प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ०४१ श्रीकृष्णजन्मखण्डः
अध्यायः ०४२
वेदव्यासः
अध्यायः ०४३ →


वसिष्ठ उवाच ।।
अथानरण्यस्य कन्या सिषेवे भक्तितो मुनिम् ।।
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा ।। १ ।।
एकदा स्वर्णदीं स्नातुं गच्छंतीं सस्मितां सतीम् ।।
ददर्श पथि धर्मश्च मायया नृपलिंगकः ।। २ ।।
चारुरत्नरथस्थश्च रत्नालंकारभूषितः ।।
नवीनयौवनश्रीमान्कामदेवसमप्रभः ।।३।।
दृष्ट्वा तां सुन्दरीं रम्यामुवाच मायया विभुः ।।
विज्ञातुमन्तस्तत्त्वं च तस्याश्च मुनियोषितः ।। ४ ।।
धर्म उवाच ।।
अयि सुन्दरि लक्ष्मीव राजयोग्ये मनोहरे ।।
अतीव यौवनस्थे च कामिनि स्थिरयौवने।।५।।
जरातुरस्य वृद्धस्य समीपे त्वं न राजसे ।।
चन्दनागुरुसंलिप्ता राजसे राजवक्षसि।।६।।
विप्रं तपःसु निरतं सत्यज्ञं मरणोन्मुखम्।।
विहाय पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ।।७।।
प्राप्नोति सुन्दरं पुण्यात्सौन्दर्यं पूर्वजन्मतः ।।
सफलं तद्भवेत्सर्वं रसिकालिंगनेन च ।। ८ ।।
सहस्रसुन्दरीकान्तं कामशास्त्र विशारदम् ।।
किंकरं कुरु मां कान्ते परित्यक्ष्यामि ता अपि ।।९।।
निर्जले निर्जने रम्ये शैलेशैले नदेनदे ।।
पुष्पोद्याने पुष्पिते च सुगन्धिपुष्पवायुना ।।4.42.१०।।
मलये चन्दनारण्ये चारुचन्दनवायुना ।।
विहरिष्यामि कामेन कामिन्या च त्वया सह।।११।।
कामज्वरेण दग्धायाः शांतिं कर्तुमहं क्षमः ।।
विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ।।१२।।
इत्येवमुक्तवंतं तं स्वरथादवरुह्य च ।।
ग्रहीतुमुत्सुकं हस्तं तमुवाच पतिव्रता ।। १३ ।।
पद्मोवाच ।।
दूरं गच्छ गच्छ दूरं पापिष्ठ भूमिपाधम ।।
मां चेत्पश्यसि कामेन सद्यो भस्म भविष्यसि ।। १४ ।।
पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम्।।
विहाय त्वां भजिष्यामि स्त्रीजितं रतिलंपटम् ।।१५।।
स्त्रीजितस्पर्शमात्रेण सर्वपुण्यं प्रणश्यति ।।
न भूमौ पातकी पापात्पापिनां स्त्रीजितात्परः ।। १६ ।।
मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च ।।
भविष्यति क्षयस्तेन कालेन मम शापतः ।। १७ ।।
श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च ।।
धृत्वा स्वमूर्तिं देवेशः कंपमान उवाच ताम् ।। १८ ।।
धर्म उवाच ।।
मातर्जानीहि मां धर्मं धर्मज्ञानां गुरोर्गुरुम् ।।
परस्त्रीमातृबुद्धिं च कुर्वन्तं संततं सति ।। १९ ।।
अहं तवांतर्विज्ञातुमागतस्तव सन्निधिम् ।।
युष्माकं च मनो जाने तथापि दैवबोधितः ।। 4.42.२० ।।
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ।।
शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ।। २१ ।।
धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः ।।
विधातारं संविधातुं तस्मै कृष्णाय ते नमः ।।२२।।
संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः ।।
