्ररूपं ददर्श ह ।।
क्षणं तेजःस्वरूपं च निराकारं निरञ्जनम् ।। ३ ।।
निर्लिप्तं च निरीहं च परमात्मस्वरूपिणम् ।।
एवं स्वेच्छामयं दृष्ट्वा नानारूपधरं परम् ।। ४ ।।
हर्षाश्रुपुलकः शैलो दण्डवत्प्रणनाम तम् ।।
भक्त्या प्रदक्षिणीकृत्य प्रणम्य च पुनः पुनः ।। ५ ।।
समुत्पत्य हर्षयुक्तो ददर्श पुनरेव तम्।।
वास्तवं भिक्षुकं दृष्ट्वा शैलेन्द्रो विष्णुमायया ।। ६ ।।
विसस्मार च तत्सर्वं नानारूपधरं परम् ।।
भिक्षां ययाचे भिक्षुस्तं भिक्षास्थालीस्वपार्श्वकम् ।। ७ ।।
रक्ताम्बरः शृङ्गवाद्यविचित्रडमरुः करे ।।
आदातुमुत्सुको दुर्गां नान्यां भिक्षुः कदाचन ।। ८ ।।
न स्वीचकार शैलेन्द्रो मोहितो विष्णुमायया ।।
भिक्षुः किंचिन्न जग्राह तत्रैवान्तरधीयत ।। ९ ।।
तदा बभूव ज्ञानं च मेनकाशैलयोः प्रिये ।।
अहो दृष्टो जगन्नाथ आवाभ्यां स्वप्नवद्दिने ।। 4.40.११० ।।
आवां शिवौ वञ्चयित्वा स्वस्थानं गतवान्विभुः ।।
तयोर्भक्तिं शिवे दृष्ट्वा सर्वे देवाश्च चिन्तिताः ।। ११ ।।
चक्रुः शक्रादयो युक्तिं सुमेरो रक्षणे भरात् ।।
एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति ।। १२ ।।
ध्रुवं निर्वाणतां सद्यः संप्राप्नोत्येव भारते ।।
अनन्तरत्नाधारश्चेत्पृथ्वी त्यक्त्वा प्रयास्यति ।। १३ ।।
रत्नगर्भाभिधा भूमेर्मिथ्यैव भविता ध्रुवम् ।।
स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ।। १४ ।।
कन्यां शूलभृते दत्त्वा विष्णुलोकं गमिष्यति ।।
नारायणस्य सारूप्यं भविष्यत्येव लीलया ।। १५ ।।
संप्राप्य पार्षदत्वं च हरिदासो भविष्यति ।।
दशवापीसमा कन्या दीयते ब्राह्मणाय ताम्।। १६ ।।
वेदज्ञाय पवित्राय चाप्रतिग्रहशालिने ।।
संध्यायज्ञवेदपाठकारिणे सत्यवादिने ।। १७।।
अस्यै प्रदत्ता कन्या च दशवापीफलप्रदा ।।
त्रिसंध्याकारिणे सत्यवादिने गृहशालिने ।। १८ ।।
वेदज्ञाय सुविप्राय दत्त्वा सुफलदायिनी ।।
परदारगृहीताय याजकाय द्विजातये ।। १९ ।।
शठाय संध्याहीनाय वाप्यैकफलदा सुता ।।
सर्वसंध्यास्वगायत्रीविहीनाय शठाय च ।। 4.40.१२० ।।
वैश्योद्भवाय दत्ता या वाप्यर्द्धफलदा स्मृता ।।
पापिने शूद्रजाताय विप्रक्षत्रोद्भवाय च ।।२१।।
दत्त्वा चाण्डालतुल्याय कन्या सा नरकप्रदा ।।
विष्णुभक्ताय विदुषे विप्राय सत्यवादिने ।। २२ ।।
जितेन्द्रियाय दत्ता या विंशद्वापीफलप्रदा ।।
षष्टि वर्षसहस्राणि दिव्यरूपं विधाय च ।। २३ ।।
एवंभूताय दत्ता चेन्मोदते विष्णुमंदिरे ।।
दत्त्वा कन्यां सुशीलां च हराय हरयेऽथ वा ।। २४ ।।
नारायणस्वरूपं च भवेदेव श्रुतौ श्रुतम् ।।
विष्णुभक्तो यदा कन्यां ददाति विष्णुप्रीतये ।। २५ ।।
स लभेद्धरिदास्यं च ध्रुवं विप्रोद्भवाय च ।।
इत्यालोच्य सुराः सर्वे कृत्वा च मन्त्रणां प्रिये ।। २६ ।।
गुरुं प्रस्थापितुं जग्मुर्हिमालयगृहं प्रति ।।
गत्वा प्रणम्य च गुरुं सर्वे चक्रुर्निवेदनम् ।। २७ ।।
हिमालयगृहं गत्वा कुरु निन्दां च शूलिनः ।।
पिनाकिनं विना दुर्गा वरं नान्यं वरिष्यति ।। २८ ।।
अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ।।
