ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०४१

← अध्यायः ०४० श्रीकृष्णजन्मखण्डः
अध्यायः ०४१
वेदव्यासः
अध्यायः ०४२ →


श्रीकृष्ण उवाच ।।
तदा देवाः समालोच्य जग्मुस्ते ब्रह्मणोऽन्तिकम् ।।
सर्वे निवेदनं चक्रुर्ब्रह्माणं जगतां पतिम् ।। १ ।।
देवा ऊचुः ।। ।।
तव सृष्टौ जगत्स्रष्टा रत्नाधारो हिमालयः ।।
स चेत्प्राप्स्यति मोक्षं च रत्नगर्भा कुतो मही ।। २ ।।
सुतां शूलभृते दत्त्वा भक्त्या शैलेश्वरः स्वयम् ।।
नारायणस्य सारूप्यं संप्राप्स्यति न संशयः ।। ३ ।।
त्वं तस्य निन्दनं कृत्वा विमतिं प्रतिपादय ।।
त्वया विना क्षमो नान्यो गच्छ शैलगृहे प्रभो ।। ४ ।।
देवानां वचनं श्रुत्वा तानुवाच विधिः स्वयम् ।।
वचनं नीतिसारं च कर्णपीयूषमुत्तमम् ।। ५ ।। ।।
।। ब्रह्मोवाच ।।
नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुष्कराम् ।।
संपद्विनाशरूपां च विपदो बीजरूपिणीम् ।। ६ ।।
भूतेशं प्रस्थापयत स्वात्मनिन्दां करोति सः ।।
परनिन्दा विनाशाय स्वनिन्दा यशसे परम् ।।७।।
ब्रह्मणो वचनं श्रुत्वा तं प्रणम्य सुराः प्रिये।।
शीघ्रं ययुस्ते कैलासं गत्वा च तुष्टुवुः शिवम् ।। ८ ।।
सर्वे निवेदनं चक्रुः शंकरं करुणालयम् ।।
स ययौ शैलमूलं च तानाश्वास्य प्रहस्य च ।। ९ ।।
देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमन्दिरम् ।।
इष्टसिद्धिर्मुदे शश्वदसिद्धिर्दुःखवर्धिनी ।। 4.41.१० ।।
अथ शैलः सभामध्ये समुवास मुदाऽन्वितः ।।
बन्धुवर्गैः परिवृतः पार्वतीसहितः स्वयम् ।।११।।
एतस्मिन्नन्तरे तत्र विप्ररूपी शिवः स्वयम् ।।
समाजगाम सहसा प्रसन्नवदनेक्षणः ।। १२ ।।
दण्डी छत्री दीर्घवासा बिभ्रत्तिलकमुत्तमम् ।।
करे स्फटिकमालां च शालग्रामं गले दधत् ।। १३ ।।
तं च दृष्ट्वा समुत्तस्थौ सगणश्च हिमालयः ।।
ननाम दण्डवद्भूमौ भक्त्याऽतिथिमपूर्वकम् ।।१४।।
ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम् ।।
आशिषं युयुजे विप्रः सर्वेषां प्रीतिपूर्वकम् ।। १५ ।।
शैलदत्तासने शीघ्रमुवास ब्राह्मणः स्वयम् ।।
मधुपर्कादिकं सर्वं जग्राह प्रीतिपूर्वकम् ।। १६ ।।
पप्रच्छ कुशलं शैलो ब्राह्मणं को भवानिति ।।
उवाच सर्वं विप्रेन्द्रो गिरीन्द्रं सादरेण च ।। १७ ।।
।। ब्राह्मण उवाच ।।
घाटिकां वृत्तिमाश्रित्य भ्रमामि धरणीतले ।।
मनोयायी सर्वगामी सर्वज्ञोऽहं गुरोर्वरात् ।। १८ ।।
मया ज्ञातं शंकराय सुतां दातुं त्वमिच्छसि ।।
इमां पद्मासमां दिव्यामज्ञातकुलशीलिने ।। १९ ।।
निराश्रयायासङ्गयारूपाय निर्गुणाय च।।