स्रष्टारं लीलया स्रष्टुं तस्मै कृष्णाय ते नमः ।। २३ ।।
शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः ।।
स्रष्टुं नष्टम् तदेवं च तस्मै कृष्णाय ते नमः ।। २४ ।।
शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः ।।
संपदं विपदं यो हि तस्मै कृष्णाय ते नमः ।। २५ ।।
प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः ।।
ब्रह्मविष्णुमहेशाद्यास्तस्मै कृष्णाय ते नमः ।। २६ ।।
येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा ।।
दाहीकृतो हुताशश्च तस्मै कृष्णाय ते नमः ।। २७ ।।
अतितेजः समुत्थाय तेजोरूपाय मूर्त्तये ।।
गुणश्रेष्ठनिर्गुणाय तस्मै कृष्णाय ते नमः ।।२८।।
सर्वस्मै सर्वबीजाय सर्वेषामन्तरात्मने।।
सर्वबंधुस्वरूपाय तस्मै कृष्णाय ते नमः ।। २९ ।।
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ।।
सा साध्वी तं च विज्ञाय सहसोवाच पर्वत ।। 4.42.३० ।।
पद्मोवाच ।।
त्वमेव धर्मः सर्वेषां साक्षी च सर्वकर्मणाम् ।।
सर्वांतरेषु सर्वात्मा सर्वज्ञः सर्वतत्त्ववित् ।। ३१ ।।
कथं मनो मे विज्ञातुं विडंबयसि किंकरीम् ।।
यत्कृतं त्वत्कृते ब्रह्मन्नपराधो बभूव मे ।।३२।।
त्वं च शप्तो मयाऽज्ञानात्स्त्रीस्वभावात्क्रुधा विभो ।।
का व्यवस्था भवेत्तस्य चिन्तयामीति सांप्रतम् ।। ३३ ।।
आकाशोऽसौ दिशः सर्वा यदि नश्यन्ति वायवः ।।
तथापि साध्वीशापस्तु न नश्यति कदाचन ।। ३४ ।।
त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा ।।
इति कर्तव्यतामूढा तथापि त्वां वदाम्यहम् ।। ३५ ।।
सत्ये पूर्णश्चतुष्पादैः पौर्णमास्यां यथा शशी ।।
विराजसे देवराज सर्वकालं दिवानिशम् ।। ३६ ।।
पादक्षयश्च त्रेतायां भगवन्भविता तव ।।
पादौ परौ द्वापरे च तृतीयश्च कलौ विभो ।। ३७ ।।
कलिशेषे शेषपादस्तवाच्छन्नो भविष्यति ।।
पुनः सत्ये समायाते परिपूर्णो भविष्यसि ।। ३८ ।।
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित् ।।
यत्र स्थानं तवाधारो वदामि श्रूयतां विभो ।।३९ ।।
वैष्णवेषु च सर्वेषु यतिषु ब्रह्मचारिषु ।।
पतिव्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु ।। 4.42.४० ।।
नृपेषु धर्मशीलेषु सत्सु सद्वैश्यजातिषु ।।
द्विजसेविषु शूद्रेषु सत्संसर्गस्थितेषु च ।। ४१।।
एषु त्वं सततं पूर्णो धर्मराज विराजसे ।।
युगेयुगे तदाधारा यत्र पुण्यतमा जनाः ।। ४२ ।।
अश्वत्थवटबिल्वेषु तुलसीचंदनेषु च ।।
दीक्षापरीक्षाशपथगोष्ठगोष्पदभूमिषु ।।४३।।
विवाहेषु च पुष्पेषु विद्यमानोऽसि शाखिषु ।।
देवालयेषु तीर्थेषु सतां शश्वद्गृहेषु च ।। ४४ ।।
वेदवेदांगश्रवणे जलेषु च सभासु च ।
श्रीकृष्णगुणनामोक्त श्रुतिगीतस्थलेषु च ।। ४५ ।।
व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च ।।
गवां गृहेषु गोष्वेव विद्यमानो हि पश्यसि ।। ४६ ।।
कृशता तेन भविता धर्म तेषु स्थलेषु च ।।
