ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०४४

← अध्यायः ०४३ श्रीकृष्णजन्मखण्डः
अध्यायः ०४४
वेदव्यासः
अध्यायः ०४५ →


।। श्रीकृष्ण उवाच ।।
वसिष्ठस्य वचः श्रुत्वा सगणोऽपि हिमालयः ।।
विस्मितो भार्यया सार्द्धं जहास पार्वती स्वयम् ।। १ ।।
अरुन्धती च तां मेनां बोधयामास कातराम् ।।
निराहारां रुदन्तीं तां जहौ शोकं मुदा च सा ।। २ ।।
अरुन्धतीं भोजयित्वा बुभुजे भोगमुत्तमम् ।।
सर्वं प्रहृष्टमनसा मङ्गलं च चकार ह ।। ३ ।।
ततः संभृतसंभारो वसिष्ठस्याज्ञया प्रिये ।।
पत्रं प्रस्थापयामास नानास्थानं त्वरान्वितः ।।४।।
ततः प्रस्थापयामास शिवं मङ्गलपत्रिकाम् ।।
नानाप्रकारद्रव्याणि बाह्यानि च चकार ह ।।५।।
तन्दुलानां च शैलान्वै पृथुकानां च सुन्दरि ।।
तैलानां च घृतानां च दध्नां वापीश्चकार ह।।६।।
गुडानामासनानां च क्षीराणां च तथैव च ।।
अथो हैयंगवीनानां लवणानां परं मुने ।। ७ ।।
लड्डुकानां शर्कराणां स्वस्तिकानां तथैव च ।।
यवचूर्णादिपिष्टानां घृतपक्वानि तानि च ।। ८ ।।
नानाप्रकारवस्त्राणि वह्निशौचानि यानि च ।।
महारत्नप्रवालानि सुवर्णरजतानि च ।।९।।
द्रव्याण्येतानि शैलेन्द्र कृत्वा तु विधिपूर्वकम् ।।
मङ्गलं कर्तुमारेभे तत्रैव मङ्गले दिने ।।4.44.१०।।
संस्कारं कारयामासुः पार्वतीं पर्वतस्त्रियः ।।
स्नापयित्वा वस्त्रयुग्मं धारयामासुराशु ताः ।। ११ ।।
कारयित्वा सुवेषां च रत्नभूषणभूषिताम ।।
दर्पणं धारयामासुर्दूर्वाक्षतसमन्वितम् ।।१२।।
ददुश्चालक्तकं चारु पादांगुलिषु पादयोः ।।
गंडे पत्रावलीं रम्यां नेत्रे कज्जलमुज्ज्वलम् ।।१३।।
कबरीं कारयामासुर्मालतीमाल्यवेष्टिताम् ।।
पट्टसूत्रपिनद्धां तां वामवक्त्रां मनोहराम् ।। १४।।
एतस्मिन्नंतरे राधे समाजग्मुः सुरेश्वराः ।।
नीत्वा त्रिनेत्रं तत्रैव रत्नयानस्थमीश्वरम् ।। १५ ।।
शैलः संभृतसंभारान्संभाषयितुमीश्वरान् ।।
शैलान्प्रस्थापयामास ब्राह्मणानपि पूजितान् ।। १६ ।।
प्राङ्गणं कारयामास रम्भास्तम्भैः समन्वितम् ।।
पट्टसूत्रसन्निबद्धरसालपल्लवान्वितैः ।। १७।।
फलपल्लवसंयुक्तैः कलशैर्जलसंयुतैः ।।
चन्दनागुरुकस्तूरीसुचारुकुसुमान्वितैः।।१८।।
मालतीमाल्यसंयुक्तैः संयुक्तं सुमनोहरम् ।।
देवेश्वरान्परो दृष्ट्वा प्रणनाम हिमालयः ।। १९ ।।
रत्नसिंहासनं दातुं प्रेरयामास किङ्करान् ।।
नारायणो हि भगवानुवास पार्षदैः सह ।। 4.44.२० ।।
विनतानन्दनात्तूर्णमवरुह्य चतुर्भुजः ।।
चतुर्भुजैः पार्षदैश्च रत्नभूषणभूषितैः ।। २१ ।।
रत्नमुष्टिनिबद्धैश्च सेवितः श्वेतचामरैः ।।
ऋषिश्रेष्ठैः सुरश्रेष्ठैः स्तूयमानश्च संसदि ।। २२ ।।
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ।।
उवास च तदभ्याशे ब्रह्मा देवगणैः सह ।।२३।।
ऋषयो मुनयश्चैव समूषुर्मङ्गले स्थले ।।