श्मशानगामिने सर्वभूतनाथाय योगिने ।। 4.41.२० ।।
दिग्वाससेऽहिगात्राय विभूतिभूषणाय च ।।
व्यालग्राहिस्वरूपाय कालव्यापादनाय च।।२१।।
अज्ञातमृत्यवेऽज्ञायानाथायाबन्धवे भवे।।
तप्तस्वर्णजटाभारधारिणे निर्धनाय च ।। २२ ।।
अज्ञातवयसेऽतीव वृद्धाय चाविकारिणे।।
सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवे ।। २३ ।।
निबोध ज्ञानिनां श्रेष्ठं नारायणं कुलोद्भवम् ।।
स ते पात्रानुरूपश्च पार्वतीदातृकर्मणि ।। २४ ।।
महाजनः स्मेरमुखः श्रुतिमात्राद्भविष्यति ।।
लक्षशैलाधिपस्त्वं च न तस्यैकोऽस्ति बान्धवः ।। २५ ।।
बान्धवान्मेनकां प्रश्नं कुरु शीघ्रं प्रयत्नतः।।
सर्वान्पृच्छ च यत्नेन हे बन्धो पार्वतीं विना ।। २६ ।।
रोगिणे नौषधं शश्वत्कुपथ्यं रोचते सदा ।।
इत्युक्त्वा ब्राह्मणः शीघ्रं स्नात्वा भुक्त्वा मुदाऽन्वितः ।।२७ ।।
जगाम स्वालयं शान्तो वृन्दावनविनोदिनि ।।
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ।।
शोकेन साश्रुनयना हृदयेन विदूयता ।। २८ ।।
मेनकोवाच ।।
शृणु शैलेन्द्र मद्वाक्यं परिणामसुखावहम् ।। २९ ।।
पृच्छ शैलवरानस्मै न दास्यामि सुतामहम् ।।
त्यक्ष्यामि सर्वान्विषयान्भक्ष्यामि विषमेव च ।। 4.41.३० ।।
गले बद्ध्वाऽम्बिकां पश्य यास्यामि घोरकाननम् ।।
गृहीत्वा पार्वतीं मेना गत्वा कोपालयं रुषा ।।३१।।
त्यक्त्वाऽऽहारं रुदन्ती च चकार शयनं भुवि।।
एतस्मिन्नन्तरे तत्र वसिष्ठो भ्रातृभिः सह ।। ३२ ।।
आजगाम पुनस्तैश्च युक्ता पश्चादरुन्धती ।।
प्रणम्य शैलस्तान्सर्वान्स्वर्णसिंहासनं ददौ ।। ३३ ।।
दत्त्वा षोडशोपचारान्पूजयामास भक्तितः ।।
ऋषयश्च सभामध्ये सुखमूषुः सुखासने ।। ३४ ।।
जगामारुन्धती तूर्णं यत्र मेना च पार्वती।।
गत्वा ददर्श मेनां च शयानां शोकमूर्च्छिताम् ।। ३५ ।।
उवाच मधुरं साध्वी सावधानां हितं वचः ।।
अरुन्धत्युवाच ।।
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ।। ३६ ।।
पितॄणां मानसी कन्या मां जानीहि विधेर्वधूम् ।।
अरुन्धत्याः स्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ।।
उवाच शिरसा नत्वा तां पद्मामिव तेजसा ।। ३७ ।।
मेनकोवाच ।।
अहोऽद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ।। ३८ ।।
वधूर्जगद्विधेः पत्नी वसिष्ठस्य ममालये ।।
संभ्रमेणेदमेवोक्ते गृहं तेऽहं च किंकरी ।। ।। ३९ ।।
ईश्वरी जगतां स्रष्टुरागता बहुपुण्यतः ।।
पाद्यं दत्त्वा स्वर्णपीठे वासयामास तां सतीम् ।। 4.41.४० ।।