कालेन यातु शैलेन्द्रश्चेदानीं भुवि तिष्ठतु ।। २९ ।।
अनन्तरत्नाधारं च त्वमेव रक्ष भारते ।।
देवानां वचनं श्रुत्वा प्रददौ कर्णयोः करौ ।।4.40.१३०।।
न स्वीचकार स्वगुरुः स्मरन्नारायणेति च ।।
उवाच देववर्गांश्च संभर्त्स्य च पुनः पुनः ।। ३१ ।।
वेदवेदान्तविज्ञाता महाभक्तो हरौ हरे ।।
बृहस्पतिरुवाच ।।
श्रूयतां मद्वचः सत्यं हे देवाः स्वार्थसाधकाः ।। ३२ ।।
नीतिसारं च वेदोक्तं परिणामसुखावहम् ।।
हरकेशवयोर्भक्तं ये च निन्दन्ति पापिनः ।। ३३ ।।
भूदेवान्ब्राह्मणांश्चैव स्वगुरुं च पतिव्रताः।।
पतिभिक्षुब्रह्मचारिसृष्टिबीजान्सुरांस्तथा ।। ३४।।
पच्यन्ते कालसूत्रे ते यावच्चन्द्रदिवाकरौ ।।
श्लेष्ममूत्रपुरीषेषु शेरते ते दिवानिशम् ।।३५।।
भक्षिताः कीटनिकरैः शब्दं कुर्वंति कातराः ।।
ये निन्दन्ति च ब्रह्माणं स्रष्टारं जगतां गुरुम् ।।३६।।
शिवं सुराणां प्रवरं दुर्गां लक्ष्मीं सरस्वतीम् ।।
गीतां च तुलसीं गङ्गां वेदांश्च वेदमातरम् ।। ३७ ।।
व्रतं तपस्यां पूजां च मन्त्रं मंत्रप्रदं गुरुम्।।
ते पच्यन्तेऽन्धकूपे वै चायुषोऽर्धं विधेरहो।।३८।।
भक्षिताः सर्पसंघैश्च शब्दं कुर्वन्ति संततम् ।।
ये निन्दन्ति हृषीकेशं देवसाम्यं विधाय च ।। ३९ ।।
विष्णुभक्तिप्रदं चैव पुराणं च श्रुतेः परम् ।।
राधा तदङ्गजा गोपी ब्राह्मणांश्च सदार्चितान् ।। 4.40.१४० ।।
ते पच्यन्तेऽवटे देवा विधातुरायुषा समम् ।।
अधोमुखा ऊर्ध्वजङ्घाः सर्पसंघैश्च वेष्टिताः ।। ४१ ।।
भक्षिता विकृताकारैः कीटैः सर्पसमाकृतैः ।।
अतीव कातरा भीताः शब्दं कुर्वन्ति संततम् ।।४२।।
श्लेष्ममूत्रपुरीषाणि ध्रुवं भक्षन्ति क्षोभिताः ।।
उल्कां ददति रुष्टाश्च तन्मुखे यमकिंकराः ।। ४३ ।।
त्रिसन्ध्यं तर्जनं कृत्वा कुर्वन्ति दण्डताडनम् ।।
कुर्वन्ति मूत्रपानं च प्रहारैस्तृषितान्भिया।।४४।।
तदा कल्पान्तरे स्रष्टुं सृष्टिं च प्रथमे पुनः ।।
तेषां भवेत्प्रतीकार इत्याह कमलोद्भवः ।। ४५ ।।
कृत्वा हि शिवनिन्दां च यास्यन्ति नरकं सुराः ।।
इममेवोपकारं च कर्तुमिच्छथ पुत्रकाः ।। ४६ ।।
ब्रह्मणा प्रेरितो दक्षो दत्त्वा शूलभृते सुताम् ।।
न पापं परमैश्वर्यं संप्राप हरनिन्दकः ।। ४७ ।।
अनिच्छया सुतां दत्त्वा तुर्यपुण्यं ललाभ सः ।।
अहो विहाय सारूप्यं तुच्छं स्वर्गं ललाभ सः ।। ४८ ।।
कश्चिन्मध्ये च युष्माकं गत्वा शैलगृहं सुराः ।।
संपादयतु स्वमतं शैलेन्द्रस्य प्रयत्नतः ।। ४९ ।।
अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते ।।
तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम् ।। 4.40.१५० ।।
पश्चात्सप्तर्षयः सर्वे गृहीत्वा तामरुन्धतीम् ।।
ध्रुवं तस्य गृहं गत्वा बोधयिष्यन्ति पर्वतम् ।। ५१ ।।
विना पिनाकिनं दुर्गा वरं नान्यं वरिष्यति ।।
अनिच्छया सुतां तस्मै प्रदास्यति सुताज्ञया ।। ५२ ।।
इत्येवं कथितं सर्वं देवा गच्छन्तु मन्दिरम् ।।
इत्युक्त्वा वाक्पतिः शीघ्रं तपसे स्वर्णदीं गतः ।। १५३ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे चत्वारिंशोऽध्यायः ।। ४० ।।