एतस्मिन्नन्तरे शम्भुरवरुह्य रथादहो ।।२४।।
रत्नासने समुत्तिष्ठन्ददर्श पर्वतालयम्।।
समाजग्मुः शिवं द्रष्टुं शैलेन्द्रनगरस्त्रियः ।। २५ ।।
वृद्धा बाला युवत्यश्च वस्त्राभरणभूषिताः।।
काश्चित्कज्जलहस्ताश्च वस्त्रहस्ताश्च काश्चन ।।२६।।
काश्चित्सिन्दूरहस्ताश्च काश्चित्कंकतिहाकराः ।।
वेषार्धभूषिताः काश्चित्काश्चिन्नैवार्धभूषिताः ।। २७ ।।
काश्चिन्निर्भूषिताः काश्चित्सर्वाभरणभूषिताः।।
सर्वा आगत्य संतस्थुः सस्मिता पर्वतालये ।।२८।।
ऋषिकन्या देवकन्या नागकन्या मनोहराः ।।
गन्धर्वशैलकन्याश्च राजकन्याः समागताः ।।२९ ।।
सर्वा अप्सरसो दिव्या रम्भाद्या समुपस्थिताः ।।
मेना कन्यागणैः सार्द्धं ददर्श शंकरं वरम् ।। 4.44.३० ।।
चारुचम्पकवर्णाभमेकवक्त्रं त्रिलोचनम् ।।
ईषद्धास्यप्रसन्नास्यं रत्नाभरणभूषितम् ।।३१।।
चन्दनागुरुकस्तूरीचारुकुङ्कुमभूषितम् ।।
मालतीमाल्यसंयुक्तं सद्रत्नमुकुटोज्ज्वलम् ।। ३२ ।।
वह्निशौचेनातुलेन चातिसूक्ष्मेण चारुणा ।।
अमूल्यवस्त्रयुग्मेन विचित्रेणातिभूषितम् ।। ३३ ।।
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ।।
सर्वया प्रभयाच्छन्नमतीव सुमनोहरम् ।।३४।।
अतीव तरुणं रम्यैर्भूषिताङ्गैश्च भूषितम् ।।
बिभ्रन्तं रूपमतुलं परं नारायणाज्ञया ।।३५।।
योगस्वरूपं योगेशं योगीन्द्राणां गुरोर्गुरुम् ।।
स्वेच्छामयं गुणातीतं ब्रह्म ज्योतिः सनातनम् ।।३६ ।।
गुणभेदाद्रूपभेदं धत्तेऽनन्तमरूपकम् ।।
तारणं तं भवस्थानां सृष्टिस्थित्यंतकारणम् ।। ३७ ।।
सर्वाधारं सर्वबीजं सर्वेशं सर्वजीवनम् ।।
साक्षिरूपं निरीहं च परमानन्दमक्षरम् ३८ ।।
आद्यन्तमध्यरहितं सर्वाद्यं सर्वरूपकम् ।।
दृष्ट्वा जामातरं मेना जहौ शोकं मुदान्विता ।। ३९ ।।
प्रशशंसुर्युवत्यश्च धन्या धन्या सतीति ताः ।।
दुर्गा भाग्यवतीत्येवमूचुः काश्चन कन्यकाः ।। 4.44.४० ।।
कामेन काश्चित्कामिन्यो मौनीभूताश्च स्तम्भिताः ।।
न दृष्टो वर इत्येवमस्माभिर्ज्ञानगोचरे ।। ४१ ।।
काश्चिन्निमेषरहिता मूर्च्छामापुश्च काश्चन ।।
निनिन्दुः स्वपतिं काश्चित्स्वेच्छां चक्रुश्च काश्चन ।। ४२ ।।
काश्चिद्भावेन रुरुदुः पुलकाञ्चितविग्रहाः ।।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।। ४३ ।।
दृष्ट्वा शंकररूपं च प्रहृष्टाः सर्वदेवताः ।।
नानाप्रकारवाद्यानि चारूणि मधुराणि च ।। ४४ ।।
वादका वादयामासुर्नानाशिल्पेन तत्र वै ।।
एतस्मिन्नन्तरे दुर्गा शैलान्तःपुरचारिका ।।४५ ।।
बहिश्चकार सद्रत्नासनस्थां रत्नवेदिकाम् ।।
कस्तूरीबिन्दुभिः सान्द्रसिन्दूरबिन्दुभूषिताम् ।।४६।।
चारुचन्दनचन्द्राभां नम्रभालस्थलोज्ज्वलाम् ।।
रत्नेन्द्रसारहारेण वक्षःस्थलविभूषिताम् ।। ४७ ।।
त्रिनेत्रदत्तनेत्रां तामन्यवारितलोचनाम् ।।