भोजयामास मिष्टान्नं बुभुजे कन्यया सह ।।
शिवस्य हेतोर्नीतिं च बोधयामास मेनकाम् ।। ४१ ।।
अरुन्धती प्रसङ्गेन संबन्धयोजनानि च ।।
अथ शैलमृषीन्द्राश्च नीतिसारं परं वचः ।।
बोधयामासुः संबन्धयोजनानि प्रसङ्गतः ।। ४२ ।।
ऋषय ऊचुः ।।
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारकम् ।। ४३ ।।
शिवाय पार्वतीं देहि संहर्तुः श्वशुरो भव ।।
अयाचितारं देवेशं बोधयाशु प्रयत्नतः ।। ४४ ।।
तव शङ्काविनाशाय ब्रह्मसंबन्धकर्मणि ।।
नेच्छको दारसंयोगे शंकरो योगिनां वरः ।। ४५ ।।
विधेः प्रार्थनया देव तव कन्यां ग्रहीष्यति।।
दुहितुस्ते तपस्यान्ते प्रतिज्ञानं चकार सः ।। ४६ ।।
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ।।
ऋषीणां वचनं श्रुत्वा प्रहस्य च हिमालयः ।।
उवाच किंचिद्भीतश्च परं विनयपूर्वकम् ।। ४७ ।।
हिमालय उवाच ।।
शिवस्य राजसामग्रीं न हि पश्यामि कांचन ।।
किंचिदाश्रममैश्वर्यं किं वा स्वजनबान्धवम् ।। ४८ ।।
न कन्यामतिनिर्लिप्तयोगिने दातुमर्हति ।।
यूयं विधातुः पुत्राश्च सत्यं वदत निश्चितम् ।। ४९ ।।
नानुरूपाय पुत्राय पिता कन्या ददाति चेत् ।।
कालाल्लोभाद्भयान्मोहाच्छताब्दं नरकं व्रजेत् ।। 4.41.५० ।।
न हि दास्याम्यहं कन्यामिच्छया शूलपाणिने ।।
यद्विधानं भवेद्योग्यमृषयस्तद्विधीयताम् ।। ५१ ।।
हिमालयवचः श्रुत्वा वसिष्ठो विधिनन्दनः ।।
वेदवेदाङ्गविज्ञाता वेदोक्तं वक्तुमुद्यतः ।। ५२ ।।
वसिष्ठ उवाच ।।
वचनं विविधं शैल लौकिके वैदिके तथा ।।
सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ।। ५३ ।।
असत्यमहितं पश्चात्साम्प्रतं श्रुतिसुन्दरम् ।।
सुबुद्धं शत्रुर्वदति न हितं च कदाचन ।। ५४ ।।
आपातप्रीतिजनकं परिणामसुखावहम् ।।
दयालुर्धर्मशीलश्च बोधयत्येव बान्धवम् ।। ।। ५५ ।।
श्रुतिमात्रात्सुधातुल्यं सर्वकाले सुखावहम् ।।
सत्यसारं हितकरं वचसां श्रेष्ठमीप्सितम् ।। ५६ ।।
एवं च त्रिविधं शैल नीतिशास्त्रनिरूपितम् ।।
कथ्यतां त्रिषु मध्ये किं वदामि वाक्यमीप्सितम् ।।५७।।
बाह्यसंपद्विहीनश्च शंकरस्त्रिदशेश्वरः ।।
तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः ।।५८ ।।
आपातभ्रमसंपत्तिर्विद्युच्छ्रीरिव नाशिनी ।।
सदानन्दस्येश्वरस्य स्वात्मारामस्य का स्पृहा ।। ५९ ।।
गृही ददाति स्वसुतां राज्यसंपत्तिशालिने ।।
कन्यां विद्वेषिणे दत्त्वा कन्याघाती भवेत्पिता ।। 4.41.६० ।।
को वदेच्छंकरो दुःखी कुबेरो यस्य किंकरः।।
भ्रूभङ्गलीलया सृष्टिं स्रष्टुं नष्टुं क्षमो हि यः।।६१।।
