ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०४३
← अध्यायः ०४२ | श्रीकृष्णजन्मखण्डः अध्यायः ०४३ वेदव्यासः |
अध्यायः ०४४ → |
नारायण उवाच ।।
अथ दुर्गां महादेवस्सतीमूर्तिं मनोहराम् ।।
अम्लानपद्मवक्त्रां तां शयानां जाह्नवीतटे ।। १ ।।
दधतीमक्षमालां च प्रतप्तकाञ्चनप्रभाम् ।।
तेजसा प्रज्वलन्तीं च दधानां शुक्लवाससम् ।। २ ।।
दृष्ट्वा सतीशरीरं च प्रदग्धो विरहाग्निना ।।
तत्त्वराशिर्मूर्तिमांश्च मूर्च्छां प्राप तथापि च ।। ३ ।।
कलत्रशोको बलवान्स्वात्मारामं परात्परम् ।।
बाधते वेदबीजं तं योगीन्द्राणां गुरोर्गुरुम् ।। ४ ।।
क्षणेन चेतनां प्राप्य तामुवाच त्रिलोचनः ।।
निरीक्ष्य वदनाम्भोजं स्थाणुः स्थाणुरिवापरः ।। ५ ।।
साश्रुनेत्रोऽतिदीनश्च दीनानां शरणप्रदः ।।
दीनदैन्यापहारी च विललाप परं वचः ।। ६ ।।
शंकर उवाच ।।
उत्तिष्ठोत्तिष्ठ सुभगे सति प्राणेश्वरि प्रिये ।।
शङ्करोऽहं तव स्वामी पश्य मां निकटागतम् ।। ७ ।।
शिवं शिवप्रदं सर्वसंपद्रूपं च सिद्धिदम् ।।
सर्वात्मानं च सर्वेशं शवतुल्यं त्वया विना ।। ८ ।।
शक्तोऽहं च त्वया सार्द्धं सर्वशक्तिस्वरूपया ।।
शक्तिहीनः शवसमो निश्चेष्टः सर्वकर्मसु ।। ९ ।।
यश्च शक्तिं न जानाति ज्ञानहीनश्च निन्दति ।।
तं त्यक्तुमुचितं विज्ञे कथं मां त्यजसि प्रिये ।। 4.43.१० ।।
स्वयं ब्रह्मा स्वयं विष्णुः साध्यभूता वयं तव ।।
सस्मितं सकटाक्षं च वद किंचित्सुधोपमम् ।। ११ ।।
मधुराभासदृष्ट्या च मां दग्धं सेचनं कुरु ।।
मां दृष्ट्वा दूरतः शीघ्रं स्निग्धं वदसि सस्मितम् ।। १२ ।।
कथमद्यापि रुष्टेव विलपन्तं न भाषसे ।।
प्राणाधिके समुत्तिष्ठ रुदंतं मां न पश्यसि ।। १३ ।।
परित्यज्य च नः प्राणान्गन्तुं नार्हसि सुन्दरि ।।
जगदम्बे समुत्तिष्ठ प्राणाधारे परात्परे ।। १४ ।।
पतिव्रते समुत्तिष्ठ कथं मां नाद्य सेवसे ।।
कथं करोषि विज्ञाय व्रतभङ्गं श्रुतिप्रसूः ।। १५ ।।
इत्युक्त्वा मृतदेहं च प्रियाया विरहातुरः ।।
निधायोरसि संश्लिष्य चुचुम्ब च पुनःपुनः ।। १६ ।।
अधरे चाधरं दत्त्वा वक्षो वक्षसि शङ्करः ।।
पुनःपुनः समाश्लिष्य पुनर्मूर्च्छामवाप सः ।। १७ ।।
पुनः स चेतनां प्राप्य वेगादुत्थाय शोकतः ।।
दुद्राव च यथोन्मत्तो ज्ञानिनां च गुरोर्गुरुः ।। १८ ।।
सप्तद्वीपसप्तसिन्धुं लोकालोकं च काञ्चनम् ।।
बभ्राम भ्रान्तवज्ज्ञानी सतीं कृत्वा स्ववक्षसि ।। १९ ।।
शतशृङ्गगिरेः पार्श्वे जम्बुद्वीपे च भारते।।
सुनिर्जनेऽक्षयवटे गङ्गातीरे सरित्तटे ।। 4.43.२० ।।
रुरोदोच्चैः स्वयं कृत्वा सति साध्वीत्युदीर्य च ।।