एतदन्येषु कृशता यदगम्यं च तच्छृणु ।। ४७ ।।
पुंश्चलीषु च सर्वासु गृहेषु नरघातिनाम् ।।
नरघातिषु नीचेषु मूर्खेषु च खलेषु च ।। ४८ ।।
देवतागुरुविप्रेष्टपाल्यानां धनहारिषु ।।
असन्नरेषु धूर्तेषु चौरेषु रतिभूमिषु ।।४९।।
दुरोदरसुरापानकलहानां स्थलेषु च ।।
शालग्रामसाधुतीर्थपुराणरहितेषु च ।। 4.42.५० ।।
दस्युस्नेहेषु वादेषु तालच्छायासु गर्विषु।।
असिजीविमषीजीविदेवलग्रामयाजिषु ।।५१।।
वृषवाहस्वर्णकारजीवहिंसोपजीविषु ।।
भर्तृनिंदितनारीषु स्त्रीजितेषु च पुंसु च ।। ५२ ।।
दीक्षासंध्याविष्णुभक्तिविहीनेषु द्विजेषु च ।।
स्वांगकन्याविक्रयिषु स्वयोषिद्विक्रयेष्वथ ।। ५३ ।।
शालग्रामसुरग्रंथभूमिविक्रयिषु प्रभो ।।
मित्रदोहिकृतघ्नेषु सत्यविश्वासघातिषु ।। ५४ ।।
शरणागतदीनेषु चाश्रितघ्नेषु नृष्वपि ।।
शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु ।। ५५ ।।
कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु ।।
पुण्यकर्मविहीनेषु पुण्यकर्मविरोधिषु ।। ५६ ।।
स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो ।।
ममापि वचनं सत्यं बभूव तत्क्षणं तव ।। ५७ ।।
यास्यामि पतिसेवायै गच्छ तात स्वमन्दिरम् ।।
इत्येवंवादिनीं साध्वीमुवाच विधिनन्दनः ।।
प्रसन्नवदनः श्रीमानतीव विनयं वचः ।। ५८ ।।
धर्म उवाच ।।
धन्याऽसि पतिभक्ताऽसि स्वस्ति तेऽस्तु च संततम् ।। ५९ ।।
वरं गृहाण दास्यामि मत्परित्राणकारिणि ।।
युवा भवतु भर्ता ते रतिशूरश्च कन्यके ।। ।। 4.42.६० ।।
रूपवान्गुणवान्साध्वि संततं स्थिरयौवनः ।।
परमैश्वर्यसंयुक्ता त्वं भव स्थिरयौवना ।। ६१ ।।
चिरजीवी भवतु स मार्कण्डेयात्परः सुते ।।
कुबेराद्धनवांश्चैव शक्रादैश्वर्यवानपि ।। ६२ ।।
विष्णुभक्तः शिवसमः सिद्धस्तु कपिलात्परः ।।
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ।। ६३ ।।
गृहा भवन्तु ते साध्वि कुबेरभवनाधिकाः ।।
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ।। ।। ६४ ।।
स्वभर्तुरधिकानां च भविष्यसि न संशयः ।।
इत्येवमुक्त्वा संतस्थौ धर्मराजश्च पर्वत ।।६९।।
सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ।।
धर्मस्तामाशिषं युक्त्वा जगाम निजमन्दिरम् ।। ६६ ।।
पतिव्रतां प्रशशंस प्रतिसंसदि संसदि ।।
सा रेमे स्वामिना सार्द्धं यूना रहसि संततम् ।। ६७ ।।
पश्चाद्बभूव सत्पुत्रा तद्भर्तुरधिका गुणैः ।।
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ।। ६८ ।।
दत्त्वाऽनरण्यः स्वसुतां ररक्ष सर्वसंपदम् ।।
त्वमेव कन्यकां दत्त्वा सर्वेषामीश्वराय च ।।६९।।
रक्ष सर्वबन्धुवर्गानात्मनः सर्वसंपदम् ।।
सप्ताहे समतीते च दुर्लभेऽतिशुभे क्षणे ।।4.42.७०।।
लग्नाधिपे च लग्नस्थे चन्द्रे स्वतनयान्विते ।।
मोदते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ।। ७१ ।।