निर्गुणः परमात्मा च य ईशः प्रकृतेः परः ।।
सर्वेशः स च निर्लिप्तो लिप्तश्च सर्वजन्तुषु ।। ६२ ।।
स एकः सृष्टिसंहारे स सर्वः सृष्टिकर्मणि ।।
निराकारश्च साकारो विभुः स्वेच्छामयः स्वयम् ।। ६३ ।।
य ईशस्त्रिविधां मूर्तिं विधत्ते सृष्टिकर्मणि ।।
सृष्टिस्थित्यन्तजननीं ब्रह्मविष्णुशिवाभिधाम्।।६४।।
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ।।
शिवः कैलासवासी च सर्वाः कृष्णविभूतयः ।। ६५ ।।
श्रीकृष्णश्च द्विधाभूतो द्विभुजश्च चतुर्भुजः ।।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ।।६६ ।।
तस्य देवस्य तेंऽशाश्च ब्रह्मविष्णुमहेश्वराः ।।
केचिद्देवाः कलास्तस्य कलांशाश्चैव केचन ।। ६७ ।।
कृष्णः सृष्ट्युन्मुखश्चापि प्रकृतिं तत्र निर्ममे ।।
निर्माय तां च तद्योनौ वीर्याधानं चकार ह ।।६८।।
ततो डिम्भः समुद्भूतस्तन्मध्ये च महाविराट् ।।
महाविष्णुः स विज्ञेयो श्रीकृष्णषोडशांशकः ।। ६९ ।।
नाभिपद्मोद्भवो ब्रह्मा तस्यैव जलशायिनः ।।
भालोद्भवस्तस्य स्रष्टुः शंकरश्चन्द्रशेखरः ।। 4.41.७० ।।
महाविष्णुर्वामपार्श्वात्संभूतो विष्णुरेव च ।।
सर्वे प्राकृतिकाः शैल ब्रह्मविष्णुशिवादयः ।। ७१ ।।
धत्ते चतुर्विधां मूर्तिं प्रकृतिः कृष्णसंभवा ।।
अंशेन लीलया सृष्ट्यै कलया बहुधा तया ।।७२।।
कृष्णवामांगसंभूता राधा रासेश्वरी स्वयम् ।।
मुखोद्भवा स्वयं वाणी रागाधिष्ठातृदेवता ।। ७३ ।।
वक्षःस्थलोद्भवा लक्ष्मीः सर्वसंपत्स्वरूपिणी ।।
शिवा तेजःसु देवानामाविर्भावं चकार सा ।। ७४ ।।
निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ।।
प्राप्य कल्पांतरे जन्म जठरे दक्षयोषितः ।। ७९ ।।
नाम्ना सती शिवं प्राप दक्षस्तस्मै ददौ च ताम् ।।
योगेन देहं तत्याज श्रुत्वा सा भर्तृनिंदनम्।।७६।।
पितॄणां मानसी कन्या मेनका तव गेहिनी ।।
ललाभ तस्या जठरे जन्म सा जगदंबिका ।। ७७ ।।
शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ।।
कल्पे कल्पे बुद्धिरूपा ज्ञानिनां जननी परा ।।७८।।।
जतिस्मरा च सर्वज्ञा सिद्धिदा सिद्धिरूपिणी ।।
अस्या अस्थिचिताभस्म भक्त्या धत्ते शिवः स्वयम।।७९।।
देहि त्वं स्वेच्छया कन्यां देहि भद्र शिवाय च ।।
अथवा सा स्वयं कांतस्थानं यास्यति द्रक्ष्यति ।।4.41.८०।।
प्राक्तनाद्यस्य या कांता सा तं प्राप्नोति वल्लभम् ।।
प्रजापतेर्निबंधं च न कोऽपि खंडितुं क्षमः ।।८१।।
विवाहे नोत्सुकः शंभुः स्वात्मारामश्च तत्त्ववित् ।।
तुष्टुवुस्तं सुराः सर्वे तारकाख्येन पीडिताः ।। ८२ ।।