त्रिनेत्रनेत्रनीरेण संबभूव सरोवरम् ।। २१ ।।
तन्नेत्रं च सरो नाम मुनीनां तपसः स्थलम् ।।
योजनद्वयविस्तीर्णं पुण्यतीर्थं मनोहरम् ।। २२ ।।
यत्र स्नात्वा पुनर्जन्म नराणां न भवेद्गिरे ।।
शतजन्मकृतं पापं स्नानमात्रेण नश्यति ।। २३ ।।
त्यक्त्वा तां मानवीं मूर्तिं नरा यान्ति हरेः पदम् ।।
स तत्र रोदनं त्यक्त्वा पुनर्बभ्राम मेदिनीम् ।। २४ ।।
पूर्णमब्दं महायोगी विरहातुरमानसः ।।
सतीगलितप्रत्यङ्गैरंगैश्च पर्वतेश्वर ।। २५ ।।
बभूव सिद्धपीठानां समूहो वाञ्छितप्रदः ।।
शेषाङ्गानां महादेवः संस्कारं वै विधाय च ।।२६।।
अस्थिमालां विनिर्माय चकार कण्ठभूषणम् ।।
नित्यं तद्भस्म भक्त्या च चकार गात्रलेपनम्।।२७।।
सति प्राणेश्वरीत्युक्त्वा पुनर्मूर्च्छामवाप सः ।।
विसस्मार ब्रह्म परमात्मानमात्मसंभवः ।।२८।।
स्वात्मारामः पूर्णकामो निश्चेष्टो विरहज्वरात् ।।
तं शयानं गिरिवरस्याभ्याशे वटमूलके ।।२९।।
दृष्ट्वा देवाः समाजग्मुर्विस्मिताः शिवसन्निधिम् ।।
नारायणश्च भगवानीश्वरः सह पार्षदैः ।।4.43.३०।।
रत्नयानेनाजगाम पद्मार्चितपदाम्बुजः।।
रत्नालंकार शोभाढ्यः पीतवासाश्चतुर्भुजः ।। ३१ ।।
ईषद्धास्यप्रसन्नास्यो वनमालाविभूषितः ।।
ब्रह्मा शेषश्च धर्मश्च सुराः सर्वे महर्षयः ।। ३२ ।।
समूषुरीशसदसि लक्ष्मीकान्त प्रणम्य ते ।।
श्रीहरिः शङ्करमहो कृत्वा वक्षसि मूर्च्छितम् ।।
रुदन्तं बोधयामास ज्ञानीशो ज्ञानिनां गुरुम् ।। ३३ ।।
श्रीभगवानुवाच ।।
स्वात्माराम निबोधेदं मदीयं वचनं शृणु ।। ३४ ।।
हितमध्यात्मसारं च दुःखशोकनिकृन्तनम् ।।
सर्वाध्यात्मविद्यमानबीजं ज्ञाननिधिं विधिम् ।। ३५ ।।
तथापि बोधयामि त्वां सर्वज्ञं वेधसो विधिम् ।।
बुधं बोधयितुं शक्तोऽबुधोऽपि प्राणसंकटे ।। ३६ ।।
व्यवहारोऽस्ति लोकेषु सर्वः सर्वपरस्परम् ।।
मायाश्रिता गुणाः सर्वे हेतवः सुखदुःखयोः ।।. ।। ३७ ।।
विष्णुमाया बलवती गुणयुक्तं प्रबाधते ।।
दुःखं शोकं भयं शंभो दुर्दिने भवतीश्वर ।। ३८ ।।
तत्रातीते कुतस्तानि सुदिने च समागते ।।
हर्ष ऐश्वर्यदर्पश्च संततं तत्र वर्द्धते ।। ३९ ।।
सर्वाण्येतानि गण्यन्ते स्वप्नानीव विपश्चितः ।।
ज्ञानं लभ महादेव ज्ञानबीज सनातन ।। 4.43.४० ।।
चेतनां कुरु भद्रं ते सतीं प्राप्स्यसि निश्चितम् ।।
तत्तोयं शीतता नित्यं नाग्निं मुञ्चति दाहिका ।। ४१ ।।
तेजः सूर्यं महीं गन्धो तथा त्वां च सती शिव ।।
शैलेत्येवं समाकर्ण्य हरिं किंचिदुवाच ह ।। ४२ ।।
नेत्राण्युन्मीलनं कृत्वा त्रिनेत्रः श्रूयतामिति ।।
त्रिनेत्र उवाच ।।
कस्त्वं तेजःस्वरूपोऽसि क इमे तव सन्निधौ ।। ४३ ।।