मार्गशीर्षे चन्द्रवारे सर्वदोषविवर्जिते ।।
सर्वसद्ग्रहसंदृष्टे ह्यसद्ग्रहविवर्जिते ।। ७२ ।।
सदपत्यप्रदेऽतीव पतिसौभाग्यदायिनि ।।
अवैधव्यप्रदे सौख्यप्रदे जन्मनि जन्मनि ।। ७३ ।।
अत्यन्तप्रेमाविच्छेदप्रदायिनि परात्परे ।।
कन्यां प्रदाय देवाय त्वं कृती भव पर्वत ।। ७४ ।।
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ।।
तेजःस्वरूपां सर्वेषां देवानां देवपूजिताम् ।। ७९ ।।
आविर्भूता पुरा कल्पे देवानां रक्षणाय च ।।
तेजोराशिः सुरौघाणां प्रज्वलन्तो दिशो दश ।। ७६ ।।
अस्याः स्वतेजसा दैत्याः केचिद्दग्धाः पलायिताः ।।
केचिद्बभूवुः शैलेन्द्र भस्मीभूताश्च भूतले ।। ७७ ।।
बिलं प्रविविशुः केचिन्मूर्च्छां प्रापुश्च केचन ।।
केचिद्दन्ते तृणं कृत्वा जग्मुः शरणमीश्वरीम् ।। ७८ ।।
केचिच्चिक्षिपुरस्त्राणि स्तम्भिता अपि केचन ।।
केचिच्चिरं रणं कृत्वा ययुः स्वर्गमनामयम् ।। ७९ ।।
निःशत्रवो बभूवुस्ते सुरा अस्याः प्रसादतः ।।
कृष्णाज्ञया सा कल्पान्ते दक्षकन्या बभूव ह ।। 4.42.८० ।।
दक्षश्च विधिवद्देवीं प्रददौ शूलपाणये ।।
दैवेन मत्पितुर्यज्ञे सहसा सुरसंसदि ।। ८१ ।।
बभूव कलहः शैल तेन शूलभृता महान् ।।
ब्रह्माणं च नमस्कृत्य ययौ रुष्टस्त्रिलोचनः ।। ८२ ।।
दक्षश्च सगणो रुष्टः प्रययौ स्वालयं तदा ।।
कोपात्संभृतसंभारो दक्षो यज्ञं चकार ह ।। ८३ ।।
न ददौ यज्ञभागं च मात्सर्याच्छूलपाणये ।।
दृष्ट्वा सती प्रकुपिता जनकं रक्तलोचना ।। ८४ ।।
निर्भर्त्स्य च बहुतरं हृदयेन विदूयता ।।
यज्ञस्थानात्समुत्थाय जगाम मातुरन्तिकम् ।। ८५ ।।
भविष्यं कथयामास त्रिकालज्ञा परात्परा ।।
यज्ञभङ्गादिकं वाऽपि स्वपितुश्च पराभवम् ।। ८६ ।।
पलायनं च देवानां यज्ञस्थानाद्गिरीश्वरम् ।।
मुनीनामृत्विजां चैव पर्वतानां तथैव च ।। ८७ ।।
जयं शंकरसैन्यानां स्वात्मनो मृत्युमेव च ।।
शोकात्पर्यटनं भर्तुर्विरहातुरचेतसा ।। ८८ ।।
निर्माणं नेत्ररसः प्रबोधं च जनार्दनात् ।।
मूर्तिभेदात्पुनः प्राप्तिं विहारं तस्य तत्समम् ।।८९।।
अपरं भवितव्यं च सर्वमुक्त्वा जगाम सा ।।
स्वमात्रा भगिनीभिश्च प्रतिषिद्धा च दुःखिता ।। 4.42.९० ।।
बभूवादर्शना योगात्सर्वासां सिद्धियोगिनी ।।
गत्वा सा जाह्नवीतीरं स्मृत्वा संपूज्य शंकरम् ।। ९१ ।।
स्मृत्वा तच्चरणाम्भोजं देहं तत्याज सुन्दरी ।।
गन्धमादनद्रोणीस्थं शरीरं प्रविवेश ह ।। ९२ ।।
संजहार पुरा येन दैत्यानामखिलं कुलम् ।।
हाहाकारं प्रचक्रुश्च सुराः सर्वेऽतिविस्मिताः ।। ९३ ।।
जग्मुः शंकरसेनाश्च देशयज्ञं विनश्य च ।।
पराभवं च सर्वेषां कृत्वा शोकातुराः पराः ।। ९४ ।।
सत्वरं सर्ववृत्तान्तं कथयामासुरीश्वरम् ।।
श्रुत्वा प्रवृत्तिं संहर्ता सर्वरुद्रगणैर्वृतः ।।
जगाम स्वर्णदीतीरं यत्र देवीकलेवरम् ।। ९५ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे सतीदेहत्यागो नाम द्विचत्वारिंशोऽध्यायः ।। ४२ ।।