देवानां पीडनं दृष्ट्वा ब्रह्मणा प्रार्थितो विभुः ।।
कृपया स्वीचकाराशु कृपालुर्देवसंसदि ।। ८३ ।।
कृत्वा प्रतिज्ञां योगींद्रो दृष्ट्वा क्लेशमसंख्यकम् ।।
दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ।। ८४ ।।
तामाश्वास्य वरं दत्त्वा जगाम निजमंदिरम् ।।
तच्छ्रुत्वैवाययुः सर्वे सुराः शक्रादयो मुदा ।। ८५ ।।
नारायणश्च भगवान्ब्रह्मा धर्मश्च सांप्रतम् ।।
ऋषयो मुनयः सर्वे गंधर्वा यक्षराक्षसाः ।। ८६ ।।
तत्र सर्वे मुदा युक्तैः समालोचनकर्तृभिः ।।
प्रस्थापिता वयं शीघ्रमनृणा सा अरुंधती।। ८७ ।।
तव प्रबोधने प्रीतिर्वर्द्धते महती सदा ।।
संप्राप्तं शुभकार्यं च सर्वकालसुखावहम् ।। ८८ ।।
शिवां शिवाय शैलेंद्र स्वेच्छया चेन्न दास्यसि ।। ।
भविता वा विवाहश्च भवितव्यबलेन च ।। ८९ ।।
आगमिष्यति देवो यो नारायणसहायवान् ।।
रत्नसाररथे कृत्वा देवानां प्रवरं वरम् ।। 4.41.९० ।।
योगींद्राणां वरेण्यं तं ज्ञानिनां च गुरोर्गुरुम् ।।
आदिमध्यांतरहितमविकारमजं परम् ।। ९१ ।।
वरं ददौ शिवायै स शिवश्च तपसः स्थले ।।
न हीश्वरप्रतिज्ञातं दुर्लभं विफलं भवेत् ।। ९२ ।।
ब्रह्मादिस्तंबपर्यतं सर्वं नश्वरमस्थिरम् ।।
अहो प्रतिज्ञा दुर्लङ्घ्या साधूनामविनाशिनी ।। ९३ ।।
एको महेंद्रः शैलानां पक्षांश्चिच्छेद लीलया ।।
पवनो लीलया मेरोः शृंगभंगं चकार ह ।। ।। ९४ ।।
के वा शैलेषु योद्धारः सुरैः सह हिमालय ।।
पतिष्यंति समुद्रेषु पवनैः प्रेरिताः क्षणात् ।। ९५ ।।
एकार्थे यदि शैलेन्द्र सर्वसंपद्विनश्यति ।।
सर्वान्रक्षति तद्दत्त्वा विना च शरणागतम् ।। ९६ ।।
शरणागतरक्षार्थं प्राणांश्च दातुमर्हति ।।
पुत्रदारधनं सर्वानिति नीतिविदो विदुः ।। ९७ ।।
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ।।
ब्रह्मशापाद्विमुक्तश्च ररक्ष सर्वसंपदम् ।। ९८ ।।
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ।।
ब्रह्मशापनिमग्नं च ब्रह्मण्यमतिकातरम् ।। ९९ ।।
त्वमेव शैलराजेंद्र सुतां दत्त्वा शिवाय च ।।
रक्ष सर्वान्बंधुवर्गान्वशे कुरु सुरानपि ।। 4.41.१०० ।।
वसिष्ठस्य वचः श्रुत्वा प्रहस्य पर्वतेश्वरः ।।
पप्रच्छ नृपवृत्तांतं हृदयेन विदूयता ।। १०१ ।।
हिमालय उवाच ।।
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपेश्वरः ।।
सुतां दत्त्वा स च कथमरक्षत्सर्वसंपदम् ।। १०२ ।।
वसिष्ठ उवाच ।।
मनुवंशोद्भवो राजा सोऽनरण्यो नृपेश्वरः ।।
चिंरजीवी धर्मशीलो वैष्णवो विजितेंद्रियः ।। १०३ ।।