किन्नाम भवतश्चैषां कानि नामानि का सती ।।
कोऽहं को मे भवान्ब्रूते किंकराः कुत आगताः ।। ४४ ।।
क्व यास्यसि क्व यास्यामि क्व गच्छन्त इमे वद।।
हरिरित्येवमाकर्ण्य रुरोद सगणो गिरे ।। ४५ ।।
नेत्रनीरैस्त्रिनेत्रं तं रुदन्तं प्रसिषेच सः ।।
हरित्रिनेत्रयोर्नेत्रनीरपातेन तत्र वै ।।४६।।
बभूव सरसां श्रेष्ठं तीर्थं भुवनपावनम् ।।
भारतेऽस्तगिरेः पश्चात्तत्राक्षयवटांतिके ।। ४७ ।।
स्थलं बभूव तपसां मुक्तिबीजं तपस्विनाम् ।।
अथोवाच पुनः शीघ्रमाध्यात्मं च हरं हरिः ।। ४८ ।।
शृण्वतां सर्वदेवानां मुनीनामूर्ध्वरेतसाम् ।।
श्रीभगवानुवाच ।।
शृणु शंकर वक्ष्यामि ज्ञानानंद सनातन ।।४९।।
ज्ञानं ज्ञाननिधे शोकाद्विस्मृतोऽसि परात्पर ।।
सुदिनं दुर्दिनं शश्वद्भवत्येव भवे भवे ।। 4.43.५० ।।
सर्वेषां प्राकृतानां च ते बीजे सुखदुःखयोः।।
सुखाद्भवति हर्षश्च दर्पः शौर्यप्रमत्तता ।। ५१ ।।
राग ऐश्वर्यकामश्च विद्वेषश्च निरन्तरम् ।।
दुःखाच्छोकात्समुद्वेगाद्भयं नित्यं प्रवर्तते ।। ५२।।
हतान्येतानि सर्वाणि हते बीजे महेश्वर ।।
सुदिनं दुर्दिनं चैव सर्वकर्मोद्भवं भव ।। ५३ ।।
तत्कर्म तपसा साध्यं कर्मणा च शुभाशुभम् ।।
तपः स्वभावसाध्यं च स्वभावोऽभ्यासतो भवेत्।।५४।।
संसर्गसाध्यो ऽध्यासश्च संसर्गः पुण्यतो भवेत्।।
पुण्यबीजं मनश्चैव पापबीजं च चंचलम् ।। ९५ ।।
मनः शंभो ममांशश्च सर्वेंद्रियपुरःसरम्।।
सर्वेषां जनकोऽहं च चित्त्वं ब्रह्मा पतिस्त्वयम् ।। ५६ ।।
ब्रह्रैकं मूर्तिभेदस्तु गुणभेदेन संततम् ।।
तद्ब्रह्म विविधं वस्तु सगुणं निर्गुणं शिव ।। ५७ ।।
मायाश्रितो यः सगुणो मायाऽतीतश्च निर्गुणः ।।
स्वेच्छामयश्च भगवानिच्छया विकरोति च।। ५८ ।।
इच्छाशक्तिश्च प्रकृतिर्नित्या सर्वप्रसूः सदा ।।
केचिदेकं वदंत्येव ब्रह्मज्योतिः सनातनम् ।। ५९।।
केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूर्वकम् ।।
शृणु ये च वदन्त्येकं मायापुरुषयोः परम् ।।4.43.६०।।
तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम् ।।
अथ चैकं परं ब्रह्म द्विविधं भवतीच्छया ।। ।। ६१ ।।
इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः .सदा ।।
तत्राशक्तश्च सगुणः सर्वाधारः सनातनः ।। ६२ ।।
सर्वेश्वरः सर्वसाक्षी सर्वत्रास्ति फलप्रदः ।।
शरीरं द्विविधं शंभो नित्यं प्राकृतमेव च ।। ६३ ।।
नित्यं विनाशरहितं नश्वरं प्राकृतं सदा ।।
अहं त्वं चापि भगवान्नावयोर्नित्यविग्रहः ।। ६४ ।।
आवयोरंशभूता ये प्राकृता नष्टविग्रहाः ।।
रुद्रादयस्त्वदंशाश्च मदंशा विष्णुरूपिणः ।। ६५ ।।
ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्भुजम्।।
चतुर्भुजोऽहं वैकुण्ठे पद्मया पार्षदैः सह ।। ६६ ।।
गोलोके द्विभुजोऽहं च गोपीभिः सह राधया ।।
द्विविधं ये वदन्त्येवं द्वौ प्रधानौ तु तन्मते।। ६७ ।।
पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी ।।
सदा तौ द्वौ च संश्लिष्टौ सर्वेषां पितरौ शिव ।। ६८ ।।
सशरीरौ निःशरीरौ स्वेच्छया सर्वरूपिणौ ।।
प्राधान्यं च यथा पुंसः प्रकृतेश्च सदा तथा ।। ६९ ।।
सतीमिच्छसि चेच्छम्भो प्रकृतेः स्तवनं कुरु ।।
यत्स्तोत्रं च त्वया दत्तं पुरा दुर्वाससे मुदा ।। 4.43.७० ।।
तद्दिव्यं कण्वशाखोक्तं भज तेन जगत्प्रसूम् ।।
शोकनाशो भवतु ते शिवं शिव ममाशिषा ।। ७१ ।।
दूरं विप्लवहेतुश्च यातु स्त्रीविरहज्वरः ।।
इत्येवमुक्त्वा लक्ष्मीशो विरराम गिरीश्वरम् ।।७२।।
स्तवनं कर्तुमारेभे प्रकृतेश्च महेश्वरः ।।
स्नात्वा नत्वा च श्रीकृष्णं ब्रह्माणं भक्तिसंयुतः।।
पुटाञ्जलियुतो भूत्वा पुलकाञ्चितविग्रहः ।। ७३ ।।
महेश्वर उवाच ।।
ओं नमः प्रकृत्यै मन्त्रः ।।
ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि ।।
परमात्मस्वरूपे च परमानन्दरूपिणि ।। ७४ ।।
भद्रे भद्रप्रदे दुर्गे दुर्गघ्ने दुर्गनाशिनि ।।
पोतस्वरूपे जीर्णे त्वं मां प्रसीद भवार्णवे ।। ।। ७९ ।।
सर्वस्वरूपे सर्वेशि सर्वबीजस्वरूपिणि ।।
सर्वाधारे सर्वविद्ये मां प्रसीद जयप्रदे ।। ७६ ।।
सर्वमङ्गलरूपे च सर्वमङ्गलदायिनि ।।
समस्तमङ्गलाधारे प्रसीद सर्वमङ्गले ।। ७७ ।।
निद्रे तन्द्रे क्षमे श्रद्धे तुष्टिपुष्टिस्वरूपिणि ।।
लज्जे मेधे बुद्धिरूपे प्रसीद भक्तवत्सले ।। ७८ ।।
वेदस्वरूपे वेदानां कारणे वेददायिनि ।।
सर्ववेदाङ्गरूपे च वेदमातः प्रसीद मे ।। ७९ ।।
दये जये महामाये प्रसीद जगदम्बिके ।।
क्षान्ते शान्ते च सर्वान्ते क्षुत्पिपासास्वरूपिणि ।। 4.43.८० ।।
लक्ष्मीर्नारायणक्रोडे स्रष्टुर्वक्षसि भारति ।।
मम क्रोडे महामाये विष्णुमाये प्रसीद मे ।। ८१ ।।
कलाकाष्ठास्वरूपे च दिवारात्रिस्वरूपिणि ।।
परिणामप्रदे देवि प्रसीद दीनवत्सले ।। ८२ ।।
कारणे सर्वशक्तीनां कृष्णस्योरसि राधिके ।।
कृष्णप्राणाधिके भद्रे प्रसीद कृष्णपूजिते ।। ८३ ।।
यशःस्वरूपे यशसां कारणे च यशःप्रदे ।।
सर्वदेवीस्वरूपे च नारीरूपविधायिनि ।। ८४ ।।
समस्तकामिनीरूपे कलांशेन प्रसीद मे ।।
सर्वसंपत्स्वरूपे च सर्वसंपत्प्रदे शुभे ।। ८५ ।।
प्रसीद परमानन्दे कारणे सर्वसंपदाम् ।।
यशस्विनां पूजिते च प्रसीद यशसां निधे ।। ८६ ।।
आधारे सर्वजगतां रत्नाधारे वसुन्धरे ।।
चराचरस्वरूपे च प्रसीद मम मा चिरम् । ८७ ।।