अतीषद्धास्ययुक्तास्यां सकटाक्षां मनोहराम् ।। ४८ ।।
रत्नकेयूरवलयरत्नकङ्कणमण्डिताम् ।।
रत्नपाशकसंसक्तां क्वणन्मञ्जीररंजिताम् ।। ४९ ।।
अमूल्यातुल्यचित्राढ्यवस्त्रयुग्म सुशोभिताम्।।
सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम्।।4.44.५०।।
मणिसारप्रभामुष्टदन्तराजिविराजिताम्।।४९।।
रत्नदर्पणहस्तां च क्रीडापद्मं विघूर्णतीम्।।५१ ।।
चन्दनागुरुकस्तूरीकुङ्कुमेनाङ्गचर्चिताम्।।
मुदिता ददृशुः सर्वे जगदाद्यां जगत्प्रसूम् ।। ९२ ।।
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदाऽन्वितः ।।
सर्वां सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ।।५३।।
शिवः सर्वं विसस्मार दुर्गासन्यस्तमानसः ।।
पुलकांचितसर्वांगो हर्षाश्रुयुक्तलोचनः।।५४।।
एतस्मिन्नन्तरे शैलः प्रहृष्टः सपुरोहितः।।
तं वरं वरयामास वस्त्रचंदनभूषणैः।।५५।।
भक्त्या पाद्यादिभिर्माल्यैर्दिव्यगंधमनोहरैः ।।
ततः शीघ्रं वेदमंत्रैः संप्रदानं चकार ताम् ।। ५६ ।।
यौतुकानि ददौ तस्मै रत्नानि विविधानि च ।।
चारुरत्नविकारणि पात्राणि सुन्दराणि च ।।५७।।
गवां लक्षं गजेंद्राणां सहस्राणि च राधिके ।।
रत्नकंबलयुक्तानि सांकुशानि मुदान्वितः ।।५८।।
त्रिंशल्लक्षं हयानां च सज्जितानामकातरः ।।
दासीनामनुरक्तानां लक्षं सद्रत्नभूषितम् ।। ५९ ।।
शतं द्विजबटूनां च पार्वतीभ्रातृकल्पकम् ।।
रथानां च शतं रम्यं रत्नेन्द्रसारनिर्मितम् ।।4.44.६० ।।
पार्वतीं वस्तुसहितां स्वस्तीत्युच्चार्य शंकरः ।।
जग्राहानंदमनसा यत्नाच्छैलसमर्पिताम् ।। ६१ ।।
हिमालयः सुतां दत्त्वा परिहारं चकार तम् ।।
माध्यंदिनोक्तस्तात्रेण तुष्टाव संपुटांजलिः ।। ६२ ।।
हिमालय उवाच ।।
प्रसीद दक्षयज्ञघ्न नरकार्णवतारक ।।
सर्वात्मरूप सर्वेश परमानंदविग्रह ।। ६३ ।।
गुणार्णव गुणातीत गुणयुक्त गणेश्वर ।।
गुणबीज महाभाग प्रसीद गुणिनां वर ।। ६४ ।।
योगाधार योगरूप योगज्ञ योगकारण ।।
योगीश योगिनां बीज प्रसीद योगिनां गुरो ।। ६५ ।।
प्रलयप्रलयाद्यैकभवप्रलयकारण ।।
प्रलयान्ते सृष्टिबीज प्रसीद परिपालक ।। ६६ ।।
संहारकाले घोरे च सृष्टिसंहारकारण ।।
दुर्निवार्य दुराराध्य चाशुतोष प्रसीद मे ।। ६७ ।।
कालस्वरूप कालेश काले च फलदायक ।।
कालबीजैककालघ्न प्रसीद कालपालक ।। ६८ ।।
शिवस्वरूप शिवद शिवबीज शिवाश्रय ।।
शिवभूत शिवप्राण प्रसीद परमाश्रय ।। ६९ ।।
इत्येवं स्तवनं कृत्वा विरराम हिमालयः ।।
प्रशशंसुः सुराः सर्वे मुनयश्च गिरीश्वरम् ।। 4.44.७० ।।
हिमालयकृतं स्तोत्रं संयतो यः पठेन्नरः ।।
प्रददाति शिवस्तस्मै वाञ्छितं राधिके ध्रुवम् ।। ७१ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे पार्वतीसंप्रदाने चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।