स्वायंभुवो मनुः पूर्वं ब्रह्मपुत्रोऽतिधार्मिकः ।।
राज्यं चकार धर्मेण युगानामेकसप्ततिम् ।। १०४ ।।
ततो जगाम वैकुण्ठं सहितः शतरूपया ।।
संप्राप्य दास्यं सान्निध्यं हरेर्दासो बभूव ह ।। १०५ ।।
मनुर्बभूव तत्पश्चात्स्वयं स्वारोचिषो महान् ।।
स्वारोचिषे गते शैल बभूव मनुरुत्तमः ।। ६ ।।
उत्तमे निर्गते धर्मी तामसो मनुरेव च ।।
ततो मनुर्बभूवात्र रैवतो ज्ञानिनां वरः ।। ७ ।।
चाक्षुषश्च ततो ज्ञेयः श्राद्धदेवश्च सप्तमः ।।
सावर्णिरष्टमो ज्ञेयः श्रीसूर्यतनयो महान् ।। ८ ।।
चैत्रवंशोद्भवो राजा पुराऽऽसीत्सुरथो भुवि ।।
नवमो दक्षसावर्णिर्ब्रह्मसावर्णिको दश ।। ९ ।।
एकादशो मनुश्रेष्ठो धर्मसावर्णिरुच्यते ।।
ततश्च रुद्रसावर्णिर्विष्णुभक्तो जितेन्द्रियः ।। 4.41.११० ।।
तत्परो देवसावर्णिरिंद्रसावर्णिकस्ततः ।।
इत्येवं कथिता बंधो मनवश्च चतुर्दश ।। ११ ।।
एतेषु समतीतेषु बभूव ब्रह्मणो दिनम्।।
इन्द्रसावर्णिवृत्तातं सर्वं मत्तो निशामय ।। १२ ।।
मनूनां प्रवरो धर्मी शुद्धभक्तो गदाभृतः ।।
चकार राज्यं धर्मेण युगानामेकसप्ततिम् ।। १३ ।।
राज्यं दत्त्वा सुरेंद्राय जगाम तपसे वनम्।।
सुरद्रेंस्य सुतः श्रीमाञ्छ्रीनिकेतुर्महाबलः ।।१४।।
तस्य पुत्रो महायोगी पुरीषतरुरेव च ।।
तस्य पुत्रोऽतितेजस्वी गोकामुख इति स्मृतः ।। १५ ।।
वृद्धश्रवाः सुतस्तस्य तत्पुत्रो भानुरेव च ।।
पुण्डरीकः सुतस्तस्य तत्पुत्रो जिह्वलस्तथा ।। ।। १६ ।।
जिह्वलस्य सुतः शृङ्गी तत्पुत्रो भीम एव च ।।
तत्पुत्रोऽपि यशश्चन्द्रो यशसा च शशी जितः ।। १७ ।।
तत्कीर्तिं निर्मलां सन्तो गायन्ति संततं सुराः ।।
तस्य पुत्रो वरेण्यश्च पुरारण्यश्च तत्सुतः ।।१८।।
तत्पुत्रो धार्मिकः श्रीमान्धरारण्यश्च एव च ।।
तत्पुत्रो मंगलारण्यस्तपस्वी ज्ञानिनां वरः ।। १९ ।।
अपुत्रको नृपश्रेष्ठस्तपसे पुष्करं गतः ।।
सुचिरं च तपस्तप्त्वा वरं लब्ध्वा महेश्वरात् ।। ।। 4.41.१२० ।।
संप्राप्य वैष्णवं पुत्रमनरण्यं जितेंद्रियम् ।।
दत्त्वा तस्मै च राज्यं च जगाम तपसे वनम् ।। २१ ।।
अनरण्यो नृपश्रेष्ठः सप्तद्वीपमहीपतिः ।।
चकार यज्ञशतकं भृगुणा च पुरोधसा।।२२।।
तुच्छं मत्वाशु शक्रत्वं न लेभे नश्वरं सुधीः ।।
लीलया च जितः शक्रो लीलया च जितो बलिः ।।२३।।
जिताश्च दानवेंद्रा वै ज्वलता स्वेन तेजसा ।।
बभूवुः शतपुत्राश्च राज्ञस्तस्य हिमालय ।।२४।।
कन्यैका सुंदरी रम्या पद्मा पद्मालयासमा।।
सा कन्या यौवनस्था च बभूव पितृमंदिरे।।२५।।
चारं प्रस्थापयमास वराय नृपतीश्वरः ।।