योगस्वरूपे योगीशे योगदे योगकारणे ।।
योगाधिष्ठात्रि देवीशे प्रसीद सिद्धयोगिनि ।। ८८ ।।
सर्वसिद्धिस्वरूपे च सर्वसिद्धिप्रदायिनि ।।
कारणे सर्व सिद्धीनां सिद्धेश्वरि प्रसीद मे ।।८९ ।।
व्याख्यानं सर्वशास्त्राणां मतभेदे महेश्वरि ।।
ज्ञाने यदुक्तं तत्सर्वं क्षमस्व परमेश्वरि ।। 4.43.९० ।।
केचिद्वदन्ति प्रकृतेः प्राधान्यं पुरुषस्य च ।।
केचित्तत्र मतद्वैधे व्याख्याभेदं विदुर्बुधाः ।। ९१ ।।
महाविष्णोर्नाभिदेशे स्थितं तं कमलोद्भवम् ।।
मधुकैटभौ महादैत्यौ लीलया हंतुमुद्यतौ ।। ९२ ।।
दृष्ट्वा स्तुतिं प्रकुर्वन्तं ब्रह्माणं रक्षितुं पुरा ।।
बोधयामास गोविन्दं विनाशहेतवे तयोः ।। ९३ ।।
नारायणस्त्वद्भक्त्या च जघान तौ महासुरौ ।।
सर्वेश्वरस्त्वया सार्द्धमनीशोऽयं त्वया विना ।। ९४ ।।
पुरा त्रिपुरसंग्रामे गगनात्पतिते मयि ।।
त्वया च विष्णुना सार्द्धं रक्षितोऽहं सुरेश्वरि ।।९५।।
अधुना रक्ष मामीशे प्रदग्धं विरहाग्निना।।
स्वात्मदर्शनपुण्येन क्रीणीहि परमेश्वरि।।९६।।
इत्युक्त्वा विरतः शंभुर्ददर्श गगनस्थिताम् ।।
रत्नसाररथस्थां तां देवीं शतभुजां मुदा ।। ९७ ।।
तप्तकाञ्चनवर्णाभां रत्नाभरणभूषिताम् ।।
ईषद्धास्यप्रसन्नास्यां जगतां मातरं सतीम् ।। ९८ ।।
दृष्ट्वा तां विरहासक्तः पुनस्तुष्टाव सत्वरम् ।।
दुःखं निवेदयामास प्ररुदन्विरहोद्भवम् ।। ९९ ।।
दर्शयामासास्थिमालां स्वांगस्थं भस्मभूषणम् ।।
कृत्वा बहु परीहारं तोषयामास सुंदरीम् ।। 4.43.१०० ।।
नारायणश्च ब्रह्मा च धर्मः शेषः सुरर्षयः ।।
शिवं रक्षेश्वरीत्युक्त्वा तुष्टुवुस्ते सनातनीम् ।१।।
बभूव परितुष्टा सा तेषां स्तोत्रेण तत्क्षणम् ।।
उवाच कृपया शंभुं प्राणेशं प्राणवल्लभा ।। २ ।।
प्रकृतिरुवाच ।।
स्थिरो भव महादेव प्राणाधिक मम प्रभो ।।
भवानात्मा च योगीशः स्वामी जन्मनि जन्मनि।।३।।
अहं शैलेन्द्रकामिन्यां लब्ध्वा जन्म महेश्वर ।।
तव पत्नी भविष्यामि मुञ्च त्वं विरहज्वरम् ।।४।।
इत्युक्त्वा शिवमाश्वास्य चांतर्धानं चकार सा ।।
सुरा जग्मुस्तमाश्वास्य लज्जानम्रात्मकन्धरम् ।। ५ ।।
हर्षान्तरात्मा गिरिशः कैलासं तु जगाम ह ।।
ननर्त सगणस्तूर्णं संत्यज्य विरहज्वरम् ।। ६।।
इदं शिवकृतं स्तोत्रं प्रकृत्या यः पठेन्नरः ।।
न भवेत्कामिनीभेदस्तस्य जन्मनि जन्मनि ।। ७ ।।
इहलोके सुखं भुक्त्वा स याति शिवमन्दिरम् ।।
धर्मार्थकाममोक्षांश्च लभते नात्र संशयः ।। १०८ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शंकरशोकापनो दनं नाम त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।