एकदा पिप्पलादश्च गंतुं स्वाश्रममुत्सुकः।।२६।।
तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ।।
स्त्रीषु निर्मग्नचित्तं च शृङ्गाररससागरे ।।२७।।
कामादतीव मत्तं च न जानन्तं दिवानिशम्।।
दृष्ट्वा तं मुनिशार्दूलः सकामश्च बभूव ह।।२८।।
ततः सुभग्नचित्तः सञ्चिन्तयन्दारसंग्रहम् ।।
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ।।२९।।
ददर्श पद्मां युवती पद्मामिव मनोरमाम् ।।
केयं कस्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ।। 4.41.१३० ।।
जना निवेदनं चक्रुः पद्माऽनरण्यकन्यका ।।
मुनिः स्नात्वाऽभीष्टदेवं संपूज्य राधिकेश्वरम् ।। ३१ ।।
जगाम कामी भिक्षार्थमनरण्यसभाजिरे ।।
राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ।। ३२ ।।
मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ।।
कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ।। ३३ ।।
मौनी बभूव नृपतिः किंचिन्निर्वक्तुमक्षमः ।।
मुनिः पुनर्ययाचे तं कन्या देहीति मे नृप ।। ३४ ।।
अथवा भस्मसात्सर्वं करिष्यामि क्षणेन च ।।
सर्वे बभूवुराच्छन्ना गणाश्च तेजसा मुनेः ।। ३५।।
रुरोद राजा सगणो दृष्ट्वा वृद्धं जरातुरम् ।।
महिष्यो रुरुदुः सर्वा इति कर्त्तव्यमक्षमाः ।।३६।।
मूर्च्छां प्राप महाराज्ञी कन्यामाता शुचाकुला ।।
पण्डितो नीतिशास्त्रज्ञो बोधयामास भूमिपम् ।। ३७ ।।
महिषीं च नृपसुतान्कन्यकानीतिमुत्तमाम् ।।
अद्य वापि दिनान्ते वा दातव्या कन्यका नृप ।। ३८ ।।
पराय विप्रादन्यस्मै कस्मै वा दातुमर्हसि ।।
सत्पात्रं ब्राह्मणादन्यं न पश्यामि जगत्त्रये ।। ३९ ।।
सुतां दत्त्वा च मुनये रक्षस्व सर्वसंपदम् ।।
राजकन्यानिमित्तेन सर्वसंपत्प्रणश्यति ।। 4.41.१४० ।।
सर्वं रक्षति तत्त्यक्त्वा विना तं शरणागतम् ।।
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ।।४१।।
कन्यां सालंकृतां कृत्वा मुनीन्द्राय ददौ किल ।।
कान्तां गृहीत्वा स मुनिर्मुदितः स्वालयं ययौ ।।४२।।
राजा सर्वान्परित्यज्य जगाम तपसे शुचा ।।
भर्तुश्च दुहितुः शोकात्प्राणांस्तत्याज सुन्दरी।।४३।।
पुत्राः पौत्राश्च भृत्याश्च मूर्च्छां प्रापुर्नृपं विना ।।
अनरण्यस्तपस्तप्त्वा चिन्तयन्राधिकेश्वरम्।।४४।।
गोलोकनाथं संसेव्य गोलोकं च जगाम ह ।।
बभूव कीर्तिमान्राजा ज्येष्ठपुत्रो नृपस्य च ।।
पुत्रवत्पालयामास प्रजाः सर्वा महीतले ।।१४५।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे राधाकृष्णसंवादे एकचत्वारिंशोऽध्यायः ।। ४१ ।।